अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1267, कुल 2600 में से
संदर्भ में पढ़ेंभावा न तांस्तर्केण योजयेत्' अर्वाचीनविकल्पवितर्कविचारकुतर्कप्रमाणाभास- शास्त्राकलितान्तःकरणदुरवग्रहवादिनां वादानवसरे सर्वभवनसमर्थे ब्रह्मणि विरोधाभावाच्च' । एवं परिहृतेऽपि दोषे स्वमत्याऽनुपपत्तिमुद्भाव्य सर्वसंप्लवं वदन् मन्दमतिः सद्भिरुपेक्ष्यः ॥ २७ ॥ भाष्यप्रकाशः । केनचिन्न ततः सावयवं स्यात् । न च षोडशिग्रहणाग्रहणवद् विकल्पोऽत्राश्रयितुं शक्यते । अक्रियारूपत्वेनापुरुषतन्त्रत्वादतो दुर्घटमेतदित्याशङ्क्य, अविद्याकल्पितरूपभेदाभ्युपगमात् सुघटः परिहारः । न ह्यविद्याकल्पितरूपभेदेन वस्तुतः सावयवत्वं भवति । न हि तिमिरोपहतनयनेन अनेक इव चन्द्रमा दृश्यमानोऽनेक एव भवतीति रूपभेदस्याविद्यकत्वान्निरवयवत्वशब्द- कोपः । न च परिणामश्रुतिः परिणामप्रतिपादनार्था । तत्प्रतिपत्त