अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 127, कुल 2600 में से
संदर्भ में पढ़ें४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ न ह्यप्रामाणिकोक्ते विधौ वा उपाख्याने वा ब्रह्मस्वरूपे वा कस्यचिदपि विश्वासो यथा लोके । तस्माद् वेदे अक्षरमात्रस्याप्यसत्यार्थ(ज्ञान)स्याभावाद् वैदिकानां न संदेहोऽपि किं पुनर्विरुद्धार्थकल्पना । विद्यासु च तदश्रुतेः । यदि वेदार्थज्ञाने विचारस्योपयोगः स्यात्, अङ्गत्वेन व्याकरणस्येव विद्यासु श्रवणं स्यात् । स्वातन्त्र्ये च पुराणादेरिव मीमांसाया अपि प्रकारभेदेन प्रतिपादकत्वं स्यात् । 'तं त्वौप- निषदं पुरुषं पृच्छामि'इति तु तेषां निषेधः । अन्यथाज्ञानं नोपनिषदुक्तं फलं समर्पयति । तस्मान्नाऽऽरम्भणीय एव ब्रह्मविचारः । भाष्यप्रकाशः । च मिथ्यात्वं स्यात् । तथाच सर्वो वेद एवोच्छिद्येतेत्यर्थः । तत्र हेतुमाह न हीत्यादि । सिद्धं वदन् श्लोके प्रत्यक्षसंवादमप्याह तस्मादित्यादि । वैदिकानामिति प्राज्ञवैदिकानाम् । प्रकारा- न्तरेणापि विचारानर्थक्यमाह विद्यास्वित्यादि । श्लोकं व्याचष्टे यदीत्यादि । चरणव्यूहे, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षडङ्गान्युक़्त्वा, 'तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते' इत्येवोच्यते । तस्मात् 'साङ्गो वेदोऽध्येयो ज्ञेयश्च' इति विधावपि नाक्षेपो युक्त इत्यर्थः । एवं विधिप्रयुक्तेऽपि विचाराक्षेपस्याशक्यवचनत्वाद् विधिप्रयुक्त्यारम्भणीयत्वं निवारितम् । ननु मास्त्वङ्गमध्यपातस्तथापि पुराणादिवत् स्वातन्त्र्येणैवारम्भणीयः । नचाऽप्रामाणिकत्वम् । प्रतिपद- मनुषदं, छन्दो, भाषा, धर्मो, मीमांसा, न्यायस्तर्क इत्युपाङ्गानीति तत्रैवोपाङ्गेषु पाठात्, स्मृतावपि । 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश' ॥ इति । विद्यासु गणनाचेति चेत्तत्राह स्वातन्त्र्ये चेत्यादि । तस्मादिति वेदार्थज्ञानार्थं ब्रह्म- ज्ञानार्थं चाऽनुपयोगात् । रश्मिः । ना'इति वाक्यात् विचारस्याप्राप्तिः, अभगवत्त्वात् । तथा च तस्य विचारस्य अभगवत्त्वेन पूर्वस्मात्सं- तापात्मकान्नपसो भगवद्रूपादस्यानाधिक्यात्तपःसन्तापात्मकमेव ग्राह्यमिति भाष्यार्थः । आधिक्यं स्वयं प्रकाशाविघटकत्वम् । एकरसत्वं वा एकरसत्वेन पूर्वस्मादनाधिक्यं वा । मुख्यं हेतुमाह अन्यथेति तपसो विचारार्थकत्व इत्यर्थः । अपरिहार इति अपरिहारो मुख्यो हेतुरित्यपि बोधयितुमित्यर्थः । उपाख्यानानीति । एतच्च पूर्वतन्त्रे द्वितीयस्य द्वितीयपादे चिन्तितम् । त्रिवृ- त्करणादीनामिति । 'यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति । अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुः तत्पुरीषं भवति, यो मध्य- मस्तन्मांसम्, योऽणिष्ठस्तन्मनः, आपः पीतास्त्रेधा विधीयन्ते, तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति, यो मध्यमस्तल्लोहितम्, योऽणिष्ठः स प्राणः, तेजोऽशितं त्रेधा विधीयते, तस्य यः स्थविष्ठो धातुस्तदस्थि भवति, यो मध्यमः स मज्जा, योऽणिष्ठः सा वाक्, अन्नमयं हि सौम्य मनः, आपोमयः प्राणः, तेजोमयी वागिति' त्रिवृत्करणश्रुतिः । भाष्ये । असत्येति । न च सर्वरस इति श्रुति- विरोधे रस शब्द इति धातुपाठात् शब्दस्साप्तम्यर्थादिति शङ्क्यम् । क्षराक्षरपुरुषोत्तमभेदेनासत्यार्थ- 40