अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1260, कुल 2600 में से
संदर्भ में पढ़ें८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ९ सू० २०. पटवच्च ॥ १९ ॥ यथा संवेष्टितः पटो न व्यक्तं गृह्यते, विस्तृतस्तु गृह्यते, तथाऽविर्भावाना- विर्भावेन जगतोऽपि ॥ १९ ॥ यथा च प्राणादिः ॥ २० ॥ यथा प्राणापानानां नियमने जीवनमात्रम्, अनियमने आकुञ्चनादि । नैतावता प्राणभेदः । पूर्वमसत्त्वं वा । तथा जगतोऽपि । ज्ञानक्रियाभेदात् सूत्रद्वयम् ॥ २० ॥ इति द्वितीयाध्याये प्रथमपादे नवममसद्व्यपदेशाधिकरणम् ॥ ९ ॥ भाष्यप्रकाशः । पटवच्च ॥ १९ ॥ ननु कारणे कार्यसत्ता तदा वक्तुं शक्या यदि कथंचिदपि कार्यं प्रतीयेत । अन्यथा तु कारणमेव स्यान्न कार्यमित्यत आह पटवदिति । तद् व्याकुर्वन्ति यथेत्यादि । आविर्भावानाविर्भावेनेति । सर्वोऽपि द्वन्द्वो विभाषैकवद्भवतीत्येकवद्भावः । तथा चाग्रहणेऽपि यथा पटसत्ता तथा कार्यसत्तापीत्यदर्शनं न कार्याऽसत्तासाधकमित्यर्थः ॥१९॥ यथा च प्राणादिः ॥ २० ॥ ननु कार्यसत्त्वे तेनार्थक्रिया तु काचित् क्रियेत । यथा अदृश्येनापि भूतेन परदुःखोत्पादनम् । अत्र तु तदभावात् कथं तत्सत्तेत्यत इदं सूत्रं प्रवृत्तम् । तद् व्याकुर्वन्ति यथा प्राणेत्यादि । अवतारणिकाया अनुक्तत्वात् सूत्रप्रयोजनं स्फुटीकुर्वन्ति ज्ञानेत्यादि । तन्मयैतत्सूत्रद्वयावतारणिकायां विवृतमेव । एवमनेनाधिकरणेन सत्कार्यवादे श्रुते- रश्मिः । द्धेत्वन्तरे व्याख्यानं कृत इति वाच्यम् । वाक्यशेषादित्यत्र वाक्यस्यासदेवेत्यस्य धर्मान्तरात्मकत्वादघटितस्य शेष इत्यर्थे आत्मानमित्यस्याव्याकृतत्वेन हेत्वन्तरेण व्याख्यानात् । शंकररामानुजभास्कराचार्याः शब्दान्तरम्, असतः सदिति चक्रुः । तत्तु 'असद्दिति चेन्न' इति सूत्रविषयम् । माध्वास्तु तम आसी- दिति पूर्वमुक्त्वा ऐश्वर्यद्वारा सृष्टिं युक्त्या नाम, 'साधनानां साधनत्वं यदात्माधीनमिष्यते, तदा साधनसंपत्तिरैश्वर्यद्योतिका भवेत्' इत्यादेः साधनान्तरेण सृष्टिर्युक्तेत्याहुः । अम्ब्वारा शब्दान्तराच्चेत्यत्र 'अद्भ्यः संभूतो हिरण्यगर्भ इत्यग्रौ' इति श्रुतौ शब्दान्तराच्चेत्याहुः । तमोऽपामवान्तरप्रलयविषयत्वं समाकर्षो वेत्यन्यदेतत् । ऐश्वर्यद्वारा सृष्टिनिर्बन्धे 'कचिदन्यथा' इत्युक्तेति स्पष्टा ॥ १८ ॥ पटवच्च ॥ १९ ॥ वाक्यशेषसाव्याकृतत्वप्रयोजकत्वाक्षेपेण समाधायकं भाष्यमित्याशयेनाव- तारयन्ति ननु कारण इति । तथा चाव्याकृतत्वं न जीव इति । वाक्यस्य शेषत्वं नेति भावः । इत्यर्थ इति । तथा च सत्तात्मकाव्याकृतत्वसत्त्वान्नाव्याकृतत्वप्रयोजकत्वाभाव इति भावः ॥ १९ ॥ यथा च प्राणादिः ॥ २० ॥ पुनः प्रकारान्तरेणाव्याकृतत्वाक्षेपेण समाधायकं भाष्यमित्या- शयेनावतारयन्ति ननु कार्येति । तथा चाव्याकृतत्वं न जीव इति वाक्यस्य शेषत्वं नेति भावः । यथा प्राणेत्यादीति भाष्ये नियमन इति । प्राणापानादिवायुर्थ्या नाभिनासिकादिस्थानेषु प्राणा- यामेन निरुद्धः रन्ध्ररूपेण खकारणकाशाकार्यरूपेण वर्तते खकारणे लयात् । तस्मिन्सति जीवनमात्रं 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ' इति श्रुतेः । लोक 1154