अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1266, कुल 2600 में से
संदर्भ में पढ़ें९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ११ सू० २७. श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ तुशब्दः पक्षं व्यावर्तयति । श्रुतेः श्रूयत एव द्वयमपि । न च श्रुतं युक्त्या बाधनीयम् । शब्दमूलत्वात् । शब्दैकसमधिगम्यत्वात् । 'अचिन्त्याः खलु ये भाष्यप्रकाशः। परिहरति । श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ अत्र प्रथमसूत्रे प्रतिवादिनोः संभूय समुत्था- नेनाक्षेपः । द्वितीये तूभयोः प्रति साधारण्येन समाधानम् । शुष्कतर्काप्रतिष्ठानस्य प्रागेवोप- पादितत्वात् ताभ्यामप्यनुकूलतर्कविधया स्वतन्त्रप्रमाणत्वेन च श्रुतेराश्रयणादिति । तथा च श्रुतिमालम्ब्यापि तदर्थमजानन्तौ द्वावपि भ्रान्तावित्यर्थः । भाष्यं तु निगदव्याख्यातम् । 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्ष- णम्' इति संपूर्णवाक्यम् । अत्र मात्स्ये क्वचित्, 'तांस्तर्केण प्रसाधयेत्' इति पाठः । तथा सति मात्स्ये तर्काभ्यनुज्ञानाद् भ्रमः स्यादिति तन्निवारणाय श्रीभागवतवाक्योपन्यासः । तेन मात्स्यवाक्ये प्रकृतिभ्य इति बहुत्वनिर्देशात् पुरुषपर्यन्त एव तद्विषयो न तु ब्रह्मपर्यन्तो विषय इत्यदोषः । अत्र शंकराचार्याः पूर्वमेवमेव श्रुतिबलाद् विरुद्धधर्माश्रयत्वेन परिहारं व्याख्याय पुन- रपि, ननु शब्देनापि विरुद्धोऽर्थो न प्रत्याययितुं शक्यते, निरवयवं ब्रह्म परिणमति, कृत्स्नं च न परिणमतीति । निरवयवत्वे सर्वं परिणमेन्न परिणमेद्वा । यदि केनचिद्रूपेण परिणमेत् रश्मिः। श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ ननु किं कृत आक्षेपो यो दूष्यते तत्राहुः अत्र प्रथमेति । प्रतिवादिनोः सांख्यगौतमयोः । संभूयेति मिलित्वा । आक्षेप इति । ननु पूर्वसूत्रे सांख्यान्प्रत्यौलूकान्प्रति चोत्तरमित्युक्तमिति चेन्न । उत्तरमित्यस्याक्षेप इत्यर्थात् । यद्वा । यथासंख्यं वेत्यन्तो ग्रन्थः पूर्वसूत्रे सांख्यान्प्रत्यौलूकान्प्रति चोत्तरं वक्तुं पूर्वपक्षमाहेति सशेषा योजना । एतदेवाहुः द्वितीये स्त्विति प्रकृतसूत्रे तु । ननु तर्कोपजीविनौ तौ कथं श्रुतिसमाधानं मन्येते इत्यत आहुः शुष्केति । प्रागेव तर्काप्रतिष्ठानसूत्र एव । ताभ्यां प्रतिवादिभ्याम् आश्रयणादिति यथाहुः 'असङ्गादिश्रुतिविरोधश्चेति' । 'प्रधानाज्जगज्जायते' इति सूत्रे तयोः सांख्यैराश्रयणात् । नैयायिकैस्तु । 'आनन्दं ब्रह्म' इति श्रुतावर्श आद्यचं स्वीकृत्यानन्दवत्वमात्मनो नानन्दत्वमित्युक्तम् । भेदवादे च 'नानेव पश्यति' इत्यत्र नाना इव पश्यति तस्य मृत्युर्भवति । इति श्रुतेराश्रयणात् । निगदेति । द्वयविषयकश्रुतेरित्याशयेनाहुः श्रूयत इति । द्वयं विरुद्धधर्माश्रयत्वात्कृत्स्नप्रसक्तिरकत्स्नप्रसक्तिः निरवयवत्वं सावयवत्वम् । तदात्मानमिति निष्कलं निष्क्रियमिति, कर्तृत्वमकर्तृत्वं च श्रुतेरित्याद्यनुवादः । श्रुतमिति । शब्देति । शब्दो मूलं प्रतिपादने कारणं यस्य ब्रह्मणः । शब्दैकैत्यत्रैकशब्दो मुख्यार्थकः । 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुतेः । समधिगम्यमानन्दरूपमपि अधिकं गन्तुं शब्दैर्ज्ञातुं योग्यं तत्त्वात् । एवं निगदव्याख्यातप्रायम् । अचिन्त्या इत्यादिभाष्यं विवृण्वन्ति स्म अचिन्त्या इति । तथा सतीति पाठान्तरत्वे सति । तद्विषया इति तर्कस्य विषयस्तर्कनिवर्तनीयश्च इत्यर्थः । अदोष इति युक्त्या श्रुतिविप्रतिषेधपरिहारे युक्तिबोधकवाक्येन युक्त्यप्रतिपादनलक्षणो 1160