अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1225, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५१ भाष्यप्रकाशः। रामानुजाचार्यास्तु तद् दूषयन्ति । अन्तर्भावितशक्त्यविद्योपाधिकाद् ब्रह्मणः सृष्टि- मभ्युपगच्छतामेवमाक्षेपपरिहारयोरसङ्गतत्वात् । तथाहि । कारणान्तर्गतशक्त्यविद्योपहितस्य भोक्तृत्वाद्युपाधेश्च भोग्यत्वादिलक्षणयोस्तयोः परस्परभावापत्त्यदर्शनेनाक्षेपस्यानुदये परिहार- स्याप्रयोजनत्वेन सूत्रस्यैव वैयर्थ्यात् । स्वरूपपरिणामस्तु न तैरभ्युपेयते । 'न कर्माविभागा- दिति चेन्नानादित्वात्' इत्यागामिसूत्रे क्षेत्रज्ञानां तत्कर्मणां चानादित्वप्रतिपादनात् । तद- नभ्युपगमे च भोक्तृभोग्याविभागशङ्काया एवानुदयात् । स्वरूपपरिणामे च ब्रह्मणो भोक्तृ- भोग्यभावापत्त्या पुनरसामञ्जस्यादिति । स्वमतं त्वेवमाहुः । स्थूलसूक्ष्मचिदचिच्छरीरस्य ब्रह्मणः कारणरूपत्वाज्जीवब्रह्मणोः स्वभावविभागो य उक्तः सोऽनुपपन्नः । सशरीरत्वे जीववद्भोक्तृ- त्वस्यावर्जनीयत्वात् । न च, संभोगप्राप्तिसूत्रेऽस्य दोषस्य प्रागेव परिहृतत्वान्न शङ्कोदय इति वाच्यम् । तत्रोपास्यतया हृदयान्तःस्थस्य शरीरान्तर्वर्तित्वमात्रेण न भोगसंबन्ध इत्युक्तत्वात् । इह तु जीववद् ब्रह्मणोऽपि सशरीरत्वे तद्वदेव सुखदुःखभोगापत्तिरित्युच्यते । लोके तथा दर्शनात् 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः' इति श्रुतेश्च । अतः सशरीरब्रह्मकारणवादे जीवेश्वरस्वभावविभागाभावात्, केवलब्रह्मकारणवादे मृत्सुवर्णादिवज्जगद्गतापुरुषार्थादिसर्वविशेषाश्रयत्वप्रसङ्गाच्च प्रधानकारणवाद एव ज्यायानिति चेत् । स्याल्लोकवत् । स्यादेव सशरीरत्वेऽपि जीवेश्वरस्वभावविभागः । जीवेऽपि सुखदुःखभोगस्य पापपुण्यकृतत्वेन शरीरनिमित्तकत्वाभावात् । न च, 'न ह वै सशरीरस्य'इति श्रुतिविरोधः । तस्य कर्मारब्धदेहविषयत्वेन कर्मण्येव तात्पर्येवसानात् । अन्यथा, 'स एकदा भवति त्रिधा भवति, स यदि पितृलोककामो भवति स तत्र पर्येति जक्षन् क्रीडन् रममाण' इति कर्मसंबन्धनिर्मुक्तस्य सशरीरस्यैव जीवस्यापुरुषार्थगन्धाभावश्रावण- विरोधापत्तेः । अपहतपाप्मनः परमात्मनस्तु तदभावः कैमुतिकादेव सिद्ध्यति । यथा राजा- ज्ञानुवर्तिनां तदतिवर्तिनां राजानुग्रहनिग्रहकृतसुखदुःखयोगेऽपि सशरीरत्वमात्रेण तच्छासके राज्ञि न शासनानुवृत्त्यतिवृत्तितन्निमित्तकः सुखदुःखभोगस्तद्वदिति लोकेऽपि सिद्धमिति । तन्मतचौरोऽप्येवमाह । 'ज्ञाज्ञौ द्वावजावीशानीशौ' इति स्वातन्त्र्यापारतन्त्र्याभ्यां कृतं स्वभावविभागं वदतीत्येतावान् भेदः । तत्र सशरीरस्य परिणामः प्रागेव निरस्त इति न शङ्का नापि चोत्तरम् । स्वरूपपरिणामवादिनां ब्रह्मणो भोक्तृभोग्यभावस्त्विष्ट एव । प्रमाणबला- रश्मिः। अन्तर्भावितेति । अन्तर्भाविता निर्गुणत्वनिष्क्रियत्वाशब्दत्वशक्तियेन अविद्योपाधिर्यस्मै- तादृशब्रह्मण इत्यर्थः । कारणान्तरेति सगुणं ब्रह्म कारणं तदन्तर्गता शक्तिरविद्या तदुपहितस्य । तदनभ्युपगम इति परिणामानभ्युपगमे । भोक्तृभोग्ययोः परिणामजविभागापेक्षाविभागशङ्कायाः । भोक्तीति अनङ्गीकृतभोक्तृभोग्यभावापत्त्या । कर्मसंबन्धेति स एकधेति छान्दोग्ये कर्मसंबन्धरहित- स्याविर्भूतस्वरूपस्य । तन्मतेति भगवान् शैवाचार्यः । (पुरुषार्थेति 'न पश्यो मृत्युं पश्यति' इति श्रुतेः ।) प्रागेवेति । पूर्वं स्वमतपरिणामं स्मारयन्ति स्वरूपेति । प्रमाणेति । मण्डूकोपनिषदि ऋग्वेदे । 'प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर्व्याप्य लोकान् भुक्त्वा भोगान् स्थविष्ठान् पुनरपि धिषणोद्भासितान् कामजन्यान् । पीत्वा सर्वान्विशेषान्स्वपिति मधुरभुक् मायया मोहयन्नो मायासंख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोस्मि ॥ 1119