अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1268, कुल 2600 में से
संदर्भ में पढ़ें९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ११ सू० २८. आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥ सृष्टौ देशकालापेक्षापि नास्ति । आत्मन्येव सृष्टत्वात् । देशकालसृष्टाव- भाष्यप्रकाशः । इति युक्तम् । परिणामबोधकश्रुतावपि, 'तदात्मानं स्वयमकुरुत' इत्युपक्रम्य, 'रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति', 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति' इति फलवाक्ये, एतस्मिन्निति पदेन तस्यैव परामृष्टत्वात् । अनिरुक्त- पदेन तस्यैव विरुद्धधर्माधारत्वबोधनाच्च । उपनिषदुपक्रमेऽपि परमाप्तिरूपफलबोधनाद् ऋचि तद्विवरणाच्च । तदभिमताविद्यायाः सदसदादिविकल्पेन साधनादिविकल्पेन च सर्वैरेव दूषि- तत्वाच्च । अत एव न द्वितीयः । बुद्धिकौशलस्याविद्यायामेव पर्यवसानात् । नाद्यः । लौकि- कानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते इत्यादिना, तस्माच्छन्दमूल एवातीन्द्रिययाथार्थ्यावगम इत्यन्तेन स्वयमेवासाञ्जस्या- दर्शनस्य व्याख्यातत्वात् । अतो द्वितीयव्याख्यानस्य सर्वप्रमाणसर्वसन्मार्गसंप्लव एव फल- मतस्तथेत्यर्थः ॥ २७ ॥ आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥ ननु श्रुतौ केवलस्य ब्रह्मणः कारणता निरू- पिता तथापि देशकालौ त्वधिकरणतया आवश्यकावित्याशङ्कामपि श्रुतिमेवालम्ब्य परिहरति आत्मनीति । तद् व्याकुर्वन्ति सृष्टावित्यादि । सूत्रे प्रथमश्चकारोऽवधारणार्थो द्वितीयोऽ- प्यर्थः । एवंपदार्थस्तु सृष्टत्वादिति । आत्मनि सृष्टत्वं च, 'आत्मन्येवात्मानमात्मानं सृजे रश्मिः । परिणामबोधकश्रुतावपीति । फलवाक्य इति फलस्य वाक्ये । प्रतिपाद्यप्रतिपादकभावसंबन्धे षष्ठी । तस्यैवेति ब्रह्मणः स्वात्मकजगदुपादानस्य । तदात्मानमिति श्रुतेः । पूर्वमेवत्वादित्येवकारः । अयमन्यो भवतु सगुण इति चेत्तत्राहुः अनिरुक्तेति । तस्यैवेति पूर्वोक्तस्य निरुक्तस्य । अभयं यथा भवति तथा प्रतिष्ठां भक्तिं लभते । अभयातिरिक्तपरप्राप्तेर्मोक्षत्वं स्वमते उपपादितमिति तदाहुः उपनिषदिति । ब्रह्मवित्पाठोपक्रमे 'ब्रह्मविदाप्नोति परम्' इत्यत्र । सर्वैरिति भास्कराचार्यैस्तद- नन्यत्वसूत्रेऽन्यैश्चान्यत्रापि । अत एवेति अविद्याया दूषितत्वादेव । अविद्यायामिति सूत्रासङ्गि- कल्पनस्य कृत्रिमत्वादविद्यायाम् । गीतायां त्रयोदशेऽध्याये 'अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः' इति ज्ञानलक्षण आचार्योपासनादेरुक्तत्वात्तद्विरुद्धसंपदो- विद्यात्वादित्येवकारः । इत्यादिनेति । ता अपि तावतोपदेशमन्तरेण केवलतर्केणावगन्तुं न शक्यन्ते । अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति । किमुताचिन्त्यशक्तिप्रभावस्य ब्रह्मणो रूपं विना शब्देन न रूप्येत । तथा चाहुः पौराणिकाः । 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्' । इतीत्यादिशब्दार्थः । एवेति कृत्रिमत्वादेवकारः । त्येति उपेक्ष्यस्तेन ॥ २७ ॥ आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥ श्रुतिमेवेति 'यदा ह्येवैष एतस्मिन्नदृश्येऽ- नात्म्येऽनिरुक्ते' इति श्रुतिम् । वक्ष्यमाणोपबृंहणसत्त्वादेवकारः । परिहरतीति सूत्रकारः परिहरति । वक्ष्यमाणवाक्ये सावधारणस्मरणादाहुः सूत्रे प्रथम इति । विचित्रपदलभ्यार्थं बोधयितुमाहुः द्वितीय इति । सृष्टत्वादितीति । तदेतदुक्तमात्मन्येव सृष्टत्वादिति भाष्येण । सूत्रे 1162