अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 125, कुल 2600 में से
संदर्भ में पढ़ें३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ न च विरुद्धवाक्यानां श्रवणात् तन्निर्धारणार्थं विचारः। उभयोरपि प्रामाणि- कत्वेनैकतरनिर्धारस्याशक्यत्वात् । अचिन्त्याऽनन्तशक्तिमति सर्वभवनसमर्थे ब्रह्मणि विरोधाभावाच्च । अत एवोपनिषत्सु तत्तदुपाख्याने बोधाभावे औपाधिकबोधे च तपस भाष्यप्रकाशः। विरुद्धवाक्यश्रवणे श्रोता संदेग्धि । संदेहे चावश्यमनिष्टम् । 'अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति' इति स्मरणात् । 'यस्य स्यादद्धा न विचिकित्सा'इति इति श्रुतेश्च । अतस्तन्निवारणा- यार्थं निर्धार आवश्यकः । स च विचाराधीन इति तदर्थं स कार्य एवेत्यत आह नचेत्यादि । विचारः कथं कार्यः किमेकतरबाधेन, किंनोभयसामञ्जस्येन । यद्याद्यः पक्षस्तदा तद्बाधनाया- प्रामाणिकत्वं तस्य वक्तव्यम् । तथा सत्यन्यत्रापि तदापात इत्युपचारनिवृत्त्यर्थं यतमानस्याऽ- प्रामाणिकत्वापत्त्या वृश्चिकभिया पलायमानस्य विषमाशीविषमुखे निपातः । अथ द्वितीयस्तदा, 'परास्य शक्तिर्विविधैव श्रूयते,' 'स हैतावानास' इत्यादिश्रुतिभिर्ब्रह्मसामर्थ्येनैव विरोधस्य परि- हारे विचारस्य वैफल्यमेवेति युक्त्या वेदार्थः सर्वथा न प्रतिपत्तुं शक्यः, इत्यतो वेदार्थज्ञानायो- पायान्तरमेष्टव्यम् । तदपि श्रुत्यविरुद्धम् । तत्र प्रमाणमाह अत एवेत्यादि । तैत्तिरीये भृगो- र्बोधाभावे वरुणेन 'तपसा ब्रह्म विजिज्ञासस्व' इति, छान्दोग्ये इन्द्रप्रजापतिसंवादे इन्द्रस्यौ- पाधिकबोधे प्रजापतिना, 'वस द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम्'इति साधनान्तरस्य तपस एवोपदेशः रश्मिः। नोपि 'ततः श्रीपुरुषोत्तमात्मकतायां जातायां स्वरूपे भगवान् श्रीगोकुलेशः श्रीकृष्णोयमिति बुद्धिः कर्तव्या, न स्वरूपादिवुद्धिः' इत्याहुः । नैषा तर्केणेति भाष्यं विवृण्वन्ति तथा बहुरिति । एषेति श्रुतिविषयिणीत्यर्थः । अयमर्थः । द्वितीयाध्यायेऽणुकारणवादे वक्ष्यते । काठके इयं श्रुतिः । सा च 'अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् न ह्यतर्क्यमणुप्रमाणात्,' 'नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ' इत्यादिः । अनन्यः आचार्यः । 'अत एव चानन्याधिपतिः' इति सूत्रात् । अन्येन आगमाभिज्ञाचार्येण । 'नाहं किंचित्करोमि' इति वाक्यात् । न अन्यो भिन्नो विद्यते यस्ये- त्यागमाभिज्ञेन । तद्विदमिति । न च तन्त्रेत्यादिना विवृतमित्यर्थ इति । न च ओतुरित्यादिना विवृतमित्यर्थः । आरणे 'अन्धो मणिमविन्दत् तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् । तमजिह्व असंसत्' । 'ऊर्ध्वमूलमवाक् शाखं वृक्षं यो वेद संप्रति । न स जातु जनः श्रद्दध्यात्' इति मृत्युर्मा मारयात्' इति । 'अणोरणीयान्महतो महीयान्' इति वेदान्ते । अविन्दत् ज्ञातवान् । परस्मै- पदात्, लब्धवान्वा विरुद्धधर्माश्रय उक्तः । तमनङ्गुलिरिति 'अपाणिपादो जवनो ग्रहीता' इत्युक्तः। अग्रीव इति । सर्वतो हि शिरोमुखमित्युक्तः । तमजिह्व इति लिह आस्वादने आस्वादक- [L