अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1258, कुल 2600 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the text in Markdown:
८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ९ सू० १८. भाष्यप्रकाशः। घटार्थेन कारकव्यापारेण करकादेरप्यभिव्यक्तिप्रसङ्ग इत्यसत्कार्यवादिन आक्षेपे, उत्पत्तेरपि नित्यत्वे सदैवोत्पद्यमानतया सत्कार्यवादप्रसङ्गादसत्कार्यसिद्धान्तहानिरनित्यत्वे चानवस्थेति तं प्रति दोषं प्रदर्श्योत्पत्तिविनाशादीनां कारणावस्थाविशेषत्वमुपगम्य तत्तदवस्थस्यैव द्रव्यस्य ते ते शब्दास्तानि तानि कार्याणीति द्रव्यस्य तत्तदवस्थापादनेन कारकव्यापारस्य सार्थक्यमाहुः । परमेता युक्तयः प्रतिबन्दित्वादनुत्तरभूता एव । अवस्थास्वपि नित्यानित्यविकल्पस्य शक्य- क्रियत्वात् । अतः श्रुतिरेव शरणीकरणीया । अत एव व्यासचरणैरपि, शब्दान्तरादिति हेतु- रेतत्सम्भव्याहारेणोक्तः । एतावान् परं विशेषः । असत्कार्यवादिनों कार्यस्य नियतावधिक- [L