अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1259, कुल 2600 में से
संदर्भ में पढ़ेंशब्दान्तरं सच्छब्दादात्मशब्दः । 'आत्मानँ स्वयमकुरुत' इति ॥ १८ ॥ भाष्यप्रकाशः। अत्र सर्वदा वर्तमानत्वमेवोद्भूतं तिष्ठत्विति नियमात् । यत्र च नायं नियमो यथा गीतायां, 'केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः' इति, श्रीभागवते च, 'मयेमा रंस्यथ क्षपाः' इति, तस्य तस्य तेषु तेषु तत्तद्धर्मानुभवादप्यविरोधेनेति न कोऽपि क्वापि दोषोऽप्रामा- णिकत्वं वा । इदं यथा तथा विद्वन्मण्डने प्रभुचरणैर्निपुणतयोपपादितं मया च तद्विवृत- मिति ततोऽवगन्तव्यम् । एवं च सर्वस्य ब्रह्मकार्यत्वेऽपि इदं नित्यत्वेन लोके व्यवह्रियतामिद- मनित्यत्वेनेति तदिच्छयैव विभागोऽपि बोध्यः । तथा साधुत्वासाधुत्वादिव्यवहारोऽपि । प्रजायेयेतीच्छाशरीरे प्रविष्टस्य प्रकर्षख्यातितिपिण्डिलत्वेन सर्वसमाधानसमर्थत्वात् । एवमन्या