अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1244, कुल 2600 में से
संदर्भ में पढ़ें७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ८ सू० १४. भाष्यप्रकाशः। न्द्रियस्योभयमारम्भणमालम्बनं विकारो नामधेयं च । विकारोऽभिधेयोत्पत्तिस्तदभिधानं नाम- धेयम्, उभयमालम्ब्य वाग्व्यवहारः प्रवर्तते। घटेन जलमाहरेति, मृण्मयमित्येतत्सेदं व्याख्यानम् । ननु यदि कार्यं व्यवहारहेतुर्न, तर्हि कार्यकारणयोरनन्यत्वमित्याशङ्क्याह मृत्तिकेत्येव सत्यमिति । कारणमेव हि कार्यात्मना नटवदवतिष्ठते । मृत्समन्वितं हि त्रिष्वपि कालेषु कार्यं, नाश्वमहिष- वद्देशतः कालतो वा व्यतिरिक्तमुपलभ्यते । कारणावस्थामात्रं व्यतिरिक्ताविरिक्तं शुक्तिरजत- वदागमापायधर्मत्पादनृतमनित्यमिति च व्यपदिश्यते । तदर्थमेव मृत्तिकेत्येव सत्यमित्युक्तम् । प्रत्यक्षमेव हि सत्यत्वमत्रानूद्यते, न तु विधीयते । दृष्टान्तत्वेनोपादानात् । तथाच न्यायसूत्रम् । 'लौकिकपरीक्षकाणां यत्र बुद्धिसाम्यं स दृष्टान्तः' इति । अपागादग्नेरग्नित्वमिति तु कारणात्मना निरीक्ष्यमाणं कार्यमतिरिक्तं नोपलभ्यते, कारणात्मन्येव च तिरोहितं भवतीत्यभिप्रायेणोक्तम् । आदिपदेनैतदात्म्यमिदं सर्वमित्येवंजातीयकं वचनं गृह्यते । तथा च श्रुत्यन्तरमात्मव्यतिरिक्तस्य प्रपञ्चस्य सत्यतां दर्शयति । अथ नामधेयं 'सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्' इति । यदि चानृतत्वमभिप्रेयात् प्राणा असत्यमिति ब्रूयादिति । रामानुजाचार्यास्तु तस्मात् परमकारणादनन्यत्वं जगतस्तदनन्यत्वम्, आरम्भणशब्दादि- भ्यः पूर्वोक्ताभ्यः श्रुतिभ्योऽवगम्यत इत्येवं सूत्रं व्याख्याय वाचारम्भणवाक्यमेवं व्याकुर्वन्ति आरभ्यते आलम्ब्यते स्पृश्यत इत्यारम्भणम् । 'कृत्यल्युटो बहुलम्' इति कर्मणि ल्युट् । वाचा वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थः । घटेनोदकमाहरेत्यादिवाक्पूर्वको मृदुदाहरणादिव्यवहारस्त- त्सिद्धये तेनैव मृद्द्रव्येण पृथुबुध्नोदराकारत्वादिलक्षणो विकारः संस्थानविशेषस्तत्प्रयुक्तं च घट रश्मिः। रित्याहुः अभिधेयोत्पत्तिरिति । मृण्मयमिति । ते हि 'यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारः' इत्यादि दृष्टान्तवाक्यमुपाददुः । तद्धटकं मृण्मयमिति । व्यवहार- हेतुनेति । कार्यं तु व्यवहारहेतुरित्युक्तमिति भावः । तथाच कथमनन्यत्वमिति प्रश्नः । भेदा- भेदावाहुः कारणमेव हीति । अश्वमहिषवदिति कार्यकारणभावरहिताश्वमहिषवदिति । देशो राजकीयप्रासादादिः । आभीरपल्ल्यादिश्चोभयोः । कालश्चैककालव्यतिरिक्तोत्पत्तिकालः । ननु पिण्डावस्थायां कार्याभावात् कारणं कार्याद्व्यतिरिक्तं कार्यजननोत्तरमेवाव्यतिरिक्तमिति चेत्तत्राहुः कारणावस्थेति । ननु घटादि कार्यं चेन्नित्यं भवेन्मृत्तिकेत्येव सत्यमित्यत्रैवकारव्यावर्त्यं किं स्यादित्यत आहुः शुक्तिरजतेति । व्यपदिश्यते इति विकारशब्देन व्यपदिश्यते । तदर्थमिति । तादृशधर्मत्वसूचनार्थमेव । प्रत्यक्षमेवेति दार्ष्टान्तिकप्रत्यक्षमेव । एवकारेणान्य- प्रत्यक्षव्यवच्छेदः । बुद्धिसाम्यमिति दार्ष्टान्तिकबुद्धिसाम्यम् । तच्च तदा यदा दार्ष्टान्तिकादौ विहितं दृष्टान्तादौ साम्यार्थं स्यादिति दृष्टान्तेऽनूद्यत एव । कारणात्मनेति । ननु कथं तर्हि दृष्टान्तोऽ- पागादिति विधिलौके लुङ् तत्राहुः अपागादिति । कारणात्मनेति त्रीणि रूपाण्येव सत्यमिति रूपत्रयरूपकारणात्मना । इत्यभिप्रायेणेति । तथा चोदाहरणमिदं विवक्षितं दृष्टान्तेनुवादे । आद्येति । आरम्भणशब्दादिभ्य इत्यात्रादिपदेन । एष सत्यमिति । एष समीप- तरवर्ती । पूर्वोक्ताभ्य इति । 'ऐतदात्म्यमिदं सर्वं तत्सत्यं' 'नेह नानास्ति किंचन' 'मृत्योः स मृत्यु- 1138