भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1210, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1210

६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ५ सू० ७. असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ ( २-१-५ ) श्रुतौ कारणत्वेनासदुक्तमितिचेन्न प्रतिषेधार्थमेव वचनम् । कथमसतः सञ्जा- भाष्यप्रकाशः। ब्रह्माभेदाय प्रतिपादितम् । अविद्याया अनुज्ञायामान्तर्भावश्च प्रतिपादितः । तत् सर्वं मत्कृत- नृसिंहतापनीयदीपिकातोऽवगन्तव्यम् । अत्र प्रयोजनाभावान्नोच्यते । इदमत्र प्रसङ्गादुक्तम् । माध्वास्तु, 'न विलक्षणत्वात्' इति सूत्रं पठित्वा ततो, 'दृश्यते तु' इति सूत्रं पठन्ति । द्विसूत्रमधिकरणं चाहुः । श्रुतेस्तदनुसारिस्मृतेश्च न पाशुपतादिस्मृतिवदप्रामाण्यम् । कुतः विलक्षणत्वात् । नित्यत्वेन पुरुषाजन्यतया तद्वैलक्षण्यात् । अस्य वेदस्य तथात्वं नित्यत्वं च शब्दात् 'वाचा विरूपनित्यया' इत्यादिरूपात् स्वतःप्रामाण्याच्च । अन्यथाऽनवस्थितेरिति चार्थमाहुः । ततोऽभिमानिव्यपदेशसूत्रं पठित्वा, 'दृश्यते च'इत्यधिकं सूत्रं पठन्ति । तदपि सूत्र- द्वयात्मकमधिकरणान्तरमित्याहुः । तत्रापि, वेदः प्रमाणं न, मृदब्रवीदित्यादौ प्रत्यक्षविरुद्ध- वादित्वादिति पूर्वपक्षनिरासं तुना कृत्वा, मृदब्रवीदित्यादिषु तदभिमानिव्यपदेशस्तासां वि- शेषानुगतिम्यां सामर्थ्यव्यापकत्वाभ्यामङ्गीक्रियतेऽतो न प्रत्यक्षविरोधः । तासां सामर्थ्यं च महद्भिर्दृश्यतेऽतः प्रत्यक्षविरोधाभावान्न श्रुतिप्रामाण्यभङ्ग इत्यर्थं चाहुः ॥ ६ ॥ इति चतुर्थं विलक्षणत्वाधिकरणम् ॥ ४ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ पूर्वाधिकरणेन श्रुतौ युक्तिविरोधं परिहृत्य समाकर्षकसूत्रोक्तसार्थस्योपष्टम्भार्थं श्रुत्यन्तरे पुनर्विप्रतिषेधान्तरमाशङ्क्य समाधत्ते अस- दित्यादि । तद् व्याकुर्वन्ति श्रुतावित्यादि । 'असद्वा इदमग्र आसीत्' इति श्रुतावसतः सकाशात् सृष्टिरुच्यते । असच्च सद्भिन्नम्, अभावो वा अलीकं वा । अतस्तदेव कारण- रश्मिः । एतयोरन्यतररूपं विकल्प्यरूपम् । तद्भिन्नं रूपमविकल्परूपं तस्य भावस्तत्त्वम् । अविद्यापि पूर्व- मुक्तेति चेत्तत्राहूः अविद्याया इति । अनुज्ञायामदृश्येऽन्तर्भावः सत्त्वेनानुभवादित्यर्थः । असङ्गतत्वं वारयन्ति स्म इदमत्र प्रसङ्गादिति । उक्तमिति । एवमत्र जगन्नित्यत्वानित्यत्वप्रति- पादकयोः श्रुत्योः स्मृत्योश्च मिथो विरोधाभाव उक्तः भ्रान्तसत्यत्वाभावाय । सूत्रांशं व्याकुर्वन्ति अस्य वेदस्येति । अनवेति प्रमाणानामिति शेषः । तेन दृश्यते च इत्यपि व्याख्यातम् । अत्रापि समन्वयो विषयः । तत्र सच्चिदानन्दानां कारणत्वोक्त्या चेतनं कारणं न वेति संशयः । चेतनं ब्रह्म जगदुपादानं न जगतो जडत्वेन ब्रह्मणस्तद्वैलक्षण्यादिति प्राप्तेऽभिधीयते कार्य- कारणयोर्वैलक्षण्यस्य गोमयवृश्चिकादौ दर्शनात् सदंशस्य कार्यकारणयोस्तुल्यत्वेन सालक्षण्याच्च न ब्रह्मणोकारणत्वमिति । द्वितीयसूत्रार्थमाहुः तास्तमिति । आहुरिति । वेदप्रामाण्यं स्वमते प्रतितन्त्रसिद्धं नात्र विषयः ॥ ६ ॥ इति चतुर्थं विलक्षणत्वाधिकरणम् ॥ ४ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ समाधत्त इति । तेन प्रसङ्गः सङ्गतिः पादार्थलक्षणाव्याप्तिश्च परिहृता । विषयोऽसद्वेत्यादिश्रुतिः । असतः कारणत्वमुत सत इति संशयः । सद्भिन्नमिति सत्त्वावच्छिन्नप्रतियोगिताकभेदवत् । अभावोऽत्यन्ताभावः । अलीकं मिथ्या खपुष्पादि । 1104