अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1214, कुल 2600 में से
संदर्भ में पढ़ें४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ५ सू० ८. अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥ पूर्वपक्षमाह । अपीतिर्लयः । कार्यस्य कारणलये तद्वत् प्रसङ्गः । स्थौल्य- सावयवत्वपरिच्छिन्नत्वाशुद्धत्वादिधर्मसंबन्धावश्यकत्वादसमञ्जसं ब्रह्मकारण- वचनम् ॥ ८ ॥ भाष्यप्रकाशः। नात्र मत्कल्पनेति बोध्यम् । तथा सत्यस्मिन् पक्षे प्रतिषेधमात्रत्वादित्यस्य साधुत्वप्रतिषेध- मात्रत्वादित्यर्थः संगृहीतो बोध्यः । तथा चासच्छब्दस्य स्वार्थाभ्यावनं यदि नेष्यते तदापि छान्दोग्ये असत्पदस निषेध्यपरत्वम् । तैत्तिरीये तु प्रपञ्चस्थूलावस्थाभावबोधनपरम् । प्रपञ्च- विशेषासाधुताबोधनपरत्वं वा । अतः समाकर्षणानङ्गीकारेऽपि न ब्रह्मकारणताविरोध इत्यर्थः । रामानुजाचार्यास्तु, न विलक्षणेति सूत्रोक्तयुक्त्या जगतो ब्रह्मवैलक्षण्ये ब्रह्मणोपि जग- द्वैलक्षण्यात् तत उत्पन्नस्य जगतो द्रव्यान्तरत्वादसत एवोत्पत्तिः प्रसज्यत इत्येवमस्मिन् सूत्रे असदिति चेदिति भागेनाशङ्क्य, न प्रतिषेधमात्रत्वादिति भागेन परिहरति । 'दृश्यते तु' इत्यस्य पूर्वसूत्रस्य कार्यकारणयोः सालक्षण्यनियमनिषेधमात्रपरत्वान्न कार्यस्य कारणाद् द्रव्यान्तरत्वम् । कृमिगोमक्ष्योरिव वैलक्षण्याभावात् कुण्डलहिरण्ययोरिव द्रव्यैक्यसत्त्वादित्यर्थमाहुः ॥ ७ ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥ पूर्वसूत्रेणासत्कारणवादं परिहृत्य श्रुत्यवि- रोधस्थापनाद् ब्रह्मकारणवादे स्थिरीकृते पुनस्तत्र युक्त्या प्रत्यवतिष्ठत इत्याशयेन सूत्रमवतारयन्ति पूर्वपक्षमाहेति । तथा च नेदमसद्वादनिरसकं सिद्धान्तसूत्रमित्यर्थः । व्याकुर्वन्ति अपीतिरि- त्यादि । असमञ्जसमिति सर्वज्ञत्वशुद्धत्वादिविघटकत्वेनायुक्तम् ॥ ८ ॥ रश्मिः। सत्यसृष्ट्युत्तरकालीनः मायामनोमयत्वात् स्वाप्निकैन्द्रजालिकवत् । वचसेत्यादि इदमुक्तं 'शब्द इति चेन्नान्तः प्रभववात्प्रत्यक्षानुमानाभ्याम्' इत्यत्र । पुष्टिमित्यादि 'तदात्मानᳪस्वयमकुरुत' इति । फलाध्यायेति । 'जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च' इति सूत्रे 'लीलायाः कालमायाव्यतीतत्वेन प्राकृतं जगदितरम्' इति भाष्येण ब्रह्मत्वप्राकृतत्वाभ्यां जगद्भेदे उक्त इत्यर्थः । आहुरिति । श्लोकं समन्वयसूत्रसिद्धम् । माध्वास्तु श्रौतमसन्मतमत्र निषिध्यते इत्याहुः । तत्र 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति दोषः । भास्करभाष्ये तु शब्दस्पर्शादिहीनाद्ब्रह्मणः शब्दस्पर्शा- दिमत्कार्यं जायत इत्यादि रामानुजाचार्यवदाहुः । इदं सूत्रमिति वक्ष्यन्ति । 'रश्मौ' त्वधिकरणं रचितम् । अन्येप्यत्राधिकरणं रचयन्ति । 'असद्वा इदमग्र आसीत्' इत्यादिश्रुत्या समन्वयो बाध्यते न वेति संशये असतः कारणत्वोक्त्या सतो ब्रह्मणः कारणत्वासंभवात् ब्रह्मकारणताबोधकश्रुतीनां ब्रह्मणि समन्वयो बाध्यत इति पूर्वपक्षे 'कथमसतः सजायेत' इत्यादिश्रुत्या पूर्वोक्तवचनस्य निषेधार्थ- कत्वात्समन्वयो न बाध्यत इति सिद्धमिति । अन्ये पुनर्न विलक्षणत्वाधिकरणं 'एतेन शिष्टापरिग्रह' सूत्रं मर्यादीकृत्याङ्गीकुर्वन्ति ॥ ७ ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥८॥ पूर्वसूत्रेणेति सूत्रेणासूत्रात्मकाधिकरणेन वा । सूत्रमिति सूत्रमधिकरणाङ्गं सूत्रं वा । असद्भावेति । असत्कारणवादो निराकृतोपि तदा स्थिरो भवेद्यदा ब्रह्मकारणवादः समञ्जसः स्यान्न त्वेवमित्येवं ब्रह्मकारणप्रतिपादकश्रुतिषु ब्रह्मकारणवचनं समञ्जसमाहोस्विदसमञ्जसमिति संशये पूर्वपक्षसूत्रं न तु सिद्धान्तसूत्रमित्यर्थः ॥ ८ ॥ १. निर्भयराममहाः । २. शांकराः । 1108