अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1219, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥ वेदोक्तेऽर्थे शुष्कतर्केण प्रत्यवस्थानमयुक्तम् । तर्कस्याप्रतिष्ठानात् । तर्को नाम खोत्प्रेक्षिता युक्तिः । सा एकोक्ता नान्यैरङ्गीक्रियते । स्वतन्त्राणामृषीणां मति- भाष्यप्रकाशः। माहुः । तत्रापि विनाशत्वस्य नानुमानत्वम् । न सदवशेषः । जलविनाशवदिति दृष्टान्तेन हेतोः साधारणत्वादिति । भिक्षुस्तु यथा असतः सदुत्पत्तिर्न संभवति तथा सतोऽपि सदुत्पत्तिर्न संभवति । कुतः । अपीतौ कारणवत् कार्यस्यापि विद्यमानत्वप्रसङ्गादिति पूर्वपक्षम्, 'अपीतौ' सूत्रे व्याख्याय, 'न तु' इति सूत्रे सतः सदुत्पत्तौ मृद्घटादेर्दृष्टान्तस्य विद्यमानत्वादिति सिद्धान्तं व्याचख्यौ । तदपि शिथिलम् । सतो मृदादेरविद्यमानस्यैव घटादेरुत्पत्तिदर्शनेन सतः सदुत्पत्तेरुपपादन- सापेक्षत्वादिति ॥ १० ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥ सूत्रा- क्षरैरेव सांख्योक्त्या किंचिदाशङ्क्य परिहरतीत्याशयेन सूत्रं पठित्वा व्याचक्षते वेदोक्त इत्यादि वेदोक्तेऽर्थे शुष्कतर्कैः कार्यवैलक्षण्यकार्यधर्मवत्त्वप्रसङ्गादिभिः प्रत्यवस्थानमयुक्तम् । कुतः तर्कस्याप्रतिष्ठानात् । तर्को नाम खोत्प्रेक्षिता युक्तिः । सा एकोक्ता नान्यैरङ्गी- क्रियते । वक्तृभिश्चार्यायां तत्तदुक्तास्तर्काः परस्परमाभासीक्रियन्ते । स्वतन्त्राणामृषीणां रश्मिः। भावस्तत्प्रतियोगिघटादिरप्रतियोगिपरमाणुसंबन्ध इति । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साध्य- नाव्यापकत्वम् । तदित्थम् । साधनं सदवशेषत्वं तद्वती प्रकृतिः तन्निष्ठो योऽत्यन्ताभावः परमाणु- संबन्धाभावस्तत्प्रतियोगित्वं परमाणुसंबन्ध इति । न सदवशेष इति । न सदवशेषः विना- शत्वात् जलविनाशवदित्येव । हेतोरिति साधारणत्वं साध्यसाधकत्वम् । अप्रयोजकत्वं विरुद्धत्व- मिति यावत् । 'साध्याभावव्याप्तो हेतुर्विरुद्धः' इति तलक्षणात् । भिक्षुस्त्विति भगवान्भिक्षुः । अविद्यमानस्यैवेति । 'नासतो विद्यते भावः' इत्युक्तयुक्त्या श्रुतिविप्रतिषेधपरिहारेऽप्रवृत्तिरिति । न हि दृष्टेऽनुपपन्नं नाम व्याघातादेकत्वात् । भास्कराचार्यास्तु भेदाभेदार्थमुक्तप्रकारेणाहुः पुस्तक- मशुद्धमित्युपरम्यतेऽस्माभिः ॥ १० ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥११॥ सांख्यो- क्त्येति वक्ष्यमाणश्वेताश्वतरश्रुत्यनुगृहीततर्काक्षरैः सांख्योक्तिः । पठित्वेति सर्वभाष्यसंग्रहा कण्ठोक्तत्वेपि पठित्वा । चिकीर्षितस्य मुख्यत्वादन्धथा तर्कनिरूपणे 'तर्क' सूत्रे प्रतीकमात्रं विष्कृतं स्यात् । वेदोक्तेऽर्थ इति ब्रह्मणः समवायित्वे । प्रत्यवेति प्रतिकूलमवस्थानम् । स्वोत्प्रेक्षितेति । ननु वेदान्ते खोत्प्रेक्षायाः किं प्रयोजनमिति चेन्न । 'तर्को मीमांसया युतः' इति श्रीमदाचार्योक्तेः प्रथमाध्यायमीमांसानन्तरं तर्कस्य खोत्प्रेक्षितयुक्त्यात्मकस्य युक्तत्वात् । न चामीमांसाप्रसङ्गोऽस्तेति वाच्यम् । वक्ष्यमाण 'मत्वा' इत्यनेन 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः' इति श्रुत्या च युक्तिभिरनुचिन्तनरूपमननस्य विधानाऽस्मार्थस्य मीमांसात्वात् । वक्तृभिरित्याचार्यैर्मिश्रैश्च । 1113