भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1274, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1274

१०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० १२ सू० ३५ नाप्येतद्युक्तम् । वस्तुतस्त्वात्मसृष्टेर्वैषम्यनैर्घृण्यसंभावनैव नास्ति । वृष्टिवद् भगवान्, बीजवत् कर्म । श्रुतिरेव तथा दर्शयति । 'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति । एष उ एवासाधु कर्म कारयति तं यमधो निनीषति' । 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन कर्मणा' इति च । सापेक्षमपि कुर्वन्नीश्वर इति माहात्म्यम् ॥ ३४ ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥ न कर्म विभागात् कार्योद्गमात् पूर्वं संभवति, पश्चाच्चान्योन्याश्रय इति- भाष्यप्रकाशः । वादिभिर्बहुशो लोकानुसारेणैव चोद्यते । अतो नात्र कोऽपि शङ्कालेश इत्यर्थः । बहु स्यामिति श्रुत्यर्थमनुरुध्य सिद्धान्तरीत्या समाधिमाहुः वस्तुत इत्यादि । किंच । जीवसुखदुःखयोर्ब्रह्मणः साधारणकारणतैव श्रुत्यभिप्रेता, न त्वसाधारणातोऽपि न दोषगन्ध इत्याहुः वृष्ट्यादि । ननु श्रुत्यैव समाधानसंभवे पुनरुदरमर्दनेन शूलोत्थापनवदाशङ्कोत्थापनस्य किं प्रयोजनम् । प्रक्षा- लनपङ्कन्यायेनैतदनुल्लेखस्यैव युक्तत्वादित्यत आहुः सापेक्षमित्यादि । तथा च माहात्म्यबोधन- मेव प्रयोजनमित्यर्थः ॥ ३४ ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥ कर्मसापेक्षत्वमत्राक्षिप्य साध्यते तद् व्याकुर्वन्ति न, कर्मेत्यादि । यदुक्तमीश्वरो जीवकर्मसापेक्ष इति न वैषम्यादिदोषसं- बन्धस्तत्रेति तदयुक्तम् । सृष्ट्यादौ, 'सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्' इति ब्रह्मेतर- निषेधेन तदानीं, 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा' इति श्रुत्युक्तस्य कार्योद्गमरूपस्य विभागस्या- रश्मिः । क्षत्वं हेतुः संपद्यते तं करोति । 'कृभ्वस्तियोगे संपद्यकर्तरि च्विः' । च्वौ चेति दीर्घः । हेतुस्तु स्वाङ्ग- त्वम् । सापेक्षत्वं त्वहेतुः । अन्यस्य ह्यन्यसापेक्ष्यम् । आत्मसृष्टौ तु कथमेवं स्यात् । तेनेति सिद्धान्ता- र्थेऽहेतोर्हेतुकरणेन । बहुश इति बहु हेत्वादिकं ददातीति बहुशः । शङ्कालेश इति वस्तुत- स्त्वित्यादिभाष्ये यथा केशप्रसाधननखनिकृन्तनादि कुर्वाणोपि न वैषम्यनैर्घृण्यभाग् भवतीति दृष्टान्तस्याप्युन्नेयत्वान्न शङ्कालेशः । साधारणेति साधारणं किंचिद्द्वारकत्वम् । वृष्टीत्यादीति । पृथिवीयोनिः श्रुतावनुक्तत्वान्न भाष्ये तदुक्तिः । 'योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः' इति श्रुतेः । वृष्टिवत् प्रथमान्ताद्वतिः यथा वृष्टिरनेकव्रीह्यादिबीजाश्रया तथा भगवाननेकविधिकर्माश्रयः । 'विष्णोः कर्माणि पश्यत' इति श्रुतेः । बीजवत् प्रथमान्ताद्वतिः यथा बीजमङ्कुराद्यनेकप्ररोहस्थानम् । तथा कर्मणां प्ररोहैकस्वभावत्वादनेकदेहस्थानम् । एष इति । एषः वृष्टिवद्भगवान्बीजवत्कर्म तदाश्रयः । धर्मिणं विना कर्मरूपधर्मासिद्धेः । पुण्य इति देहः । पाप इत्यपि । तथा चेति आत्मसृष्टावपि सापेक्षत्वेन विरुद्धधर्माश्रयत्वे प्रकारे सति । प्रयोजनमिति । न च लीलया एव प्रयोजनत्वादिति भाष्यविरोधः । माहात्म्यबोधनस्यापि लीलात्वात् ॥ ३४ ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥ कार्योद्गमेति विभक्तत्वप्रत्यया- साधारणकारणत्वात्कार्योद्गमस्य । विभागस्याभावादिति । ननु भाष्ये विभागत्वावच्छिन्नप्रतियो- 1168