भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1257, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1257

[भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८३]

नित्यत्वाच्च कारणान्तरेणापि परंपरया संबन्धः । असंबद्धोत्पत्तौ तु मिथ्या- त्वमेव । प्रवृत्तिस्त्वभिव्यक्त्यर्थमिति ।

भाष्यप्रकाशः ।

अथ यथान्येषां सत्तासंबन्धात् सत्त्वम् । सत्ता तु सत एव सती । तथाऽन्येषां कार्याणां समवायेन संबन्धित्वम् । समवायस्तु स्वत एव संबन्धित्वमिति विभाव्यते, तदा स नित्य इति तस्यापि साधारण्यापत्त्या सर्वतः सर्वोत्पत्तिप्रसङ्गः । किंच । निमित्तासमवायिनोरपि तस्य सत्त्वात् तत्समवेतत्वेनापि घटाद्युत्पत्तिप्रसङ्गः । अथ विद्यमानेऽपि निमित्तासमवायिनोः समवाये तदसंबद्धमेवोत्पद्यत इत्युच्यते, तर्हि समवायिनाप्यसंबद्ध एवोत्पद्यताम् । नियामकाभा- वात् । ततश्च मिथ्यात्वमेव कार्यस्यापद्येत । शुक्तिकारजतवत् । नियामकाङ्गीकारे तु कार्या- तिरिक्तस्य नियामकत्वा

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1257, कुल 2600 में से · BharatKosha