अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 126, कुल 2600 में से
संदर्भ में पढ़ेंएवोपदेशः । नच तपःशब्देन विचारः । तस्य पूर्वानधिक्यात् तप एव । नचोपा- ख्यानानां मिथ्यात्वम् । तथा सति सर्वत्रैव मिथ्यात्वं भवेत् विशेषाभावात् । भाष्यप्रकाशः । कुत इत्यर्थः । ननु तप संताप इतिवत्, तप आलोचन इत्यादि धातुरिति तन्निष्पन्नोऽयं शब्दो विचारार्थक एव मन्तव्यः । तथा सति श्रुत्यैव विचारस्य प्राप्तिरित्यत आह नच तप इत्यादि । तप एवेति तप एव तपःशब्देनोच्यत इत्यर्थः । अयं भावः । विचारो ह्येकतरबाधेन वा, ब्रह्मणः सामर्थ्यादिप्रदर्शनेन वा साधनीयः । न तु श्रोतरि तेन कोऽपि विशेषः संपाद्यः । तथा सति पठितवेदस्य साधनान्तरश्रवणं विनाऽपि विचारे वेदार्थः स्फुरेद्वेति पूर्वानधिक्यादुपस- दनवैयर्थ्यापत्तिः । गुरुवाक्योत्तरं विचार इत्यङ्गीकारे गुरोः खलत्वापत्तिः । उपसदनोत्तरमपि तस्यैवायासोपदेशेन दयाराहित्यप्राकट्यात् । तपसोऽङ्गीकारे तु तेन शिष्ये विशेषाधानादधिका- रसंपत्तौ साङ्गवेदवाक्येभ्य एव स्फूर्तिर्नच कोऽपि पूर्वोक्तदोष इति तपःशब्दो रूढ एवादर- णीयः । तदेतदुक्तं, तप एवेति । अन्यथा छान्दोग्यविरोधस्यापरिहार इत्यपि बोधयितुं साव- धारणमुक्तम् । ननु सत्यमुपनिषत्सु तप उपदिश्यते, तथाप्युपाख्यानेषु न तु ज्ञानसाधनत्वेन क्वापि पृथग् विधीयते । उपाख्यानानि तु विद्यास्तुत्यर्थमसदपि बोधयन्तीति, न तदनुरोधे निर्बन्धः कार्य इत्यत आह नचोपेत्यादि । तथाच श्वेतकेतूपाख्यानस्थयुक्तीनां त्रिवृत्करणादीनां रश्मिः । प्रपाठके ब्रह्मजिज्ञासुभ्यामिन्द्रविरोचनाभ्यां नोदितः प्रजापतिरुवाच 'साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथाम्' इति । ततश्च तथा कृते 'एष आत्मेति होवाच ततस्तौ शान्तहृदयौ प्रवव्र- जतुः' । तयोरिन्द्रस्तु शरीरालंकारनाशादिना तन्नाशाद्यनुसंधाय, 'नाहमत्र भोग्यं पश्यामि' इति पुनः प्रजापतिमुपजगामेत्यौपाधिकबोधे इत्यर्थः । तस्य विचारस्य श्रोतरि पूर्वापेक्षया विशेषरूपाधिक्या- संपादकत्वात् तपःशब्देनानशनादिरूपं विशेषाधायकं तप एवोच्यते इत्याशयमभिसंधाय विवृ- ण्वन्ति अयं भाव इति । तेनेति विचारेणेत्यर्थः । ननु विचारेणाप्युत्तरोत्तरं प्रतिभारूपो विशेषः संपाद्य एवेति चेत्, तत्राहः तथा सतीति । इति 'पूर्वानधिक्यादिति इति हेतोः पूर्वोप- सदनापेक्षया ब्रह्मोपसदनविषये विशेषरूपाधिक्यासंपাদকत्वात् । विशेषश्चाज्ञादिब्रह्मबोधानुकू- ल्यमेव । ननु विचारेप्येवं वक्तुं शक्यमित्यत आह उपसदनेति । भृगोर्वरुणोपसरणवैयर्थ्या- पत्तिः । विचारेणैव विशेषाधानाद्गुरोरप्रयोजकत्वादित्यर्थः । शिष्ये विशेषाधानादिति । 'अन्नं ब्रह्मेति व्यजानात्, प्राणो ब्रह्मेति व्यजानात्, मनो ब्रह्मेति व्यजानात्, विज्ञानं ब्रह्मेति व्यजानात्, आनन्दो ब्रह्मेति