भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1230, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1230

५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ८ सू० १४. भाष्यप्रकाशः । अत्रादिपदेन, इतिशब्दो, नामधेयपदं, सदेव सौम्येत्यादीनि वाक्यानि च संगृह्यन्ते । तथा च यदि विकारे वाङ्मात्रतामभिप्रेयाद् वाचारम्भणं विकारो मृत्तिकैव सत्यमित्येव वदेत् । तावतैव कार्यस्य मिथ्यात्वसिद्धेः । वदति त्वेवम् । तथा च यो विकारस्तद् वाचारम्भणम् । यद् आरभ्यते तद् आरम्भणम् । ‘कृत्यल्युटो बहुलम्’ इति कर्मणि ल्युट् । वागारब्धं कारणस्यैव नामधेयम् । कारण- मेवहि तत्तदर्थक्रियासिद्ध्यर्थं तेन तेन नाम्ना व्यवह्रियत इति कारणादभिन्नमेव कार्यं न तु स्वेन रूपेण कारणाद् भिन्नम् । तदाह मृत्तिकेत्येव सत्यमिति । कारणरूपेणैव सत्यम् । अतः कारण- रश्मिः । प्यसूचि । सदेवेति । आदिपदेन 'आनन्दाद्धयेव खल्

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1230, कुल 2600 में से · BharatKosha