अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1269, कुल 2600 में से
संदर्भ में पढ़ेंप्यात्मन्येव साधिकरणस्य सृष्टत्वाच्च । बहिरन्तश्च जगत्सृष्टिं वा आह विशेषा- भावेन, 'अनन्तरोऽबाह्य' इति । विरोधाभावो विचित्रशक्तियुक्तत्वात् सर्वभव- नसमर्थत्वाच्च ॥ २८ ॥ भाष्यप्रकाशः । हन्मन्मनुपालये' इति दशमस्कन्धे व्रजभक्तान् प्रति भगवतः संदेशवाक्ये स्फुटम् । द्वितीय- स्कन्धे च, 'स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । आत्मन्येवात्मनाऽऽत्मानं संयच्छति च पाति च' इति ब्रह्मवाक्ये । श्रुतौ च, 'नासदासीन्नो सदासीत्' इत्यादिषु अग्रेतरनिषेधाच्च । तदानीमिति कालोक्तिस्तु बोधनार्थेति प्रागेवोक्तम् । अतो न जगत्सृष्टौ ब्रह्मणो देशकाला- पेक्षेत्यपि शब्दादेव सिध्यतीत्यर्थः । भाष्ये तु सृष्टाविति फक्किकाया एव विवरणं देशा- कालेत्यादि । प्रथमं चकारमप्यर्थमङ्गीकृत्य पक्षान्तरमाहुः बहिरित्यादि । विशे