अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1228, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। सूत्रादारभ्यैतदवध्यैकाधिकरण्यमङ्गीक्रियत इत्यदोषः। तथासत्येतस्यापि तच्छेषत्वम् ॥ १३ ॥ इति सप्तमं भोक्त्रापत्तेरित्यधिकरणम् ॥ ७ ॥ रश्मिः। परितस्तत्रैव। तत्किंचिद्विषयैक्यं तावत्। तदित्थम्। असत्सूत्रे विषयवाक्यम्। अपीतिसूत्रे पूर्वपक्षः तत्रासमञ्जसं ब्रह्मकारणवचनमित्यत्र प्राथम्यादानन्दमयाधिकरणादानन्दरूपं ब्रह्म व्याख्येयम्। आनन्दमयाधिकरणभङ्गकरणेन तत्साधनेन च स्वमते तस्य संशयास्पदत्वेन युक्त्यर्हत्वात्। 'न तु' इति सूत्रे सिद्धान्तः। भवतामित्यस्यानन्दमयत्वमनङ्गीकुर्वताम्। स्वपक्षसूत्रे प्रमेयं स्पष्टम्। तर्काप्रति- ष्ठानसूत्रे ब्रह्मवादिनो ह्यानन्दमयत्ववादिनोपि। 'आनन्दाद्ध्येव' 'कस्तस्य मेद्रम्' इत्यादिष्वश्लीलमान- मब्रह्मविदामतो निर्दुष्टतर्कसद्भावः। एतेनेति सूत्रे अणुमायाकारणवादेषु नानन्दमयवादः। वेदेषु श्रीकृष्णवाक्येषु व्याससूत्रेषु समाधिभाषायां च पूर्णत्वेऽयं वादः। एतावता 'भोक्ता भोग्यं प्रेरितारं च मत्वा' इति श्रुत्युक्तः प्रेरिता विचारितः आनन्दोपि प्रेरिता ब्रह्मत्वाददर्शनाच्च। कार्ये भोग्यभोक्तृत्वविचारो भोक्त्रापत्तिसूत्रे आनन्दमयकार्येपि समान इति। अतो ब्रह्मवित्प्रपाठके 'यतो वाचो निवर्तन्ते' इत्यन्तं किंचिद्विषयैक्यम्, तदादाय विषयवाक्यं संशयपूर्वपक्षसिद्धान्ता उक्ताः। युक्त्या श्रुतिविप्रतिषेधपरिहारे शाखान्तरत्वस्य वेदान्ते पूर्वाधिकरणप्रतिपाद्यस्य सूचीकटाहन्यायेन प्रतिबन्धकत्वेन पूर्वाधिकरणे तन्निरूपणेन तन्निवृत्तौ सत्यामवश्यकवक्तव्यस्य युक्त्या श्रुतिविप्रतिषेधस्य तत्त्वमित्यवसरः सङ्गतिः। यद्यपि श्रुतिविप्रतिषेधपरिहारः पूर्वाधिकरणेऽप्यस्ति परंतु विशेषेण शाखान्तरत्वप्रतिपादनस्फूर्तिरतः सामान्यतः श्रुतिविप्रतिषेधपरिहाराद्विशेषो वेदान्तस्य शास्त्रत्वप्रतिपादनं स बलीयानित्यत्र श्रुतिविप्रतिषेधपरिहारो मुख्यतया 'अत' इत्यत्रोक्तः। अदोष इति। तदुक्ते दुर्बोधत्वं दोषः स न। अत्रेदं बोध्यम्। शांकरा असदधिकरणं नाङ्गीकुर्वन्ति। किंतु न विलक्षणत्वाधिकरणमेव तर्काप्रतिष्ठानसूत्रे परिसमापयन्ति। एकसूत्रात्मकं चाधिकरणद्वयं वर्णयन्ति। तेषां भाष्ये विषयाद्यनुपलब्धि