भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ८ सू० १४. भाष्यप्रकाशः । अत्रादिपदेन, इतिशब्दो, नामधेयपदं, सदेव सौम्येत्यादीनि वाक्यानि च संगृह्यन्ते । तथा च यदि विकारे वाङ्मात्रतामभिप्रेयाद् वाचारम्भणं विकारो मृत्तिकैव सत्यमित्येव वदेत् । तावतैव कार्यस्य मिथ्यात्वसिद्धेः । वदति त्वेवम् । तथा च यो विकारस्तद् वाचारम्भणम् । यद् आरभ्यते तद् आरम्भणम् । ‘कृत्यल्युटो बहुलम्’ इति कर्मणि ल्युट् । वागारब्धं कारणस्यैव नामधेयम् । कारण- मेवहि तत्तदर्थक्रियासिद्ध्यर्थं तेन तेन नाम्ना व्यवह्रियत इति कारणादभिन्नमेव कार्यं न तु स्वेन रूपेण कारणाद् भिन्नम् । तदाह मृत्तिकेत्येव सत्यमिति । कारणरूपेणैव सत्यम् । अतः कारण- रश्मिः । प्यसूचि । सदेवेति । आदिपदेन 'आनन्दाद्धयेव खल्

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५७

भाष्यप्रकाशः ।

रूपेणैव सत्यं न तु मिथ्या । तथा सति कार्याभावेन ब्रह्म कस्य कारणं भवेत् । तदभावे सति पूर्वोपन्यस्ता 'यतो वा इमानि' इत्यादयः सर्वा एव श्रुतयः कुप्येयुः । न च शुक्त्यादीनां रजतादीन् प्रतीव ब्रह्मणोऽपि जगत् प्रति कारणत्वस्य शक्यवचनत्वान्न तत्कोप इति वाच्यम् । पुरुषबुद्धि- दोषवशेन शुक्त्यादिषु रजतादिबुद्धिमात्रजनकत्वया रजतादिकारणत्वस्वाभिमानमात्रत्वेनापौरुषेया-^१ र्यामीश्वरनिःश्वासरूपायां श्रुतौ तादृशाभिमानिवाक्यत्वस्याशक्यवचनतया त्वदभिमतकारणताया

रश्मिः ।

जातिसमवाययोः स्थितिकल्पनास्यात्यन्ताप्रामाणिकत्वात् । नित्यद्रव्येषु तत्स्थितेरप्यभ्युपगमैक- शरणत्वात् । 'जातिव्यक्तिविभागोयं यया वस्तुनि कल्पितः' इति षष्ठस्कन्धवाक्याज्जातेरपि 'कल्पनैक- शरण

९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ८ सू० १४. भाष्यप्रकाशः । वक्तुमशक्यत्वात् । शक्यत्वाभ्युपगमे तर्कवदप्रतिष्ठया सर्वसन्मार्गविप्लवप्रसङ्गात् । किंञ्चात्रेदं वाक्यमुपक्रम्य उक्त्वाग्रे 'कथमसतः सजायेतेति सत्वेव सोम्येदमग्र आसीत्' इति सत्पदेन इदमा च सतः कार्यत्वं श्राव्यते । यदि शुक्तिरजतवत् कार्य स्यात्, सजायेतेति सत्पदमिदंकारश्च कुप्ये- ताम् । किंचाग्रे, 'तदैक्षत, बहु स्यां प्रजायेय' इतीक्षणपूर्विका स्वस्यैव बहुभवनरूपा नानाविधजनन- हेतुका च सृष्टिः श्राव्यते । यदि चोक्तविधं कार्य स्यात् तदा तस्य मिथ्यात्वेन स्वप्रतियोगित्व- बोधकउत्तमपुरुषप्रयोगश्च कुप्येत । किंचाग्रे, रश्मिः । शक्यत्वेति । सर्वेति सर्वमार्गतर्कप्रतिष्ठया सर्वोत्त्यादिः । एवं श्रुतिविरोधं परिहृत्य श्रौतपदविरोधं परिहरन्ति स्म किंचात्रेत्यादि । इदं वाक्यं वाचारम्भणवाक्यम् । स्वप्रति- योगीति स्वमात्मा तत्सादात्म्यसंबन्धबोधकः । उत्तमेति स्वनिष्ठसत्तानुकूलव्यापारवानहं बहुसत्ताघटितः स्यामित्युत्तमपुरुषः । किंचाग्र इति । 'तदैक्षत बहु स्यां प्रजायेय' इति । तत्तेजोऽसृजत तत्तैज ऐक्षत बहुस्यां प्रजायेय' इति । अत्र सम्बद्धार्थः यथाकथंचिज्ज्ञापयितुम् 'आकाशस्तल्लिङ्गात्' इत्यधिकरणन्यायेन ईक्षितलिङ्गेन तेजःपदवाच्यं ब्रह्म तेन सत्यदायौ वैश्वानराधिकरणोक्तोपिः । 'समानाः प्रजाः प्रजायन्ते' इति । तया च सुबोधिनी । अत्र तर्हि अग्निरिति । अग्रे 'ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहि' इति । तासामीक्षितिसंबन्धः स्पष्टः । आरुणेरुत उक्तेः । अग्रेक्षत्यनुवृत्तिर्बृहदारण्यके 'अन्नं बह्म इत्येके' इत्यत्रैकपदमन्वयार्थकमिति । अग्रे 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमु- द्भिज्जम्' इति । अत्र व्याख्याकृद्वयेत्याह स्म पूर्वाध्यायोक्तमृतान्याह । सुगमं तत् । अथेत्थमनध्याहारे तु तृतीयस्कन्धषष्ठपञ्चमाध्यायमनुसंधेयम् । तदा तत्रिवृत्कृतदेवतारूपास्तेजआदयः । एषां भूतानां तेज- आदीनां निमित्तकारणकासमवाय्यपेक्ष्यमाणानाम् । सतो महतः सृष्टुः । तेज ईक्षितृत्वगुणविशिष्टं जातं तदण्डस्थितं 'द्वितीयं खण्डसंस्थितम्' इति वाक्यात् । न चैकस्य जन्यजनकभावो विरुद्ध इति वाच्यम् । अण्डजं सत्त्वरजआदिरूपेऽण्डे महत्तत्त्वरानन्दमयात्मकरूपानिमित्तमात्राज्जाते यत् 'वीर्यमाधत्त वीर्यवान्' इतिवाक्योक्तं वीर्यं तदण्डजं समवायिकारणं जनकम्, जन्यं तु तेजोम्ब्यादि । अष्टमासनिपीत- तोयस्य वर्षाकाले मोकस्मरणात् । 'सूर्योर्मिभिः सूर्यः' इति ब्राह्मणादुभयोरेकस्योक्तिर्न विरुद्धा । संहिता- तृतीयाह्वकोषा वयःसृष्टिरुक्ता । सर्पसृष्टिस्तु 'शब्द इति चेत्' इति सूत्रे । दीक्षितादसृष्टिः । ( सूर्यस्य प्रकाश इति प्रयोगात्तेजः कार्यरूपमपीति वक्तव्यम् । नन्वेवं तेजः प्रकाश इत्येवमानमपीति चेन्न । ईक्षितृत्ववैशिष्ट्येनालौकिकत्वात् ।) 'एतन्नानावताराणां निधानं बीजमव्ययम्' इति वाक्या- द्वीजपदम् । अस्य पुंसो वीर्यं जलम् । नारिकेलफलवदण्डमिति । आप ईक्षितृत्वगुणविशिष्टा जाताः । ताः सर्वप्राणरूपा जीवाः । 'आपोमयः प्राणः' इति वक्ष्यमाणत्वात् । 'तृतीयं सर्वभूतस्थम्' इति वाक्यात् । वक्ष्यति च 'अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्त्रवेद्यो मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रे- भ्याहन्याज्जीवन् स्त्रवेत्स एव जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठत्यस्य यदेका शाखां जीवो जहात्यथ सा शुष्यति' इत्यन्वयव्यतिरेकादुक्तौ । इदं जीवजम् । 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम्' इति श्रुतेर्बीजमन्याप्तामपां तेजोनिमित्तम् । अन्नं नेक्षितृत्वविशिष्टम् । विष्णुरूपत्रया- मन्तरम् । 'पृथिवी वा अन्नम्' इति श्रुतिः । 'पृथिव्या ओषधयः ओषधिभ्योऽन्नम्' इति श्रुतेस्त्रैकार्येषूद्भिज्जम् १. सत्वेवेति क्वचित् पाठः । 1126

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५१ भाष्यप्रकाशः। 'सेय देवतैक्षत'इत्यादिनोक्ते त्रिवृत्करणेक्षणे, 'इमास्तिस्रो देवता' इति बोधिता देवतानां या ब्रह्मप्रत्यक्षगोचरता सापि ब्रह्मणो ऽमराहित्वात् युज्येत । न च 'अपागादग्नेरग्नित्वम्'इति निगमनवाक्यविरोधः । शिष्यस्यार्वाचीनतया अग्नित्वादीन् स्वाभाविकत्वेनावधारयतस्तत्त्वावधा- रणनिवृत्त्यर्थं तस्य वाक्यस्य तत्राभिमन्यमानस्वाभाविकताऽपगतिबोधकतया विरोधाभावात् । अत एतैः शब्दैः 'इदं सर्वं यदयमात्मा', 'सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद'इत्यादिभिश्च कार्यस्य कारणाभिन्नत्वमेव वाक्यार्थो, न मिथ्यात्वमित्यर्थः । रश्मिः। 'सर्वमतुमम्रियत' इति बृहदारण्यकाद्भोगार्थम् । अत्र निमित्तकारणन्यायः । समवाय्यौषधिजं बीजं व्रीह्या

६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ८ सू० १४.

ये पुनर्मिथ्यात्वं तामसबुद्धयः प्रतिपादयन्ति तैर्ब्रह्मवादः सूत्रश्रुति-

भाष्यप्रकाशः। अत्र शंकराचार्या मायावादमवतारयन्ति । मृत्तिकेत्येव सत्यमित्यवधारणात् कारणमेव सत्यं कार्यं त्वनृतं नामधेयमात्रत्वात् । दार्ष्टान्तिकवाक्येपि ‘अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’इति ब्रह्मव्यतिरेकेणाभावकथनाच्च। न च सूत्रेऽनन्य- त्वपदान्नानात्वमर्थः। किंतु यथैको वृक्षो नानाशाख एवं ब्रह्मापि स्वात्मनैकं कार्यात्मना नानेति मृदादिदृष्टान्तमालोच्यार्थो वाच्य इति वाच्यम्। पूर्वोक्तावधारणादिविरोधेन दार्ष्टान्तिक- वाक्येऽपि ‘ऐतदात्म्यमिदं सर्वं तत् सत्यम्’ इति परमकारणस्यैकस्य सत्यत्वावधारणेन च तथा वक्तुमशक्यत्वात्। किंच समाप्तौ पुरुषं सौम्योत हस्तगृहीतमिति नवमे पर्याये तस्करदृष्टान्ते- नानृताभिसंधस्य बन्धनं सत्याभिसंधस्य मोक्षं च दर्शयता एकत्वस्यैव पारमार्थिकत्वं नानात्वस्य च मिथ्यात्वमेव स्फुटीक्रियते। यदि ह्येकत्वनानात्वयोरुभयोरपि सत्यत्वं स्यात् तदा व्यवहारगोचरत्वसामान्येऽप्येकस्यैवानृताभिसन्धत्वं नोच्येत। किंच। ‘मृत्योः स मृत्यु- मामोति य इह नानेव पश्यति’ इति भेददृष्ट्यपवादेनैतदेव प्रदर्श्यते । यद्युभयसत्यता स्यान्ना- नात्वं नापोद्येत। अतोऽनादिकालप्रवृत्ताऽविद्यावशादयं भेदः प्रतिभासते, न तु परमार्थतोऽस्ति । न चैवं सति प्रत्यक्षादिप्रमाणानर्थक्यं विधिनिषेधशास्त्राणां चानर्थक्यम्, मोक्षशास्त्रेणानृतेन ब्रह्मज्ञानानुत्पत्तिप्रसङ्गो वा शङ्कनीयः । मिथ्याभूतस्याप्यस्य व्यवहारस्य बाधकप्रत्ययाभावेन प्रवृत्तेः संभवात् । प्रत्यक्षादीनां प्रमाणानां विधिनिषेधशास्त्राणां चाप्यविद्यावद्विषयत्वेन बाधकप्रत्ययाभावादेव प्रवृत्तिसंभवेनानर्थक्याभावात् । मोक्षशास्त्रस्यापि ब्रह्मज्ञानात् प्राग्- सत्त्वाप्रतिपत्त्या तस्याप्यप्रतिघातात् । अनृतादपि तस्मात् सत्यब्रह्मज्ञानाप्राप्तिस्तु यथा स्वप्नात् शुभाशुभसूचनं, लिप्यक्षरेभ्यश्च पारमार्थिकवर्णप्रतिपत्तिस्तथा भविष्यतीति माया- मात्रमेवेदं सर्वमिति तन्मतं संग्रहेणानूद्य दूषयन्ति ये पुनरित्यादि । तामसबुद्धय इति ।

रश्मिः। विकृतन्यायात् । रभि शब्दे, रभ राभस्ये वा । दिधीति विकारे रमसाद्वा नामधेयं प्रयोगः क्रियते इत्यारभ्यत इत्यस्यार्थः । दृष्टान्तत्वान्मृत्तिकेत्येव सत्यमित्युक्तम् । ये पुनरिति भाष्यमवतारयन्ति अत्र शंकराचार्या इति । ब्रह्मव्यतिरेकेणेति रूपत्रयसोपाधिकरूपस्य 'अजामेकाम्' इति श्रुत्युक्तस्य सत्वत्वविधानात्सगुणब्रह्मव्यतिरेकेणेत्यर्थः । पूर्वोक्तेति । आदिपदेन वागारम्भणोक्तिः संगृह्यते । दार्ष्टान्तिक इति 'एषऽसौम्य स आदेशो भवति' इति श्रुतेर्दार्ष्टान्तिके । वाक्यं नवकृत्वउपदेशवाक्यम् । तथेति कार्यात्मना नानेति वक्तुम् । समाप्ताविति छान्दोग्ये प्रपाठकसमाप्तौ । एकत्वस्येति कश्चित्कंचित्तस्करबुद्ध्या गृह्णाति स यद्यनृतवादी तप्तं परशुं गृह्णाति तर्हि दह्यन्तं तं बध्नाति । तथा नानात्ववादी बध्यते । सत्यवादी यदि तर्हि न दहति मुच्यते च । तथा 'ऐतदात्म्यमिदं सर्वम्' इत्येकत्वदृशायां मुच्यते इत्ये- कत्वस्यैवेत्यादिः । व्यवहारेति एकत्वनानात्वव्यवहारविषयत्वसामान्ये । प्रत्यक्षादीति । निर्विषयत्वां- दिति भावः । आनर्थक्यमिति भेदापेक्षत्वात्तयेत्यर्थः । बाधकेति नेदं रजतमितिबद्बाधकप्रत्यया- भावेन । संभवादिति । तथा च प्राग्बोधात्सर्वव्यवहारस्य सत्यत्वोपपत्तिरिव नानात्वस्य सत्यत्वो- पपत्तिरिति भावः । स्वप्नादिति 'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्त-

1128

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६१

भाष्यप्रकाशः। 'माया च तमोरूपा' इति श्रुतेर्मायाकृतबुद्धयः । अयमर्थः । कारणत्वबोधकश्रुतीनां सर्वस्यात्मत्व- ब्रह्मत्वबोधकश्रुतीनां चानुरोधेन कार्यस्य कारणाऽनन्यत्वे सिद्धेऽग्नित्वाद्यपगमबोधकवाक्यस्य व्याख्यातरीत्यार्थे बुद्धे, 'ऐतदात्म्यमिदं सर्वं तत् सत्यम्' इत्यत्राप्यणिमपरिचायनार्थस्य सर्व- स्यैव सन्निहिततया 'तत्' पदेन परामर्शात् तस्यैव सत्यत्वं विधीयते, सर्वगतमेव चैकत्वमनूद्यत

रश्मिः । स्मिन्स्वप्ननिदर्शने' इति श्रुतेः समाख्यायाश्च । मायाकृतेति विवर्तविषयिणी यतः । कारणत्वेति 'यतो वा इमानि' इत्यादीनाम् । सर्वस्येति 'इदं सर्वम्' इत्याद्युक्तानां 'सर्वं खल्विदं ब्रह्म' इत्या- दीनां च । अनुरोधेनेति कारणत्वस्वाभिन्ननिमित्तोपादानत्वस्य कार्यमात्र उभयविधकारणदर्शना- च्छु

६२ श्रीमद्ब्रह्मसूत्रानुभाष्यम् । [अ० २ पा० १ अ० ८ सू० १४. भाष्यप्रकाशः। इति मन्तव्यम् । अन्यथा, स आत्मा स सत्यमित्येवं पठेत् । न च तस्करदृष्टान्तस्यानृताभि- संधस्योक्त्या नानात्वस्य मिथ्यात्वसिद्धिः । अत्र तत्तत्कार्यार्थं विलक्षणतत्तत्सृष्टिकथनात् । 'बहु स्याम्' इतीच्छयैकत्वविरुद्धनानात्ववत्, 'प्रजायेय' इतीच्छया सूनृतवाणीरूपर्तविरुद्धातथ्य- वाणीरूपानृतात्मकत्वेनाप्यधर्मार्थं भवनाद् व्यवहारगोचरतायां विशेषेणानृताभिसंधबन्धनस्याप्य- धर्ममूलकतया नानात्वमिथ्याभावासाधकत्वात् । अन्यथानृतस्य मिथ्यात्वे तेनात्मानन्तर्धानं नोच्येत तस्य वस्तुकार्यत्वात् । न च तस्य मिथ्यात्वेनानन्तर्धानादेव दाह इति वाच्यम् । श्रुतावनृतकृतान्तर्धानस्यैव दाहहेतुत्वकथनेन तद्विरोधापत्तेः । न च नानात्वदर्शननिन्दया तस्य मिथ्यात्वसिद्धिः । तस्याश्चक्षुषश्चक्षुरित्यादिना ब्रह्मस्वरूपमुपक्रम्य पठितत्वेन ब्रह्मस्वरूप इन्द्रियादिमत्तया जीवदेहवन्नानात्वस्यैव मिथ्यात्वं सिद्ध्यति, न कार्यनानात्वस्येति तस्यात्र वाक्याभासत्वात् न चानादिकालप्रवृत्ताविद्यावशाद् भेदप्रतिभास इत्यपि युक्तम् । अस्य भेदस्य रश्मिः । पुरुषं प्राप्य त्रिवृत्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवति अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् । स य एषोणिमैतदात्म्यमिदꣳसर्वं तत्सत्यꣳस आत्मा तत्त्वमसि श्वेतकेतो' इति श्रुतेः । श्रुतौ पुरुषं करपादादिलक्षणम् । अन्यथेति संनिहित- सर्वपरामर्शकलाभावेन परदेवतामात्रपरत्वे । स आत्मेति परदेवता आत्मा । ननु स इति पुंल्लिङ्ग- निर्देश इति चेन्न । विधेयलिङ्गत्वात् । स सत्यमित्यत्र स इत्यात्मा उद्देश्यलिङ्गमत्रोक्तम् । तस्करेति नवमपर्याये 'पुरुषंꣳसोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसंध्यनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते' इति तस्करदृष्टान्तस्यानृताभिसंधत्वोक्तिः । अत्रेति विलक्षण- क्रीडायाम् । तत्तत्कार्यार्थं स्तेयानयनादिकार्यार्थम् । विलक्षणा तस्करस्वराजकीयत्वादितिः पुरुषा- दिसृष्टिः तस्याः कथनात् । अत्र प्रमाणमाहुः बहु स्यामिति । नानात्वेति नानात्वस्य मिथ्याभावो मिथ्यात्वं तस्यासाधकत्वात् । किं स्वधर्मरूपादृष्टसाधकत्वम् । अष्टादशे गीतायां 'पञ्चैतानि महा- बाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् । अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् । शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः' इति । त एते सांख्ये प्रोक्ता अत्रापि व्यवहारगोचरतायां विरुद्धसर्वधर्माधारत्वे युज्यन्ते । अन्यथेति एवमनङ्गीकारे । नोच्येतेति 'अनृतेनात्मानमन्तर्धाय' इति श्रुत्या नोच्येत । तस्येति अन्तर्धानस्य । तस्येति अनृतस्य । आत्मानन्तर्धानादेव । श्रुताविति । 'अनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यते' इत्युक्तश्रुतौ । दृष्टान्तद्वारानृतस्य मिथ्यात्वं साधयित्वा निषेधन्ति न चेति । तस्यानृतस्य मिथ्यात्वे दृष्टान्तो 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यत्र श्रुत्यन्तरे नानात्वं तस्य निन्दया दार्ष्टान्तिकेऽपि तद्वदनृतस्य निन्दास्थानीयं मिथ्यात्वं तस्य सिद्धिः । तस्येति वाक्यस्य । अधुना कर्तृभेदाद्दृष्टान्ते तेनानृतस्य मिथ्यात्वसिद्धिमाशङ्क्य निषेधन्ति न चेत्यादीति । भेदो नानात्वम् । तद्वदनृतस्य सूनृतवाणीरूपर्तविरुद्धातथ्यवाणीरूपस्य नह्यर्थविरोधसूच्यार्थभेदस्य मायामात्रस्य प्रकृते प्रतिभास इत्यनृतमात्रस्य मिथ्यात्वमित्यर्थः । अस्तु भेदस्य मायामात्रत्वम् । भिदां 'मायामात्रमनूद्यान्ते' इति वाक्यात् । बहुभवनेच्छाविषयस्य बहुत्वसंख्या- रूपस्यैवञ्चार्थस्य भेदस्य विभागसंकाशस्य विरुद्धधर्मार्थमाविर्भावितस्य नाविद्यावशात्प्रतिभासः 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतावाक्यादित्याहुः अस्य भेदस्येति । 1130

यहाँ दी गई पृष्ठ-छवि का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । [१३] नाशनेन तिलापःकृता वेदितव्याः । अन्तःप्रविष्टचोरवद्धार्यमेवैष आरम्भः । अ- लौकिकप्रमेये सूत्रानुसारेणैव निर्णय उचितः । न स्वतन्त्रतया किञ्चित् परिकल्पनम् । भाष्यप्रकाशः । ब्रह्मेच्छयोक्तत्वात् तस्य च ब्रह्मणः प्रतिभास इति त्रिवृत्करणेष्वेव एव प्रसाधितत्वेनासा- विद्याकृतत्वाभावात् । तत्कृतत्वे ब्रह्मणोऽपि जीवतौल्यापत्तेः । अत एवं प्रतिपादनं सूत्रश्रुत्योर्ना- शनायैवेति खस्वाहाङ्किकतुल्यतया ब्रह्मवादा अप्येवं सार्थत्वेन तिलापःकृता ज्ञेया इति । रश्मिः । ब्रह्मेति 'एकोऽहं बहु स्याम्' इति श्रुतेः । न चात्रापि पूर्वोक्तप्रकार इति शङ्क्यम् । श्रुतावेकत्वबहुत्वरूप- विरुद्धधर्मदर्शनेन कर्तृभेदे विरोधाभावप्रसङ्गात् । त्रिवृदिति 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताः' इति विषये भेदस्य निर्विष्टत्वादविद्याकृतत्वे ब्रह्मणो भ्रमवत्ताप्रसङ्गात्प्रसाधितत्वेन । अस्येति संख्यारूपभेदस्य संख्याप्रयोजकेक्षणसंदर्भस्य भेदस्येति सारम् । जीवतौल्येति भ्रमवत्तापत्त्या तथेत्यर्थः । अविद्यासंबन्धाद्वा । सूत्रेति यदि सूत्राणि न स्युः श्रुतयः पुष्टार्था न स्युः । श्रुतयः पुष्टार्था न स्युरिति युक्तिनिरूपणे सूत्राणामभ्यर्हितत्वात्पूर्वनिपातः । धर्मादित्वाद्वा । भाष्ये नाशनेन सतः प्रत्यदर्शनप्रापणेन । नहि सन्त इममर्थमुत्तरकालबाधितमुत्तरकालीनाबाध्यत्वेन पश्यन्ति, अतः सूत्रश्रुतयो नष्टाः । 'योऽन्यथासन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्माप- हारिणा' इति । सूत्रश्रुतिरूपवेदरूपशरीरेभ्य आत्मापहरणात् । 'सर्ववादानवसरं नानावादानुरोधि तत्' इतीच्छया वेदान्तेभ्यो ब्रह्मणे च ब्रह्मवादा दत्ताः तिलापःकृताः इत्यर्थकप्रतिपादनं श्रुत्युक्तार्थान्यो- पपादनं सूत्रश्रुत्योर्नाशनाय वेदशरीरयोरस्पृश्यत्वाय । यथार्थस्य जीवस्थानीयस्य त्याजनात् । नन्वाचार्यादृता ब्रह्मवादा नास्पृश्या इत्याशङ्क्याहुः स्वस्याहङ्किकेति । स्वेन त्यक्तयथार्थब्रह्मणा स्वी- कृतान्यथाप्रतिपादनेन खस्वाहाङ्किकतुल्यता कृता । अहनि लीयत इति व्युत्पत्त्या मिथ्याशरीरतुल्यतया । अयं शब्दः शाकल्यब्राह्मणे 'कस्मिन्नु हृदयं प्रतिष्ठितं भवति' इति शाकल्यप्रश्ने याज्ञवल्क्योऽहलि- केति होवाचेति तत्रास्ति । एवं खार्थेति खमहङ्किकतुल्यस्तदीयार्थोऽन्यथाऽऽत्मविशिष्टवेदरूपशरीर- रूपः निर्गतात्मा तत्त्वेन । यद्यप्यन्तःप्रविष्टेत्यादिभाष्यं पूर्वभाष्येनेति । यत्स्वतिलापःकृता वेदित- व्या अतोन्तःप्रविष्टेत्यादिः । अर्थस्तु । पद्मपुराणोत्तरखण्डे उमामहेश्वरसंवादे पाखण्डोत्पत्ति- कथनैकचत्वारिंशाध्याये पाखण्डमोहनासुरलीलामङ्गलं मन्यमानाय तारकषडक्षरमन्त्रोपदेशः कृतः । 'श्रीरामाय नमः' इति मन्त्रः । तद्वत् प्रकृतेपि पाशुपतशास्त्रवन्मीमांसायां कृतायां 'राम'मन्त्रोपदेशवत् किंचिदभीप्सितं तत्स्थानीयं सूत्रमिति तदभिमतमर्थं तदप्रकाशितमनाङ्गसत्वात् । स्वयं तु भक्ति- मार्गप्रचारार्थमाविर्भूताः प्रकाशयांचक्रुः अन्तःप्रविष्टेत्यादि । न चाश्लीलभाषणमिति वाच्यम् । ब्रह्मविदां न कुत्रापि कुत्सितत्वभानमिति । 'सोन्तरादन्तरं प्राविशत्' इति श्रुतेरन्तःप्रवेशस्वभावः शिवस्य । चोर आत्मापहारी । 'त्वं च रुद्र महाबाहो मोहनायँ सुरद्विषाम् । पाखण्डाचरणं धर्मं कुरुष्व सुरसत्तम' इत्याज्ञावत्त्वात् । तद्बुधः शब्दसङ्गितशब्दालङ्कारद्वन्द्ववादेन । 'तच्छ्रुत्वाहं ययोक्तं तु वासुदेवेन भामिनि । समुद्विग्नमना दीनो भूत्वा' इति वाक्यात्तदुद्वेगादप्राप्तं तन्निर्तकेन तद्गतप्रथ- निराकरणाहुः । बध संयमने । चु. प. स. । 'भक्त्या त्वाधो द्वितीयस्तु तदभावाद्धरौ सदा' इति वाक्यात् । बाध आविर्भावः । द्वितीयस्तिरोभावः । न च तस्यान्तःप्रविष्टस्य भक्त्याच आविर्भाव इति वाच्यम् । प्रपञ्चस्थितभगवदाकारत्वेनादिना तदभावात् । न चाभिमानिकजीवदर्शनमिति वाच्यम् । संयमनार्थकण्वचेः प्रयोगात् । आरम्भः सूत्रारम्भः । एतदादि परिकल्पनान्द्वै 1131

६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ८ सू० १४. भाष्यप्रकाशः। रामानुजाचार्या भास्कराचार्याश्चेदं सूत्रं भेदवादनिराकरणाय, मायावादनिराकरणं तु प्रासङ्गिकमिति तं स्वयं दूषयन्ति तत्राहुः अन्तरित्यादि । तत्र प्रकारमाहुः अलौकिकेत्यादि । तथा च मायावादिभिः स्वस्य वेदान्तित्वाभिमानाद् वाक्याभासान्युपन्यस्य श्रुतिसूत्रन्यकारेण या कल्पनैतैः शब्दैः क्रियते सैवात्रानन्यत्वसूत्रेण मुख्यतया निवार्यते । अतो भेदवादनिरा- कृतिरेव प्रासङ्गिकीत्यर्थः । नन्वत्र किं मानमत आहुः तर्केत्यादि । काणादैर्हि भेदवादो- जीवनं विलक्षणबुद्धिबोध्यत्वशब्दभेदकार्यभेदकालभेद कारभेदोत्पत्तिनाशप्रतीतिसंख्याभेदैः रश्मिः। च भाष्यं स्पष्टम् । तथापि युक्त्या श्रुतिविप्रतिषेधपरिहारे नैयायिकभेदवादनिराकरणमन्तरा तदनन्यत्वरूपसूत्रार्थास्थैर्यात् प्रासङ्गिकमायावादनिराकरणं न युक्तं किंतु भेदवादनिराकरणं प्रासङ्ग । निराकर्तव्यमिति भाष्यं भूतपूर्वं न संगतं भेदनिराकरणात् । तथा चायं सूत्रार्थः । तस्मा- त्कारणादन्यत् भेदवत् कार्यम् । कार्यं जगत् कारणात् भिद्यते । प्रागभावप्रतियोगित्वात् । प्रागभावखण्डने तु तन्मते नास्ति । तदनन्यत्वं तु तदधीनत्वनिबन्धनलक्षण्या । अभावस्य प्रति- योगिनिरूपणाधीननिरूप

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५ भाष्यप्रकाशः। कारकव्यापारवैयर्थ्यापादनेन च केवलैस्तर्कैः क्रियते तच्च विलक्षणबुद्धिबोध्यत्वादीनां पञ्चा- नामेकस्मिन्नपि पुरुषे बालयुवस्थविरादिदशादर्शनेनाभेदसाधकतया साधारणीकरणादुत्पत्तिवि- नाशयोश्च वृद्ध्यादिवद्भावावस्थान्तरत्वाभ्युपगमेन बहवस्तन्तव एकः पट इति संख्याभेदस्यापि समुदायस्य कारणत्वाङ्गीकारात् तदभावेन तदनङ्गीकारे च कारणगुणानां कार्यगुणारम्भकत्वात् कार्ये बहुत्वोपपत्त्या द्रव्यगतावस्थानां कारकव्यापारजन्यतया कारकव्यापारवैयर्थ्यनिरासेन च तर्कैरेव रश्मिः। पृथुबुध्नोदराकारमित्याकारभेदः । मृदा घट उत्पन्नस्तथा सत्यामेव मृदि घटो नष्ट इति व्यवह्रियते । इत्युत्पत्तिनाशप्रतीतिः । बहवस्तन्तव एकः पट इति संख्याभेदस्तैः । कारकेति । कारणमेव चेत्कार्यं किं कारकव्यापारसाध्यं स्यादिति । विशेषस्तु रामानुजाचार्यभाष्ये द्रष्टव्यः । नन्विमे केवलस्तर्काः किं कारणताग्राहका उत व्याप्तिशोधकाः । पूर्वाभावाद्व्याप्तिशोधका इत्याशयेनाहुः तच्च वि- लक्षणेति । अभेदसाधकेति । तदित्थम् । घटादिः कारणाद्भिन्नः विलक्षणबुद्धिबोध्यत्वात् । शब्दभेदात्-कार्यभेदात्-कालभेदात्-आकारभेदात् । पटादिवत् । इत्यनुमानानि । भवन्ति च पटादिषु विलक्षणा बुद्धिबोध्यत्वादयस्तन्तुभ्योन्तःकारणेभ्यस्तन्त्वादिभ्यो भिन्नत्वमेवं घटादिषु कारणाद् भेदः । तत्र तर्काः यदि कारणभिन्नो न स्याद्विलक्षणबुद्धिबोध्यो न स्यादित्यादयः । एतेषामभेदसाधकत्वं । घटादिः कारणानन्यः विलक्षणबुद्धिबोध्यत्वादिभ्यः बाल-युव-स्थविर-देहवत् । भवन्ति हि बाल- युव-स्थविरदेहे विलक्षणबुद्धिबोध्यत्वादयः शरीरात् । अथ शरीरानन्यत्वं । बालादिदेहसंपृक्ते बालोयं-युवायं-स्थविरोयं देह इति सामानाधिकरण्यात् । एवं घटादयः कारणानन्या इत्यभेद- साधकतया हेतूनां साधारणीकरणादित्यर्थः । साधारणीकरणं पूर्ववत् । तेन :विरुद्धा हेतव इत्यर्थः । तर्काणां वा साधारणीकरणात् । यदि कारणाभिन्नो न स्याद्विलक्षणबुद्धिबोध्यो न स्यादित्यादयः । 'भावाचस्थेति । जायते-अस्ति-विपरिणमति-वर्धते-अपक्षीयते-नश्यतीति षड्भावविकाराः । कारण- भूतद्रव्यरूपभावस्यावस्थाविशेषा इति तत्तदवस्थस्य तस्यैव द्रव्यस्य ते ते शब्दास्तानि तानि च कार्याणीति युक्तं द्रव्यस्य तत्तदवस्थत्वमित्यभेदसिद्धिः । संख्याभेदस्येति प्रतीतस्य । समुदाय- स्येत्येकस्य । तदभावेन भेदसाधकत्वाभावेन । तदनङ्गीकार इति । एकस्तन्तुसमुदायः कारण- मेकः पटः कार्यमित्येवं समुदायानङ्गीकारे । कारणेति । इदं साधारणं रूपा दौ संख्याविषयेपि । सिद्धान्तमुक्तावल्यां कारणगुणेन कार्यगुणा उत्पद्यन्ते । तेन कारणगुणपूर्वका रूपादयो वक्ष्यन्ते । बुद्ध्यादयस्तु न तादृशाः । आत्मादेः कारणाभावात् । बुद्ध्यादयस्तु बुद्धिसुखदुःखेच्छाद्वेषप्रयत्न- धर्माधर्मभावनाख्याः । 'अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम्' इति । पाकजगुण- रूपादीनां कारणगुणपूर्वकत्वाभावात् अपाकजा इत्युक्तम् । तथाविधं अपाकजम् । एवमकारण- गुणोद्भवानुक्त्वा 'स्नेहवेगौ गुरुत्वैकपृथक्त्वपरिमाणकम् । स्थितिस्थापकमित्येते स्युः कारणगुणोद्भवाः' इति कारणगुणोद्भवानाह । अत्रैकमैक्यं तस्यासमवायिनिमित्तं च कारणे समवायि नास्ति । द्विथैक- कारणत्वं स्यादिति भाषापरिच्छेदे । अतो बहुत्वोपपत्त्येत्यर्थः । निमित्तं त्वात्मा । 'आत्मनः स्यान्निमित्तत्वम्' इति भाषापरिच्छेदात् । द्रव्यगतेति । उदकाहरणादिव्यवहारसिद्ध्यर्थं मृद्द्रव्यमेव संस्थानान्तरनामधेयभागभवतीति तद्रूपावस्थानाम् । तर्कैरिति । तर्काः पूर्ववद्बोद्धव्याः । ९ ब्र० सू० भा० 1133

६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० ८ सू० १४. तर्काप्रतिष्ठानादिति निराकृतमेव । न चास्मिन्नपि सूत्रे मिथ्यात्वार्थः सम्भवति । भाष्यप्रकाशः। तद् दूष्यते । अतस्तत्र केवलतर्कमूलत्वम् । तच्च सूत्रकृता तर्काप्रतिष्ठानकथनादेव निरा- कृतमिति तदेव मानमतो न तन्निरासे तदाशयः । किंतु मिथ्यावादनिरास एवाशय इत्यर्थः । ननु सूत्रे तदनन्यत्वमुक्तं, तच्चाभेदपर्यन्तत्वाभावेऽपि भेदव्यासेधमात्रादुपपद्यते । स च कार्यस्य मिथ्यात्वादतः कथं मिथ्यावादनिरासार्थमस्यारम्भ इत्युच्यते इत्याशङ्कायामाहुः न चेत्यादि । इदं हि सूत्रं प्रकृतिश्च प्रतिज्ञेति सूत्रोक्तार्थदृढीकरणाय प्रणीतम् । श्रुतिविप्रतिषेधपरिहारार्थत्वाद् भेदवादपरिहारार्थत्वाद्वा । उभयथापि प्रतिज्ञादृष्टान्तश्रुती एवास्योपजीव्ये । तद्यदि सर्वमेव न स्यात्, किमेकविज्ञानेन विज्ञायेत । किंच । विज्ञानं हि भगवतैकादशस्कन्ध एवं लक्षितम् । 'एतदेव हि विज्ञानं न तथैकेन येन यत् । स्थित्युत्पत्त्यप्ययान् पश्येद् भावानां त्रिगुणात्मनाम् । आदावन्ते च मध्ये च सृज्यात् सृज्यं यदन्वियात् । पुनस्तत्प्रतिसंक्रामे यच्छिष्येत तदेव सत्' इति । तत्र पूर्वलक्षणं सांख्यानुसारि, द्वितीयं ब्रह्मवादानुसारि, उभयथापि विशिष्टज्ञानात्मकं रश्मिः । तदेव मानमिति शब्दात्मकं तर्काप्रतिष्ठानसूत्रमेव मानम् । तन्निरासे भेदवादनिरासे । एवेति । एवकारेण भेदवादव्यवच्छेदः । अतो भेदवादो भाष्ये न निराकृतः । भेदवादनिराकृतिरेव प्रासङ्गिकी तु भवत्येव यत्र कुत्रचित् । यथोक्तं नृसिंहतापनीये सा अग्रेऽपि अभेदपर्यन्तेति । वृत्त्यन्तर्गतत्वादिति भावः । नन्वस्त्वेवं वृत्तौ तथापि कारणस्यान्यत्वाभावरूपेऽर्थे भेदव्यासेधावधारणादुपपद्यते । स चेति भेदव्यासेधः । विशेषदर्शनेन रजतत्ववत् भिन्नकार्यस्य मिथ्यात्वात् । अत इति । मिथ्यार्थस्य वृत्त्यन्तर्गतत्वेन पृथक्त्वाभावप्रयुक्ता वक्तव्यत्वात् । प्रकृतिश्चेति । गताध्यायसमाप्ताविदम् । को हेतुरत्रेत्यत आहुः श्रुतिविप्रतीति । अन्यथा पदार्थाव्याप्तिः । प्रसंगमाहुः भेदवादेति । वृत्त्यन्तर्गतत्वेऽपि शिष्टादृतत्वात्प्रसंगः । निराकृतिश्च प्रासंगिकी । प्रतिज्ञेति । एकविज्ञानेन सर्व- विज्ञानबोधिका प्रतिज्ञाश्रुतिः । मृत्पिण्डादिप्रतिपादिका दृष्टान्तश्रुतिस्ते एव विषयावित्यर्थः । तथाच प्रकृतिसूत्रात्प्रतिज्ञादृष्टान्तावनुवर्त्यादिपदार्थे निवेश्य तदन्यत्वे हेतू इति वक्तव्यं । पदार्था- व्याप्तिपरिहाराय उपजीव्ये कारणे । श्रुतिविप्रतिषेधस्तु प्रतिज्ञावाक्ये सर्वविज्ञानं । दृष्टान्तवाक्ये सर्वमिथ्येति । तस्य परिहारमाहुः तद्यदीति । विज्ञायेतेति । अतो न मिथ्यात्वार्थः संभवतीति भाष्येणान्वयः । अतः सर्वं न मिथ्येति 'एकविज्ञानेन सर्वविज्ञानम्' इति तस्य यदि परिहारः । एक- विज्ञानेनेति भाष्यं विवृण्वन्ति स्म किंचेत्यादिना । एकविज्ञानेऽत्र ग्राह्यविज्ञानं हि । एकादश इति । एकोनविंशे । एतदेव हीति । अत्रार्धेन विज्ञानमिति श्रीधरस्वामी । भावानां त्रिगुणात्म- कत्वकथनाच्छ्लोकेन सांख्यानुसारिलक्षणं । तथैकेन येन ब्रह्मणा भावानां स्थित्यादीन् पश्येदिति यत् एतदेव हि विज्ञानं । कुतस्तर्हि स्थित्यादीत्यत आह त्रिगुणात्मनामिति । प्रकृत्यात्मकत्वा- त्प्रकृत्या तथा पश्येत् । ब्रह्मवादानुसारिलक्षणमाह आदाविति । आदिमध्यावसाने कार्या- त्कार्यान्तरम् । अस्ति-भाति-प्रियत्वेनान्वियात् । तत्प्रतिसंक्रामे कार्यलये यच्छिष्येत तदेव सदिति । सांख्यानुसारीति । प्रधानाज्जगज्जायत इतीति सांख्यप्रवचनसूत्रात् । ब्रह्मवादेति । समन्वयाधिकरणसिद्धत्वात् । विशिष्टेति । जगत्प्रकृतिः । जगद्ब्रह्मेति विशिष्टं ज्ञानम् । 1134

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६७ एकविज्ञानेन सर्वविज्ञानोपक्रमबाधात् प्रकरणविरोधश्च । त्रयाविरोधभयपरित्यागे- नैकमिदं सूत्रमन्यथा योजयन्नतिधृष्ट इत्यलं विस्तरेण ॥ १४ ॥ भाष्यप्रकाशः । विज्ञानमिति सिद्धयति । तच्च विशेषणसत्तायामेव घटते । अतो विज्ञानश्रुतिबाधेन तादृशोप- क्रमबाधात् सूत्रे तथार्थो न संभवति । किंच । प्रकरणमिदं ब्रह्मणः । तत्र सृष्टिद्वारा तत्कारणीभूतं ब्रह्म ज्ञाप्यते बीजाङ्कुरभावेन, तत्र 'एतच्छुङ्गमनुत्पतितं नेदममूलं भविष्यतीति क्व तस्य मूल ५ स्यादन्यत्राद्भावेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो- मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः प्रजाः सदायतनाः सत्प्रतिष्ठाः' इत्यादिना । तद् यदि सर्वं मिथ्या स्याच्छुङ्गमूलभावो विरुद्ध्येत । रजतशुक्त

भिन्न" Then: शरीरस... wait, is that 'शरीर'? Let's re-read line 32: "स आत्मा एष शरीरादिर्न शरीरभिन्नशरीरसद्द्शः । इत्यनेन पर्युदासेन ।" Wait, why "पर्युदासेन"? Because 'नेति नेति' can be interpreted as prasajya-pratiṣedha or paryudāsa! In paryudāsa, 'न इति' = non-X (something distinct from body, etc.). Wait, what is the word? "शरीरादिर्न शरीरभिन्नशरीरस..." Wait, let's look at the letters after शरीरभिन्न: Is it 'शरीरस...'? Wait: 'श' (śa) - 'री' (rī) - 'रा' (rā) - 'दि' (di) - 'स' (sa) - 'दृ' (dṛ) - 'शः' (śaḥ)? Look: श (śa) री (rī) रा (rā) - has an aa-matra! दि (di) - has an i-matra! स (sa) दृ (dṛ) शः (śaḥ) YES! "शरीरादिसदृशः"! Let's read again: "स आत्मा एष शरीरादिर्न शरीरभिन्नः शरीरादिसदृशः ।" Wait, let's look at the letters between 'भिन्न' and '

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६१

भाष्यप्रकाशः । पर्युदासेनात्मस्वरूपोपदेशपरत्वात् । नापि, यत्र हि द्वैतमिव भवतीत्यनेन, तत्र हीवेति शब्दो- ऽनर्थको वा, यथा विनतमिवेत्यवधारणार्थो वा, यथा अन्य इवेमा धाना इति सादृश्यार्थो वा । यथार्द्वैंधाग्नेरित्यत्र धूमविस्फुलिङ्गा इवेति । एवं त्रिष्वप्यर्थेषु यस्यामवस्थायां विविधं विकारजातं भवति तत्रेतर इतरं पश्यति । यत्रत्वस्य सर्वमात्मैवाभूत् तदा केवलेन कं विषयं पश्येदिति कारणग्रासौ विशेषज्ञानसंभवनिषेधादिति । किंच । का चेयमविद्या । तत्त्वात्त्वा- भ्यामनिर्वच्येति चेन्न । यस्याः कार्यमिदं कृत्स्नं व्यवहाराय कल्पते । निर्वक्तुं सा न शक्येति वचनं वञ्चनार्थकम् ॥ यदि ह्यनिर्वचनीया, कथमाचार्यः शिष्येभ्यः प्रतिपादयेत् । अप्रतिपन्नाया च तया कथं व्यवहारः सिध्येदित्यादि । यच्चोक्तं, कथं परिणामो निरवयवस्याकाशकल्पस्य ब्रह्मण इति । तत्र ब्रूमः । स्वाभाव्यात् क्षीरवदिति । सर्वज्ञत्वात् सर्वशक्तित्वात् स्वेच्छयैव परिणामयेदात्मानम् । ननु विरुद्धो दृष्टान्तः । क्षीरस्य सावयवत्वादिति चेन्न सावयवत्वस्य तदप्रयोजकत्वात् । अन्यथाऽ- म्बुनोऽपि दधिभावेन परिणामापत्तेः । एवमन्यान्यपि बहूनि दूषणान्याहुः । सूत्रे तु, तयोर- नन्यत्वं तदनन्यत्वमिति व्याख्याय हेतुबोधिकां वाचारम्भणश्रुतिं त्वेवं व्याकुर्वन्ति । वाचो वागि-

रश्मिः । यथार्द्रैंधाग्नेरिति । इयं बृहदारण्यके मैत्रेयीब्राह्मणेऽस्ति । 'यथार्द्रैंधाग्नेरभ्याहितात् पृथग्धूमा विनिश्चर- न्त्येवं वा अरेस्य महतो भूतस्य निःश्वसितमेतद्यग्वेदम्' इत्यादि । तत्र धूमपदं विस्फुलिङ्गलक्षकं वदतो व्याख्या । आर्द्वैरैधैः काष्ठैरिद्धोऽग्निस्तस्मादभ्याहितादभितः प्रज्वलितात् पृथग्धूमविस्फुलिङ्गा इव विनिर्यान्ति । एवं महतो भूतस्य परमार्थवस्तुन ऋग्वेदादीति श्वसितमिति । कारणेति पटतन्तुवत् ब्रह्मात्मत्वविमर्शे विशेषस्य कार्यत्वस्य यज्ज्ञानं तस्यैव न तु भेदस्य निषेधाद्वितीति तस्माद्भेददर्शनं नाविद्या । नापि मिथ्या । परमात्मनोऽवस्थाविशेषः प्रपञ्चोन्मथत एव वस्तुत्वम् । सत्त्वाद्यात्मकत्त्वा- दाकाशादिषु सत्ता । अमूर्तत्वादिधर्मानिवृत्तेरिति प्रोक्तमित्यन्तम् । इत्यादीति । अग्रेऽविद्यानिर्वचने अविप्रतीति न विशेषेण प्रतिपन्ना ज्ञाता तथा न मायायास्तेन सदसती मायेति श्रुत्युक्तमाया- स्वरूपानिषेधः । मायाविद्ययोर्जन्यजनकभावात् । तत्त्वात्त्वाभ्यामित्यस्य श्रुत्युक्तसत्त्वासत्त्वा- भ्यामिति नार्थः । अग्रे अथ सत्यसती अविद्या । तदसद्भावाभावरूपत्वानुपपत्तेः । नहि युग- पदेकत्र विरुद्धज्ञानसंभवः इति भाष्येण कथनात् । तथा चादिसती सा नादिरितिवक्तव्यमिति परार्थानूदकमाध्यादादिमत्त्वानादित्वाम्यामित्यर्थः । यच्चोक्तमिति शांकरैः । तदप्रेति । परिणामाप्रयोजकत्वात् । किंतु स्वभावस्यैव । अम्बुन इति । स्वाभाव्यसहकृतसावयवत्वं तथेति चेन्न स्वभावेन गतार्थत्वेन सावयवत्वस्यान्यथासिद्धत्वात् । अन्यान्यपीति । पयः स्वाभाव्यादेव हि पयः परिणमते तदापीदं चिन्त्यं किमवयविनः परिणामे शक्तिराहोस्विदवयवानामिति । नहि तस्मिन्द्रवद्रव्येऽवयवीनामातिरिक्तोभ्युपगम्यते मायावादिना । ततः परिशेष्यादवयवानां शक्तिस्ते च निरवयवाः । नह्यवयवानामवयवाः सन्ति येन सावयवस्य परिणामोवतार्थेत इत्यादि भाष्येणोत्तर- सूत्रपर्यन्तेनान्यान्यपीत्यादिः । तयोरिति कार्यकारणयोः । अज्ञाप्यमिवेयमित्यभिधेयोत्पत्ति-

1137

७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ८ सू० १४. भाष्यप्रकाशः। न्द्रियस्योभयमारम्भणमालम्बनं विकारो नामधेयं च । विकारोऽभिधेयोत्पत्तिस्तदभिधानं नाम- धेयम्, उभयमालम्ब्य वाग्व्यवहारः प्रवर्तते। घटेन जलमाहरेति, मृण्मयमित्येतत्सेदं व्याख्यानम् । ननु यदि कार्यं व्यवहारहेतुर्न, तर्हि कार्यकारणयोरनन्यत्वमित्याशङ्क्याह मृत्तिकेत्येव सत्यमिति । कारणमेव हि कार्यात्मना नटवदवतिष्ठते । मृत्समन्वितं हि त्रिष्वपि कालेषु कार्यं, नाश्वमहिष- वद्देशतः कालतो वा व्यतिरिक्तमुपलभ्यते । कारणावस्थामात्रं व्यतिरिक्ताविरिक्तं शुक्तिरजत- वदागमापायधर्मत्पादनृतमनित्यमिति च व्यपदिश्यते । तदर्थमेव मृत्तिकेत्येव सत्यमित्युक्तम् । प्रत्यक्षमेव हि सत्यत्वमत्रानूद्यते, न तु विधीयते । दृष्टान्तत्वेनोपादानात् । तथाच न्यायसूत्रम् । 'लौकिकपरीक्षकाणां यत्र बुद्धिसाम्यं स दृष्टान्तः' इति । अपागादग्नेरग्नित्वमिति तु कारणात्मना निरीक्ष्यमाणं कार्यमतिरिक्तं नोपलभ्यते, कारणात्मन्येव च तिरोहितं भवतीत्यभिप्रायेणोक्तम् । आदिपदेनैतदात्म्यमिदं सर्वमित्येवंजातीयकं वचनं गृह्यते । तथा च श्रुत्यन्तरमात्मव्यतिरिक्तस्य प्रपञ्चस्य सत्यतां दर्शयति । अथ नामधेयं 'सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्' इति । यदि चानृतत्वमभिप्रेयात् प्राणा असत्यमिति ब्रूयादिति । रामानुजाचार्यास्तु तस्मात् परमकारणादनन्यत्वं जगतस्तदनन्यत्वम्, आरम्भणशब्दादि- भ्यः पूर्वोक्ताभ्यः श्रुतिभ्योऽवगम्यत इत्येवं सूत्रं व्याख्याय वाचारम्भणवाक्यमेवं व्याकुर्वन्ति आरभ्यते आलम्ब्यते स्पृश्यत इत्यारम्भणम् । 'कृत्यल्युटो बहुलम्' इति कर्मणि ल्युट् । वाचा वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थः । घटेनोदकमाहरेत्यादिवाक्पूर्वको मृदुदाहरणादिव्यवहारस्त- त्सिद्धये तेनैव मृद्द्रव्येण पृथुबुध्नोदराकारत्वादिलक्षणो विकारः संस्थानविशेषस्तत्प्रयुक्तं च घट रश्मिः। रित्याहुः अभिधेयोत्पत्तिरिति । मृण्मयमिति । ते हि 'यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारः' इत्यादि दृष्टान्तवाक्यमुपाददुः । तद्धटकं मृण्मयमिति । व्यवहार- हेतुनेति । कार्यं तु व्यवहारहेतुरित्युक्तमिति भावः । तथाच कथमनन्यत्वमिति प्रश्नः । भेदा- भेदावाहुः कारणमेव हीति । अश्वमहिषवदिति कार्यकारणभावरहिताश्वमहिषवदिति । देशो राजकीयप्रासादादिः । आभीरपल्ल्यादिश्चोभयोः । कालश्चैककालव्यतिरिक्तोत्पत्तिकालः । ननु पिण्डावस्थायां कार्याभावात् कारणं कार्याद्व्यतिरिक्तं कार्यजननोत्तरमेवाव्यतिरिक्तमिति चेत्तत्राहुः कारणावस्थेति । ननु घटादि कार्यं चेन्नित्यं भवेन्मृत्तिकेत्येव सत्यमित्यत्रैवकारव्यावर्त्यं किं स्यादित्यत आहुः शुक्तिरजतेति । व्यपदिश्यते इति विकारशब्देन व्यपदिश्यते । तदर्थमिति । तादृशधर्मत्वसूचनार्थमेव । प्रत्यक्षमेवेति दार्ष्टान्तिकप्रत्यक्षमेव । एवकारेणान्य- प्रत्यक्षव्यवच्छेदः । बुद्धिसाम्यमिति दार्ष्टान्तिकबुद्धिसाम्यम् । तच्च तदा यदा दार्ष्टान्तिकादौ विहितं दृष्टान्तादौ साम्यार्थं स्यादिति दृष्टान्तेऽनूद्यत एव । कारणात्मनेति । ननु कथं तर्हि दृष्टान्तोऽ- पागादिति विधिलौके लुङ् तत्राहुः अपागादिति । कारणात्मनेति त्रीणि रूपाण्येव सत्यमिति रूपत्रयरूपकारणात्मना । इत्यभिप्रायेणेति । तथा चोदाहरणमिदं विवक्षितं दृष्टान्तेनुवादे । आद्येति । आरम्भणशब्दादिभ्य इत्यात्रादिपदेन । एष सत्यमिति । एष समीप- तरवर्ती । पूर्वोक्ताभ्य इति । 'ऐतदात्म्यमिदं सर्वं तत्सत्यं' 'नेह नानास्ति किंचन' 'मृत्योः स मृत्यु- 1138

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७१

भाष्यप्रकाशः ।

इत्यादिनामधेयं सृज्यते। उदकाऽऽहरणादिव्यवहारसिद्ध्यर्थं द्रव्यमेव संस्थानान्तरनामान्तर- भाग् भवति। अतो घटादपि मृत्तिकेत्येव सत्यं मृत्तिकाद्रव्यमित्येव सत्यं प्रमाणेनोपलभ्यते, न तु द्रव्यान्तरत्वेनेत्यर्थ इति। ये पुनः कार्यकारणयोरनन्यत्वं कार्यस्य मिथ्यात्वाभ्युपगमेन वर्ण- यन्ति तेषां कार्यकारणयोरनन्यत्वं न सिद्ध्यति। सत्यमिथ्यार्थयोरैक्यानुपपत्तेः। तथा सति ब्रह्मणो मिथ्यात्वं जगतः सत्यत्वमिति वैपरीत्यापत्तेश्चेत्याहुः। काणादमतदूषणं तु प्रागेवोक्तम्। मायावादिमतोपरि दूषणान्तराणि बहूनि वदन्ति तानि विस्तरभयान्नानूद्यन्ते।

तन्मतचौरस्तु विकारो नामधेयं च वाचाया अभिलापार्थव्यवहारस्य आरम्भणं निष्पाद- कं भवति। मृद्द्रव्यस्यैव घटाद्यवस्था घटादिनामधेयं चार्थक्रियाया अभिलापस्य च निष्पत्तये

रश्मिः ।

रश्मिः । प्राप्नोति' 'य इह नानेव पश्यति' इत्यादिभ्यः। द्रव्यमिति मृत्पिण्डादि। प्रमाणेनेति प्रत्यक्षेण। तथा सतीति। सत्यमिथ्यार्थयोरैक्ये सति। प्रागेवेति तदनन्यत्वसूत्रात्प्रागेव। तथाच भाष्यं। न तु दृष्टान्तभावादिति सूत्रस्थं। पुनरप्यसामञ्जस्यमेव तदनन्यत्वमारम्भणशब्दादिभ्यः असदिति चेन्न प्रतिषेधमात्रत्वादित्यादिषु कारणभूताद्ब्रह्मणः कार्यभूतस्य जगतोऽनन्यत्वमभ्युपगम्य ब्रह्मणो जगत्कारणत्वमुपपादितम्। इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते। तत्र काणादाः प्राहुः। न कारणात्कार्यस्यानन्यत्वं संभवति विलक्षणबुद्धिबोध्यत्वात्। न खलु तन्तुपटमृत्पिण्ड- घटादिषु कार्यकारणविषया बुद्धिरेकरूपेत्यादि पूर्वं भाष्यप्रकाशे काणादैर्हि भेदवादो जीवन- मित्यादिनोक्तं भाष्यम्। अन्यदप्युक्त्वा भाष्यं। अत्राहुः कारणादनन्यत्वं कार्यस्य न हि परमार्थतः कारणव्यतिरिक्तकार्यतद्व्यवहारयोः यथा कारणभूतात् मृद्द्रव्यादि घटादिषु विकारेषूपलभ्यमानाद् व्यतिरिक्तं घटशरावादि कार्यं व्यवहारमात्रालम्बनं मिथ्याकारणभूतं मृद्द्रव्यमेव सत्यं तथा निर्विशेष- सन्मात्रकारणभूताद्ब्रह्मणोऽन्योऽहंकारादिव्यवहारालम्बनः कृत्स्नः प्रपञ्चो मिथ्याकारणभूतं सन्मात्रं ब्रह्मैव सत्यम्। तस्मात्कारणव्यतिरिक्तं कार्यं नास्तीति कारणादनन्यत्कार्यम्। नच वाच्यं शुक्तिका- रजतादीनामिव घटादिकार्याणामसत्यत्वाप्रसिद्धेर्दृष्टान्तानुपपत्तिरिति। यतस्तत्रापि युक्त्या मृद्द्रव्यमेव सत्यतया व्यवस्थाप्यते तदतिरिक्तं तु बाध्यते इत्यादि तन्मतमनूद्य सिद्धकथनम्। तस्मादेकमेव नित्यमुक्तस्वप्रकाशस्वभावमविद्यावशाज्जगदाकारेण विवर्तत इति परमार्थतो ब्रह्मव्यतिरिक्ता- भावात्तदनन्यत्वं जगत इति भाष्येणोक्तम्। अग्रे तानि तु ये पुनरित्यादिनोक्तदूषणाभ्यामन्यानि अत्रोच्यते इत्यादिभाष्योक्तादिति। तथाहि। अत्रोच्यते। निर्विशेषप्रकाशमात्रं ब्रह्माऽनाद्यविद्या- तिरोहितस्वस्वरूपं स्वगतनानात्वं पश्यतीत्येतत्प्रकाशस्वरूपस्य निरंशस्य प्रकाशनिवृत्तिरूप- तिरोधाने स्वरूपनाशप्रसङ्गेन तिरोधानासंभवादित्यादिभ्यः सकलप्रमाणविरुद्धं स्ववचनविरुद्धं चेति पूर्वमेवोक्तमित्यादीनि। आतदनन्यत्वसूत्रं। तन्मतचौरैस्तु भगवांञ्छैवाचार्यः। वाचाया इत्यस्य व्याख्यानं अभिलापेत्यादि। अभिलापोऽयं घटोऽयं पट इत्यादि तदर्थं व्यवहारोहं देवदत्तः ममायं घटो ममायं पट इत्याद्या मतिः। व्यवहारः सन्निपात इत्यादि वाक्यम्। अनेन घटादिना जल- माहरेत्यादि अभिलापार्थो व्यवहारः। अर्थक्रिया जलाहरणादिः। अभिलापः अनेन पटेनेत्यादिः।

1139

७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ०२ पा०१ अ० ८ सू०१४. भाष्यप्रकाशः। भवतीति यावत् । वस्तुतो घटाद्यपि मृत्तिकेत्येव सत्यं प्रामाणिकं मृद्व्यतिरेकेण घटाभावदर्शनात् । अथवा । विकारो घटो वाचारम्भणं घटोऽयमिति वाचारम्भविषयमात्रम् मृद्द्रव्यमेव व्यवहारसिद्ध्यर्थमवस्थान्तरमापन्नं न तु मृदो द्रव्यान्तरम् । मृत्तिकेत्येव नामधेयं सत्यम् । घटादिकं मृत्तिकेति कृत्वैव तत्र सर्वं मृत्पिण्डादिनामधेयं सत्यं, सति प्रामाणिकेऽर्थे साधु, न तु द्रव्यान्तरमिति कृत्वा यतो घटो मृदेवात: कारणादनन्यदेव कार्यम् । अर्थक्रियादिव्यवहार- भेदस्त्ववस्थाभेदात् । एवमेव ब्रह्मप्रपञ्चयोरपि व्याप्यव्यापकभावादनन्यत्वं द्रष्टव्यम् । तथा च पुराणवाणी 'शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् । तेनैकेन तु तद्व्याप्तं मृदा कुम्भा- दिकं यथा' इति । ननु मृदयं घट इत्यत्र यथा मृद्व्याप्तिर्घटे दृश्यते तथा ब्रह्मेदं जगदिति व्याप्तिर्न दृश्यते इति चेन्न । सन् घटः सन् पट इति सर्वत्र सद्द्रूपस्य ब्रह्मणो व्याप्तिदर्शनात् । यदि हि सद्द्रूपेण व्याप्तं जगन्न स्यात् सत्तास्फूर्तिभ्यां विना कृतम्, अस्तीति स्फुरतीति न भासेत । तथा सत्यवस्त्वेव भवेत् । अतो मृदा घटादिकमिव कारणेन शिवेन सर्वं जगद् व्याप्तं तदनन्यभूतं वेत्याह । विज्ञानभिक्षुस्तु, लोकवदिति पूर्वसूत्रादनुकृष्येदं सूत्रमेवं व्याचख्यौ । तस्य भोक्तुः सोपकरणस्य प्रकृतब्रह्मानन्यत्वं, नदीनां समुद्र इव कारणे ब्रह्मण्यविभागो मन्तव्यो, न तु भोक्तु- रत्यन्तं ब्रह्मत्वं, न वा प्रलयादावभावः । कुतः आरम्भणशब्दादिभ्यः । आरम्भणश्रुत्या- दिभ्यः । सा श्रुतिस्तु 'तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च' इति । अस्यां श्रुतौ पूर्वसर्गीय- विद्याकर्मप्रज्ञानां जीवारम्भकत्वश्रवणात् प्रलयेपि ब्रह्मभेदेन जीवस्य सत्त्वं सिद्ध्यति । ब्रह्मणः कर्माद्यसंभवात् । प्रलये जीवविनाशे च, तं पूर्वप्रज्ञा समन्वारभत इत्यस्यानुपपत्तेः । तच्च प्रलये जीवावस्थानं ब्रह्माविभागेनैव संभवति । अन्यथा, 'सदेव सोम्येदमग्र आसीद्' इत्यादीनामा- दिक्सन्दगृहीतानामद्वैतश्रुतीनामनुपपत्तेरिति । अतः पूर्वसूत्रीयदृष्टान्तसाम्याद्दाष्ट्रान्तिकस्य च नेतरेतरवैषम्यमिति भाव इति । तदसङ्गतम् । उक्तश्रुतेरुपसर्गद्वयघटितत्वेन तस्या विषय- वाक्यत्वस्यायुक्ततया सर्वप्रसिद्धस्यारम्भणवाक्यस्य त्यागायोगात् । शुद्धाद्वैतानङ्गीकारोप्युक्तः। अविभागाद्वैतस्यावान्तरप्रलये सत्त्वेपि प्राकृतिके केवलाद्वैतस्यैव वक्तव्यत्वात् । अन्यथा, 'शतं५ शुक्लाणि यत्रैकं भवन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वे होतारो यत्रैकं भवन्ति' इति, 'यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासन् शिव एव केवलः' इत्यादिश्रुतीनां विरोधापत्तेः । ब्रह्मणः कर्माद्यभावोपि तथा । सृष्टिकरणस्य श्रुत्यैवोक्तत्वात् । पूर्वप्रज्ञाया जीवविनाश- साधकत्वमप्यसङ्गतम् । 'प्रज्ञा च तस्मात् प्रसुता पुराणी' इति श्रुत्युक्ताया ब्रह्मप्रज्ञाया अपि रश्मिः। नन्वयं घट इत्यादिः प्रमा सापि तद्ग्राहकेण प्रमाणेन गृह्यते इति प्रामाणिकमेवेत्यन्तं पक्षान्तरमाह । अथवेति । घटादिकमिति । आदिना मृत्पिण्डकपालग्रहणम् । तत्रेति घटादिके । सतीत्यस्य विवरणं प्रामाणिकेर्थ इत्यादि । तत्र साधुरिति यत् । द्रव्यान्तरमिति । कारणाद्घटादिकं द्रव्यान्तरम् । ऽव्याप्येति । कार्यं व्याप्यं कारणं व्यापकम् । शक्त्यादिकमिति । व्यामोक्षकशक्त्यादिकम् । नेति । कार्यात्मना भेदादिति भावः । इत्याहेति तन्मतं 'त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपि- णमि'ति गीतायाः सच्चिदानन्दरूपस्य चिदंशप्राधान्येन वर्णनं युक्तमिति न किंचिदुक्तं दूषणम् । अविभाग इति । मधुकृद्भक्षितानां नानावृक्षरसानां मधुन्यविभागो यथा । जीवाविनाश इति । 1140

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७३ भाष्यप्रकाशः । तत्र ग्रहीतुं शक्यत्वेन जीवप्रज्ञाया एव ग्रहणे नियामकाभावात् । 'न जायते न म्रियते' इति श्रुतेस्तद्विनाशशङ्काया एवानुदयाच्च । न च नास्तिकनिरासाय तत्साधनमिति वाच्यम् । तदर्थ श्रुतेरवक्तव्यत्वात् । 'सदेव' इति श्रुतेरविभागाद्वैतसाधकत्वमपि यथा । तथासत्यद्वितीयपदकोपस्य प्रागेव दर्शितत्वात् । न च, 'न तु द्वितीयमस्ति ततोऽन्यद्विभक्तम्' इति, 'पृथग्विभक्ता प्रलये च गोप्ता' इति, 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इत्यादिश्रुतिस्मृतिभिः समन्वयसूत्र एवाद्वितीयपदस्याविभागपरताया विचारितत्वान्न तत्कोप इति वाच्यम् । आद्यश्रुतेः सृष्टिदशायां विभागे सत्यपि मूलविचारेण दर्शनादर्शनयोरुपपादकतयोपन्यासस्य प्रकरणादेवावगमेन सृष्टि- रश्मिः । ब्रह्मणानन्यैक्ये तु तथा । अनुपपत्तेरिति । ब्रह्मण आरम्भासंभवात्तथा । सदेवेति इदं जगत्सदेव ब्रह्मैव आरम्भणशब्दादिभ्य इत्यादिशब्दगृहीतानाम् । पूर्वेति । लोकवदिति दृष्टान्तः । ब्रह्मणानन्यत्वं दार्ष्टान्तिकम् । वैषम्यमिति । सालोक्यवत्तदनन्यत्वमित्यत्र । उपसर्गेति सूत्रस्य शब्दतोतिरिक्त- समनूपसर्गद्वयघटितत्वेन । अवान्तरेति दैनन्दिनप्रलये । यदा तम इति तमःशिवपदेऽनभिव्यक्ते कल्याणे च रूढे समाकर्षात् । न च न विरोधापत्तिरविभागाद्वैतेऽप्यर्थसङ्गतेरिति वाच्यम् । अवान्तरस्फुरण- विषयत्वात् । ननु 'यथा मधु मधुकृतो निस्तिष्ठन्ति' इत्याद्युपदेश इति चेन्न । नानावादानुरोधित्वात् । 'आचार्यवान्पुरुषो वेद' इति श्रुतिविरोधोऽप्यत एव न । अधिकारभेदाच्च । तथा च स्वमतप्रति- पिपादयिषिताद्वैतस्य 'शत ऽमृक्ताणि' इत्यत्राभावात् स्वमते श्रुतीनां विरोधापत्तेरित्यर्थः । किंचादिपदेन 'मनसैवावाप्तव्यम्' 'नेह नानास्ति किंचन' इत्युक्त्वा तदेकवाक्यतया 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' 'मनसैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम्' इत्याहृतम् । सृष्टीति । न चेच्छामात्रेण सृष्टिकरणम् । इच्छाया अपि क्रियावाचिभ्वादिनिष्पन्नत्वेन क्रियात्वात् । तद्विनाशोति जीव- विनाशशङ्कायाः । तत्साधनमिति विनाशसाधनम् । तदर्थमिति प्रतियोगिज्ञानार्थं पूर्वोक्तायाः श्रुतेः प्रामाणिकत्वार्थमेवकारो बाह्यमतव्यवच्छेदकः । सदेवेति श्रुतेरिति षष्ठ्यन्तं पदम् । तथा सतीति नानात्वब्रह्मरसेषु कारणाभेदप्रयुक्तेनानात्वे सति । प्रागेवेति समन्वयसूत्रे । सृष्टिभेदवादोक्तरीत्याहुः आद्यश्रुतेरिति । यथा नैयायिकैः कपालद्वयादिसंयोगाद्यादिसृष्टिसिद्धविभागस्यसृष्टिवादे साधिता तादृशविभागे सत्यपि । मूलेति द्वितीयनिषेधत्वेन मूलविचारत्वेन कार्यकारणभावः । दर्शनविभागसादर्शनं च । पूर्वश्रुतौ विभागाविभागोपपादकतयोपन्यासस्य । न तु द्वितीयमस्ती- त्यविभागः । अन्यद्विभक्तमिति विभागः । प्रकरणाद्धीति । प्रकरणं सुषुप्तेः । बृहदारण्यके ज्योति- र्ब्राह्मणे 'यद्वै तन्न पश्यति पश्यन्वै तद् ( द्रष्टव्यं ) न पश्यति । नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविना- शित्वािन्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इति श्रूयते । सुषुप्तौ तद्ब्रह्म न वै नैव पश्यतीति यज्ञानासि तत्पश्यन्नेव द्रष्टव्यं न पश्यति यतो जीवस्य द्रष्टुर्दृष्टेर्ज्ञानस्य विपरिलोपोऽदर्शनं न विद्यते- ऽविनाशित्वात् । पश्यन्नेव न पश्यतीत्यत्र हेतुः न त्विति । जीवाद्वितीयं प्रमातृस्वरूपम् । अन्यच्च- क्षुरादिकं विभक्तं स्वरूपाच्चास्तीति सुषुप्तिविचारात् । न च प्रकरणमविभागमात्रस्येति कुतो विभागस्यावगम इति वाच्यम् । तर्हि प्रकरणादेव नावगमे सति किंतु ह्यविभागमात्रस्यावगमे इत्यर्थः । सृष्टीति । सृष्टेः प्राक्कालो ययोर्विभागाविभागयोः तौ सृष्टिप्राक्कालो तयोर्दृष्टान्तोपभोक्तृतायाः । १० ब्र० सू० भा० 1141

७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ८ सू० १४. भाष्यप्रकाशः। ष्ट्राकालवृत्तान्तबोधकतायाः स्फुटत्वेन तदानींतनाविभागासाधकत्वात् । द्वितीयस्यास्त्वेवान्तर- प्रलयवृत्तान्तबोधकत्वम् । स्मृतेस्तु सृष्टिकालविषयत्वमिति तदसाधकत्वात् । अन्यथा, 'सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्', 'विश्वं वै ब्रह्मतन्मात्रम्' इत्यादिश्श्रुतिस्मृतिविरोधस्य दुर्वारत्वादिति । यत् पुनः समन्वयसूत्रे वाचारम्भणश्रुतिरेवं व्याख्याता विकारो वाचारम्भणं नामकार्यः पश्चाच्च नाममात्रावशेषो भवति । 'वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे' 'नामैवैनं न जहाति' इति स्मृतिश्रुतिभ्याम् । अतो विकारो मृत्तिकेत्येव कारणरूपेणैव सत्यं नित्यम् । न तु विकारत्वेनेति । तथा चानेनानित्यत्वमात्रबोधनान्न विवर्तवादः सिद्ध्यति, किंतु परिणामवाद एवेति । तत्र फलं

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५४ भावे चोपलब्धेः ॥ १५ ॥ भाव एव विद्यमान एव घटे घटोपलब्धिः । नाभावे । चकारान्मृत्सिकेत्येव श्रुतिः परिगृहीता । वाङ्मात्रेण चोपलम्भे मिथ्यैवात्र घटोऽप्यस्तीत्युक्ते उपलभ्येत । भाष्यप्रकाशः । किं तर्हि । अयमाक्षेपः । स चाधिष्ठानाद्याक्षिपन् भगवतस्तन्निरपेक्षत्वे पर्यवस्यति । आदि- शब्दाद् युक्तयः । परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते । साधनानां साधनत्वं यतः किं तस्य साधनैः ॥ इत्याद्यास्ताम्य इत्यर्थः । सोयं न सूत्रकारानुशयगोचरो हेतुरिति प्रतिभाति । यदि स्याच्- चाधिष्ठानशब्दादिभ्य इति वदेत् । तस्यागे बीजाभावात् । अथ व्यक्तस्तथासत्यधिष्ठानसापेक्षत्वात् साध्यासिद्धिः । किंचैवमनन्यत्वसाधनं भेदसिद्धान्तभञ्जकम् । अधिष्ठानानपेक्षावदुपादान- पेक्षाया अप्यसादेव वाक्यात् सिद्धेः । आरम्भणशब्दस्य कर्मार्थकल्युटापि सिद्धेः । व्युत्पत्त्यन्तरा- ङ्गीकारेऽनपेक्षत्वहानेश्च । अतस्तन्मतं चिन्त्यमेव । वाचारम्भणवाक्यं तु न विचारितम् । तत्र बीजं च न पश्यामः ॥ १४ ॥ भावे चोपलब्धेः ॥ १५ ॥ एवमेकेन श्रुतिविप्रतिषेधं परिहृत्य कार्यस्य कारणादन- न्यत्वे सत्त्वे च युक्तिमाह भावे चेति सूत्रेण । तद् व्याकुर्वन्ति भाव एवेत्यादि । तथा च रश्मिः । किं तर्हीति प्रश्नः । उत्तरयन्ति स अयमिति । किंस्विदित्यादेराक्षेपेपि प्रयोगात् । अधिष्ठानादीति अधिष्ठानं किंस्विदासीच्च किमपि कतमदारम्भणं किंस्विदासीन्न किमपीत्याक्षिपन् भगवतोऽधिष्ठानादि- निरपेक्षत्वे पर्यवस्यतीत्यर्थः । इत्याद्या इति । आद्यपदेन यदि कालो न स्यात्तर्हि 'कालोस्मि लोकक्षय- कृत्प्रवृद्धः' इति न वदेदिति । अनुशयेति । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वात्सूत्रका- रानुबन्धविषय इत्यर्थः । अथ व्यक्त इति । अधिष्ठानशब्दस्त्यक्तः सूत्रकृता । स्वतन्त्रेच्छत्वात् । नन्वार- म्भणशब्दोक्तश्रुतिनिष्ठसादिरधिष्ठानं तदारम्भणशब्दादि तेभ्यः पदेभ्य इति व्याख्यानं तत्त्यागे बीज- मिति चेत्तत्राहुः किं चैवमिति । वाक्यादेवेति । तथा च स्वयमुपादानमित्युपादानस्य कार्या- भेदाद्भेदसिद्धान्तभङ्गः । ननु नोपादानापेक्षारम्यतेऽसिद्धित्यारम्भणमिति व्युत्पत्तेरिति चेत्तत्राहुः आरम्भणेति । व्युत्पत्त्यन्तरमुक्तम् । चिन्त्यमेवेत्येवकारः प्रसिद्धश्रुतित्यागात् । न पश्याम इति तथा चारम्भणशब्दघटितत्वेन प्रसिद्धं वाक्यं विचारणीयमेवेति भावः ॥ १४ ॥ भावे चोपलब्धेः ॥ १५ ॥ श्रुतिविप्रतीति श्रुत्योः कारणान्यत्वकारणानन्यत्वप्रति- पादकयोः प्रतिज्ञादृष्टान्तप्रतिपादकयोर्विप्रतिषेधम् । एवेति कारणादन्याभावरूपानन्यत्वस्याभेद- रूपानन्यत्वस्य वा स्वसम्मतप्रतिपन्नानन्यत्वस्य व्यवच्छेदक एवकारः । यथा माध्वानां कारणान्त- रानपेक्षत्वरूपं तदनन्यत्वम् । भाव एवेत्यादीति । 'भाष्ये विद सत्तायां । दि. आत्म. अ. शानचि मुकि च रूपं विद्यमान इति । घटोपलब्धिरिति । अन्यथा खपुष्पोपलब्धिः स्यात् । विवर्तत्वे तु घटोपलम्भिर्न स्यात्तच्च योग्यानुपलब्धिरूपस्य सत्त्वाभावाभावादिरूपशक्यतावच्छेदक- 1143