अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1243, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६१
भाष्यप्रकाशः । पर्युदासेनात्मस्वरूपोपदेशपरत्वात् । नापि, यत्र हि द्वैतमिव भवतीत्यनेन, तत्र हीवेति शब्दो- ऽनर्थको वा, यथा विनतमिवेत्यवधारणार्थो वा, यथा अन्य इवेमा धाना इति सादृश्यार्थो वा । यथार्द्वैंधाग्नेरित्यत्र धूमविस्फुलिङ्गा इवेति । एवं त्रिष्वप्यर्थेषु यस्यामवस्थायां विविधं विकारजातं भवति तत्रेतर इतरं पश्यति । यत्रत्वस्य सर्वमात्मैवाभूत् तदा केवलेन कं विषयं पश्येदिति कारणग्रासौ विशेषज्ञानसंभवनिषेधादिति । किंच । का चेयमविद्या । तत्त्वात्त्वा- भ्यामनिर्वच्येति चेन्न । यस्याः कार्यमिदं कृत्स्नं व्यवहाराय कल्पते । निर्वक्तुं सा न शक्येति वचनं वञ्चनार्थकम् ॥ यदि ह्यनिर्वचनीया, कथमाचार्यः शिष्येभ्यः प्रतिपादयेत् । अप्रतिपन्नाया च तया कथं व्यवहारः सिध्येदित्यादि । यच्चोक्तं, कथं परिणामो निरवयवस्याकाशकल्पस्य ब्रह्मण इति । तत्र ब्रूमः । स्वाभाव्यात् क्षीरवदिति । सर्वज्ञत्वात् सर्वशक्तित्वात् स्वेच्छयैव परिणामयेदात्मानम् । ननु विरुद्धो दृष्टान्तः । क्षीरस्य सावयवत्वादिति चेन्न सावयवत्वस्य तदप्रयोजकत्वात् । अन्यथाऽ- म्बुनोऽपि दधिभावेन परिणामापत्तेः । एवमन्यान्यपि बहूनि दूषणान्याहुः । सूत्रे तु, तयोर- नन्यत्वं तदनन्यत्वमिति व्याख्याय हेतुबोधिकां वाचारम्भणश्रुतिं त्वेवं व्याकुर्वन्ति । वाचो वागि-
रश्मिः । यथार्द्रैंधाग्नेरिति । इयं बृहदारण्यके मैत्रेयीब्राह्मणेऽस्ति । 'यथार्द्रैंधाग्नेरभ्याहितात् पृथग्धूमा विनिश्चर- न्त्येवं वा अरेस्य महतो भूतस्य निःश्वसितमेतद्यग्वेदम्' इत्यादि । तत्र धूमपदं विस्फुलिङ्गलक्षकं वदतो व्याख्या । आर्द्वैरैधैः काष्ठैरिद्धोऽग्निस्तस्मादभ्याहितादभितः प्रज्वलितात् पृथग्धूमविस्फुलिङ्गा इव विनिर्यान्ति । एवं महतो भूतस्य परमार्थवस्तुन ऋग्वेदादीति श्वसितमिति । कारणेति पटतन्तुवत् ब्रह्मात्मत्वविमर्शे विशेषस्य कार्यत्वस्य यज्ज्ञानं तस्यैव न तु भेदस्य निषेधाद्वितीति तस्माद्भेददर्शनं नाविद्या । नापि मिथ्या । परमात्मनोऽवस्थाविशेषः प्रपञ्चोन्मथत एव वस्तुत्वम् । सत्त्वाद्यात्मकत्त्वा- दाकाशादिषु सत्ता । अमूर्तत्वादिधर्मानिवृत्तेरिति प्रोक्तमित्यन्तम् । इत्यादीति । अग्रेऽविद्यानिर्वचने अविप्रतीति न विशेषेण प्रतिपन्ना ज्ञाता तथा न मायायास्तेन सदसती मायेति श्रुत्युक्तमाया- स्वरूपानिषेधः । मायाविद्ययोर्जन्यजनकभावात् । तत्त्वात्त्वाभ्यामित्यस्य श्रुत्युक्तसत्त्वासत्त्वा- भ्यामिति नार्थः । अग्रे अथ सत्यसती अविद्या । तदसद्भावाभावरूपत्वानुपपत्तेः । नहि युग- पदेकत्र विरुद्धज्ञानसंभवः इति भाष्येण कथनात् । तथा चादिसती सा नादिरितिवक्तव्यमिति परार्थानूदकमाध्यादादिमत्त्वानादित्वाम्यामित्यर्थः । यच्चोक्तमिति शांकरैः । तदप्रेति । परिणामाप्रयोजकत्वात् । किंतु स्वभावस्यैव । अम्बुन इति । स्वाभाव्यसहकृतसावयवत्वं तथेति चेन्न स्वभावेन गतार्थत्वेन सावयवत्वस्यान्यथासिद्धत्वात् । अन्यान्यपीति । पयः स्वाभाव्यादेव हि पयः परिणमते तदापीदं चिन्त्यं किमवयविनः परिणामे शक्तिराहोस्विदवयवानामिति । नहि तस्मिन्द्रवद्रव्येऽवयवीनामातिरिक्तोभ्युपगम्यते मायावादिना । ततः परिशेष्यादवयवानां शक्तिस्ते च निरवयवाः । नह्यवयवानामवयवाः सन्ति येन सावयवस्य परिणामोवतार्थेत इत्यादि भाष्येणोत्तर- सूत्रपर्यन्तेनान्यान्यपीत्यादिः । तयोरिति कार्यकारणयोः । अज्ञाप्यमिवेयमित्यभिधेयोत्पत्ति-
1137