भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1224, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1224

५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० ७ सू० १३. यथा लोके कटककुण्डलादीनां सुवर्णकारणत्वेन सुवर्णानन्यत्वेऽपि न कटकस्य कुण्डलत्वमेवं न भोग्यस्य भोक्तृत्वम् ॥ १३ ॥ इति द्वितीयाध्याये प्रथमपादे सप्तमं भोक्त्रापत्तेरित्यधिकरणम् ॥ ७ ॥ भाष्यप्रकाशः । यथा लोके कटककुण्डलादेरूपमर्देन सुवर्णरूपतापत्तौ पुनःकरणदशायां कटकभागस्य कुण्ड- लत्वं कुण्डलभागस्य कटकत्वं तद्वत् । अतोऽविभागो विज्ञानाऽविज्ञानविभागाभावः । ततश्च, 'ऋतं पिबन्तौ सुकृतस्य' इत्यत्र चेतने भोक्तृत्वं सुकृते भोग्यत्वं यदुच्यते, तद् विप्रतिषेध इत्येवं- चेदित्थमेतेनाशङ्क्य तत्र समाधत्ते स्याल्लोकवदिति । तथा चैवमापादनेऽपि उत्पत्तिदशायां चेतनस्य भोक्तृत्वमचेतनस्य भोग्यत्वमेव । यथा लोके कटकभागस्य कुण्डलत्वेनोत्पत्तौ कुण्डलत्व- मेव, कुण्डलभागस्य कटकत्वेनोत्पत्तौ कटकत्वमेवं विपर्ययापत्तेरभावाद्, भोक्तृभोग्यविभाग- सौकर्यं तद्वदित्यर्थः । अत्र लोकवदिति दृष्टान्तेनेदं बोध्यते । तदुक्तमभ्युपगम्य तदुक्त्या समा- धीयते । अस्माकं तु, 'बहु स्यां प्रजायेय' इतीच्छया बहुभवनस्य प्रकर्षस्य च सिद्धत्वात् पूर्वमेव चेतनाचेतनविभागं कृत्वा तेन तेन रूपेण तत्र तत्र प्रवेश इति न दोषलेश इति । एवमत्र युक्त्या, 'विज्ञानं चाविज्ञानं च' इत्यादिश्रुतौ विभागाभावरूपः कार्यदोषः परिहृतः । प्रलये तु विभागाभावेप्यदोषः । व्यवहाराभावेन तल्लक्षणाभावादिति । भास्कराचार्यास्तु युक्त्या ब्रह्मवादः सांख्यैः पुनराक्षिप्यते तद्दूषणायेदं सूत्रमितीच्छन्ति । यथा फेनतरङ्गादीनां परस्परं विभागः समुद्रादनन्यत्वं चेति दृष्टान्तं चाहुः । शंकराचार्या अप्येवमेवोक्त्वा यद्यपि भोक्ता न ब्रह्मणो विकारः 'तत् सृष्ट्वा तदेवानु प्राविशत्' इति सङ्गरविकृतस्यैव कार्यानुप्रवेशे भोक्तृत्वाश्रवणात् । तथापि कार्यमनुप्रविष्टस्यो- पाधिनिमित्तो विभागः संभवति । यथा घटाद्युपाधिनिमित्त आकाशस्येत्येतदाशयेन सूत्रमित्ये- तावदधिकमाहुः । रश्मिः। एतद्दृष्टान्तेन स्फुटीकुर्वन्तो यथा लोक इति भाष्यं विवृण्वन्ति यथा लोक इति । समा- धत्त इति । भगवानाचार्यः सूत्रकृत् । इत्याहुर्भाष्ये स्याल्लोकवदित्यर्थः । कटकभागस्य । समाधीयत इति । इतीति शेषः । तृतीयाध्यायेऽरूपवत्सूत्रेऽथैकदेशिमतीयत्वेन वक्ष्यमाणत्वात्तदनुकूल- यितुमस्मिन्नपि पूर्वसिद्धं सिद्धान्तमाहुः अस्माकमिति । प्रकर्षस्येति उच्चनीचरूपेण पूर्व- पक्षापेक्षया च । न दोषेति । दोषस्त्वेकदेशिमतीयत्वम् । व्यवहारेति । प्रलये विभाग- व्यवहाराभावेन भोक्तृभोग्ययोर्भोक्तृत्वभोग्यत्वलक्षणाभावात् । बहुभवनियम इति भास्कराचार्यमतमाहुः भास्करेति । आक्षिप्यत इति ब्रह्मणोनन्यत्वाद्भोक्तृभोग्ययोर्विभागः कथम् । भोक्तुर्जीवस्य भोग्यापत्तेर्भोग्यस्य स्वशरीरेन्द्रियविषयलक्षणभोक्त्रापत्तेरपि चैकीभाव इत्याक्षिप्यते ततश्च भेदाभेद- योर्हि सर्वप्रमाणसिद्धवत्कृत्वा विभागोऽविभागो विस्मृतोऽथेदानीमनन्यत्वमसिद्धमिति साध्यते । यथा फेनेति षष्ठ्या भेदः । अनन्यत्वमित्यभेद इति भेदाभेदः । एवमेवेति भेदाभेदवादित्वेप्याक्षेपसाम्याद्ब्रह्ममात्राश्रयत्वादेवमेव । उपाधिनिमित्तेति उपाधिरविद्या । 1118