अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1206, कुल 2600 में से
संदर्भ में पढ़ें३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० ४ सू० ६. भाष्यप्रकाशः। तदेतद् व्युत्पादयन् पूर्वमाभासयोर्वैलक्षण्यमाह 'अभिमन्ता जीवो नियन्तेश्वरः' इति । तयोरुभयो- राभासत्वे तुल्यत्वे कथमेवं वैलक्षण्यमित्याशङ्कायां तत्प्रयोजकं रूपमाह 'सर्वाहंमानी हिरण्य- गर्भरूप ईश्वरवद् व्यक्तचैतन्यः सर्वगो हि' इति । हिर्हेतौ । यस्मादयं सर्वाहंमानी सर्वगः समष्टित्त्वादविद्या व्यष्ट्युपाधयो जीवास्तत्तदभिमन्तारः । यस्मादीश्वरवद् व्यक्तचैतन्यस्तस्मात् ते नियन्तारः । यस्मात् त्रिरूपस्तत्तदङ्कुरोपाधयो ब्रह्मादयोऽपि प्रत्येकं तादृशाः । दृष्टान्ती- भूत ईश्वरः को वेत्यत आह 'एष ईश्वरः क्रियाज्ञानात्मा' इति । एष इति प्रक्रान्तः परमात्मा । तथा च तस्य क्रियात्मकत्वात् तत्प्रतिरूपोऽयं सर्वाहंमानी, तस्य ज्ञानात्मकत्वादयं व्यक्त- [