भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1221, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1221

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ (२-१-६) सांख्यमतैकस्य वैदिकप्रत्यासन्नतत्वात् केषाञ्चिच्छिष्टानां परिग्रहोप्यस्ति । अणुमायाकारणवादास्तु सर्वथा न शिष्टैः परिगृह्यन्त इति तेषां तर्काः पूर्वोक्त- भाष्यप्रकाशः। गीयते' इति प्रथमाध्याय एव दत्तोत्तरम् । अतः प्रकृतिवादिनो मूलनियमाद्यभावात् तत्तर्क- स्याप्रतिष्ठादोषान्नविमोक्षस्यैव प्रसङ्ग इत्यर्थः । रामानुजाचार्यास्तु, 'तर्काप्रतिष्ठानादपि'इति सूत्रं भिन्नं कुर्वन्ति । तदा लापनसौकर्यं गुणः । हेतोः सिद्धान्तकोटिप्रवेशात् । तथापि पूर्वसूत्रस्थचकारवैयर्थ्यं दोषः । चकारार्थस्यात्रत्य 'अपि'शब्देन संग्रहादिति ॥ ११ ॥ इति पञ्चममसत्प्रतिषेधाधिकरणम् ॥ ५ ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ तर्काप्रतिष्ठानदोषमन्येष्वपि बोधयंस्तत्रापि परिहारमतिदिशति एतेनेत्यादि । तद् व्याचक्षते सांख्येत्यादि । पूर्वोक्त- रश्मिः। बोधकस्य 'प्रधानाज्जगज्जायते' इति श्रुतिवाक्यस्य 'भोक्ता भोग्यम्' इति 'तद्धेदं' इति वाक्याभ्यां निर्णययोग्यत्वादित्यर्थः । चकारेति । अयमर्थः । 'मात्रालाघवे वैयाकरणाः पुत्रोत्सवं मन्यन्ते' इति चकारोन्‍यार्थसमुच्चायकोपि न वक्तव्योपिशब्देन चारितार्थ्यादिति । अन्यानि तु भाष्याणि नातिविरुद्धानीति नोक्तानि । शांकरभाष्ये चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति सिद्धम् । तत्र प्रकृतिः ओंकार इति शब्दार्थाभेदः । माया न प्रकृतिर्नापि तत्र प्रतिबिम्बः । न चैवं जगत्कर्त्री शक्तिः सदानन्दस्य न सच्चिदानन्दस्येति वाच्यम् । नवीनभावजनकत्वादिकथनात्तच्छ्रितायाः ग्रहणात् । अतः शुद्धा चित् कारणम् । रामानुजमतमुक्तम् । माध्वमते तु 'तर्काप्रतिष्ठाने' मोक्षतर्काप्रतिष्ठाने मोक्षाभावप्रसङ्गः । स्वमते तु विशब्दात्प्रकृतिवादिन इत्यादिग्रन्थोधिकः । भास्कराचार्यमते प्रधानकारणत्वमाशङ्क्य एवमपि प्रधानकारणत्वेप्यनवस्थादोषान्निर्मोक्षस्तर्काणामतः श्रुतिमूलमेव जगद्धि जीवधारणमिति स्थितमित्याहुः । तत्र तर्कमोचने मननश्रुतिविरोधः । तत्रैव 'यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवमन्य आत्मानं विद्वान्ब्रह्मामृतोमृतम्' इति श्रूयते । अत्र पञ्चमहाभूतानां ब्रह्मत्वं प्रपद्ये इत्युक्तोर्थः प्रतीयते । पञ्च ब्रह्माणि एकं स्वरूपलक्षणेन लक्षितमिति श्रुतिविप्रतिषेधस्तस्य परिहारः शिष्टापरिग्रहात् पञ्चत्वस्य । शिष्टापरिग्रहस्तु 'तं एवम् अन्ये इति पदच्छेदस्यापि संभवात् । अत एव 'न संख्योपसंग्रह'सूत्रे भाष्ये सांख्यमतसंख्यावारकत्वेनैव व्याख्याता श्रुतिः । न च शारीरकमीमांसायां शारीरब्राह्मणोक्तं शिष्टापरिगृहीतमिति प्रवक्तुं शक्यमिति वाच्यम् । गीतात्रयोदशाध्याये 'क्षेत्रज्ञं चापि मां विद्धि' इत्युक्तं ज्ञेयमप्युक्तम् । तत्र क्षेत्रज्ञं चापीति पक्षः शिष्टापरिगृहीत इति गीतोपबृंहणात्तदुपढौकनेन ब्रह्मवादौचित्यात् । अत्र समन्वयो विषयः सदसतोः कारणतोक्त्या विसंवादात्कार्यप्रतिपादकानां समन्वयोस्ति न वेति संशयः नास्तीति पूर्वपक्षेभिधीयते । अस्तीति सिद्धान्तः । श्रुतिविरोधपरिहारात् ॥ ११ ॥ इति पञ्चममसत्प्रतिषेधाधिकरणम् ॥ ५ ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ बोधयन्निति सूत्रकृत् । अति- दिशतीति निरस्ता इत्यनुक्त्वा व्याख्याता इत्युक्त्यातिदिशति । व्याख्यानाभावे सर्ववादानवसरत्वं न तु नानावादानुरोधित्वं स्यात् । भाष्येनिरस्तपरिग्रहशब्दाभ्यां सिद्धार्थमाहुः यद्यपीति । औलूक इति 111