अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1229, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ ( २-१-८ ) श्रुतिविरोधं परिहरति । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति । तत्र विकारो वाङ्मात्रेणैवारभ्यते, न वस्तुत इत्यर्थः प्रतिभाति । तथा च सति कस्य ब्रह्म कारणं भवेत् । अतः श्रुतिवाक्यस्यार्थमाह । आरम्भणशब्दादिभ्यस्तदनन्यत्वं प्रतीयते । कार्यस्य कारणानन्यत्वं न मिथ्यात्वम् । भाष्यप्रकाशः । तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ एवं कार्यबोधकश्रुतौ युक्तिविरोधं परिहृत्य कार्यबोधकवाक्यान्तरे श्रुतिविरोधं परिहरतीत्याशयेन सूत्रमवतारयन्ति श्रुतीत्यादि । प्रतिभातीति वाचारम्भणमनूद्य तस्य विकारत्वं विधाय ततस्तस्यैव नामधेयत्वनिगमनात् प्रतिभाति । तथा च सतीति कार्यस्य खपुष्पवद् वाङ्मात्रत्वेन अवस्तुत्वे सति । ‘उत त- मादेशमप्राक्षो येनाश्रुतं श्रुतं भवति’ इत्यादि, ‘यथा सौम्यैकेन’ इत्यादिप्रतिज्ञादृष्टान्तश्रुतिबलेन प्रपञ्चसमवायित्वं ब्रह्मणः प्रतिपादितं दृष्टान्तवाक्यशेषे च वाचारम्भणमित्यादि श्रूयते तस्य चैवमर्थः प्रतिभातीति । येनैव कारणत्वं प्रतिपाद्यते तच्छेषेणैव तद् विघटितं भवतीति विप्रति- षेधाद् ब्रह्मवादे पुनरसामञ्जस्यमिति शङ्कायां तस्यार्थमाहेत्यर्थः । तेन विप्रतिषेधो विषयः । अस्ति वा न वेति संशयः । पूर्वपक्षसिद्धान्तौ तु स्फुटावेवेतीदमधिकरणम् । तच्च ससङ्गतम् । यदि च विषयस्य पूर्वे विचारितत्वात् संशयानुदयेऽपि प्रतिवादिना स्वाग्रहमात्रेण इदमाक्षिप्यत इत्यङ्गी- क्रियते, तदा तु सूत्रमात्रत्वमेव । एवमेव पूर्वत्रापि बोध्यम् । अर्थमाहुः आरम्भणेत्यादि । रश्मिः । तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ कार्यबोधकेति ‘सऽआत्मानꣳस्व- यमकुरुत’ इति कार्यबोधकवाक्यान्तरे । प्रतिभातिपदपूर्वपक्षगतत्वेन स्वारस्याय भाष्यविरुद्धमुद्देश्य- विधेयभावेनाहुः वाचारम्भणमनूद्येति । भाष्ये तु विकारो वाचारम्भणमित्युद्देश्यविधेयभावः शङ्कान्यत्वात् । श्रुतौ वाचारम्भणमुद्देश्यं तद्भाष्यापेक्षयोत्तमम् । वाचारम्भणं वैदिकी सृष्टिः सापि विकारोऽविकृतत्वे प्राप्ते दर्शनादिना च विकारः । तस्मान्नामैव नामधेयमिति निगमनम् । इति न्यायशास्त्रीयम् । दृष्टान्तग्रन्थत्वान्मृत्तिका । श्रुतिविप्रतिषेधपरिहाराय श्रुतिविप्रतिषेधार्थम् । प्रति- भातीति भाष्यमित्याहुः उत तमेति । अत इत्यादिभाष्यं विवृण्वन्ति येनैवेति । विप्रतिषे- धादित्यतः फलितोतःशब्दार्थः । ब्रह्मकारणत्ववादेऽसामञ्जसं ब्रह्म दार्ष्टान्तिकं कस्य कारणं भवेदिति प्रश्नरूप इति प्रकारे प्रश्नगर्भायां शङ्कायां तर्के । तेनात इति भाष्ये सार्वविभक्तिकस्तसिः । प्रश्नगर्भे तर्के इत्यतःशब्दवाच्यार्थः । तेनेति श्रुतिवाक्यस्य प्रतिभातार्थकत्वेन नतु सैद्धान्तिकार्थकत्वेन श्रुतिवाक्ये विप्रतिषेधो विषय इत्यर्थः । स्फुटाविति । पूर्वपक्षो गतो ग्रन्थः सिद्धान्तो वक्ष्यमाणो अन्यः । ससेति । तेनाधिकरणमालायां त्रिसूत्रमिदमधिकरणं चतुःसूत्रमपरमिति चिन्त्यम् । ननु ‘असद्वा इदमग्र आसीत्’ इत्यपि विप्रतिषेधः ‘सदेव सौम्येदमग्र आसीत्’ इत्युपक्रमात् । स गतास- दधिकरणे विषय इति तेन न्यायेनायमपि विप्रतिषेधो विचारितप्राय इत्याशङ्क्याहुः यदि चेति । यथा- श्रुतभाष्यस्वारस्यायातिदिशन्ति स्म एवमेवेति । तेनोक्तसूत्रद्वयस्यैकस्य वा गताधिकरणेऽप्रवेशो- 1123