अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1220, कुल 2600 में से
संदर्भ में पढ़ें४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० ५ सू० ११. भेदाद् वस्तुनो द्वैरूप्यासम्भवान्नियमकाभावाच्च । अतो न तर्कस्य प्रतिष्ठा । पूर्वपक्षिणः परिहारः । अप्यन्यथानुमेयमितिचेत् । एवमपि अन्यथा वयमनुमास्यामहे। यथा नाप्रतिष्ठादोषो भविष्यति । न हि कोऽपि तर्कः प्रतिष्ठितो नास्तीति वक्तुं शक्यते । व्यवहारोच्छेदप्रसङ्गात् । 'आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः' ॥ इति स्मृतेः ॥ सावद्यतर्कपरिहारेण निरवद्यस्तर्कः प्रतिपत्तव्यो भवतीतिचेद्, एवमप्य- विमोक्षप्रसङ्गः । ब्रह्मवादिनो निरवद्यतर्कसद्भावेऽपि प्रकृतिवादिनस्तर्कस्य दोषा- विमोक्षप्रसङ्गः । मूलनियमाभावाद् वैमल्यस्य विद्यमानत्वात् ॥ ११ ॥ इति द्वितीयाध्याये प्रथमपादे पञ्चममसत्प्रतिषेधाधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। मतिभेदात् । विवादविषयस्यैकस्य वस्तुनो युक्तिमात्रेण द्वैरूप्यस्यासंभवात् । लोकस्य वैचित्र्येणोभयोर्वा दिनोर्दृष्टान्तसौलभ्ये एकतरयुक्तिनियामकस्य हेतोरभावाच्च । अतो मह- र्ष्युक्तत्वाद्धेतोर्न तर्कस्य प्रतिष्ठा। पूर्वपक्षिणः परिहारस्तस्मादित्यस्मान् प्रतिब्रवीषि तदा अप्यन्यथानुमेयमितिचेद् एवमपि वयमन्यथानुमास्यामहे, यथा तर्काप्रतिष्ठादोषो न भवति । तत्र हेतुः न हीत्यादि । तत्रापि हेतुद्वयं व्यवहारेत्यादि स्मृतेरित्यन्तम् । तेन सिद्धं तु, सावद्येत्यादि चेदित्यन्तम् । तथा च, प्रधानं जगदुपादानकारणम् । तत्स- लक्षणत्वात् पटसल्लक्षणतन्तुवदित्यनुमानं निरवद्यम् । 'प्रधानाज्जगजायते' इति सांख्यसूत्रो- क्तश्रुत्या, 'यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः' इति श्वेताश्वतरश्रुत्या चानुगृहीत- त्वादिति चेदेवं सांख्योक्तमनूद्य परिहरन्ति एवमपीत्यादिना । तथा च त्वया या श्वेताश्वतर- श्रुतिस्तर्कानुग्राहकतयोक्ता सा प्रकरणावरुद्धा । तत्र हि प्रथमेऽध्याये, 'भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्' इति भोक्तृभोग्ययोरपि ब्रह्मत्वश्रावणेन भोग्यस्य प्रधानस्य ब्रह्मरूपत्वेनैव सिद्धत्वात् । पञ्चमाध्याये च, 'तद् वेदगुह्योपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्म- योनिम्' इति ब्रह्मण एव योनित्वश्रावणात् । एवं, 'प्रधानाज्जगजायते' इत्यत्रापि प्रधानं ब्रह्मकार्य- मेव बोध्यम् । संदिग्धस्य वाक्यस्याप्यसंदिग्धेनैव निर्णयस्य युक्तत्वात् । इदं च, 'योनिश्च हि रश्मिः। वस्तुन इत्यादिभाष्यं विवृण्वन्ति विवादेति । वस्तुन इति धर्मादेर्ब्रह्मणश्च । नियमके- त्यादिभाष्यं विवृण्वन्ति स्म लोकस्येति । अत इत्यादिभाष्यं विवृण्वन्ति अत इति, प्रतिष्ठेति प्रतिष्ठानम्, तस्मात्पूर्वपक्षिणः परिहारः पूर्वसूत्रोक्ततुल्यदोषरूपः इत्यस्मान्प्रति ब्रवीषीत्यर्थः । यद्वा । तर्काप्रतिष्ठानं अतति व्याप्नोतीति तर्काप्रतिष्ठानात् । कोऽततीत्यत्राहुर पूर्वपक्षिणः परिहार इति भाष्ये । अप्यन्यथानुमेयमिति सूत्रांशविवरणभाष्यं विवृण्वन्ति स्म तदाप्यन्यथेति अस्माभिः । तत्रापीत्यादेर्विवरणं क्रियते एवमपीति । वयमिति प्रतिवादिनः । गुह्योपनिष- त्स्विति कृष्णोपनिषदादिषु । 'गूढं ब्रह्मणि वाङ्मये' इति वाक्याद् गूढमिति कृष्णाख्यम् । वेदत इति छान्दसं वेत्तीत्यर्थः । संदिग्धस्येति 'तदात्मानं स्वयमकुरुत' इति श्रुत्या संदिग्धस्य प्रधानकारण- 1114