अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1275, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति सटीक प्रतिलेखन (transcription) है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०१ चेन्न । अनादित्वात्, बीजाङ्कुरवत् प्रवाहस्यानादित्वात् ॥ ३५ ॥ उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ कथमनादित्वमिति चेद्, उपपद्यते । अन्यथा कस्य संसारः । कृतहान्यकृ- भाष्यप्रकाशः। भावात् ततः पूर्वं जीवाभावेन तच्छरीरसाध्यं कर्म पूर्वं न संभवति । येन वैषम्यादि समाधीयेत । अथ विभागोत्तरभाविना कर्मणा समाधानम् । तदप्ययुक्तम् । कर्मणः शरी- रसाध्यत्वेन शरीरसंबन्धस्य च कर्मसाध्यत्वेनान्योन्याश्रयादित्येवं सूत्रांशेनाशङ्क्य तत् समा- धत्ते नानादित्वादिति । स्यादन्योन्याश्रयो यदि शरीरकर्मव्यक्ती द्वे एव स्याताम् । तत्तु नास्ति । बीजाङ्कुरवच्छरीर्कर्मप्रवाहस्यानादित्वात् । अतो विभागोत्तरं सापेक्षत्वात् सुघटः समाधिरित्यर्थः ॥ ३५ ॥ उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ नन्वयं समाधिरसमाधिरेव । सृष्टेः पूर्वं विभागाभावेन प्रवाहानादित्वस्य वक्तुमशक्यत्वादित्याशङ्कायामिदं सूत्रं प्रवृत्त इति स्फुटीकुर्वन्तो व्याचक्षते कथमित्यादि । सूत्रे अपिः पूर्वपक्षिगर्हायाम् । स्वयं यौक्तिकः सन् युक्तिं विस्मरतीति युक्तिमाहुः अन्यथेत्यादि । अन्यथेति यदि जीवोऽनादिर्न स्यात् । प्रथमश्चोऽवधारणार्थो द्वितीय उक्तसमुच्चयार्थः । स्मृतिस्तु तृतीयस्कन्धनवमाध्यायस्था । तथा च प्रलयनैकट्यदशायां सदसत्कर्मकरणोत्तरं प्रलये जाते जीवानां ब्रह्मरूपत्वात् तदानीं कर्मफलभोगाभावात् कृतहानिः । रश्मिः। गिकाभावाऽप्रसिद्धिरिति चेन्न । पूर्वमिति भाष्यीयपदेन नञर्थकथनाद् अविभागदशायाम् । न च पूर्व- स्मिन्निति प्रयोगापत्तिः । पूर्वं यथा भवति तथा संभवतीति क्रियाविशेषणत्वेऽकर्मत्वान्न सप्तमी किंतु द्वितीयेति । तदेवाहुः ततः पूर्वमित्यादि विभागात् पूर्वमविभागदशायामित्यविभागनञर्थस्थाने पूर्वमिति । न संभवतीति नञ् । न कर्मेति अत्रत्यम् । तथा च कर्म न कर्माभावः । अन्वयस्तु यदुक्त- मीश्वर इत्यादिश्लोक एव, विभागादित्यु转变ते । विभागात्पूर्वमविभागदशायां संभवतीत्यर्थः । तेन पूर्व- मित्यस्य क्रियाविशेषणत्वहानिः । येनेति कर्मणा । पश्चास्त्वित्यादिभाष्यं विवृण्वन्ति अथेति समाधानमित्यन्तम् । पश्चाद्विभागदशायामन्योन्याश्रय इति भाष्यमवतारयन्ति तदपीति । बीजाङ्कुरेति बीजादङ्कुरमङ्कुराद्वीजं नूतनतर्वादौ दृष्टम् । अत इति प्रलयेपि कर्मणः सत्त्वेन सार्ववि- भक्तिकस्तसिः । चिकीर्षाधीनस्र्वात्सकलशक्तीनामन्योन्याश्रयपरिहारः सुघट इत्याहुः सुघट इति । वेदस्य पूर्वशास्त्रत्वेपि वेदान्तत्वात् 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति श्रुत्यानुकल्पेनो- क्तम् । पूर्वमीमांसायां 'यदेव विद्यया करोति' इति छान्दोग्यानुकूल्यम् ॥ ३५ ॥ उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ व्याससूत्रविरोधे जैमिन्युक्तप्रवाहानादित्व- बाध इत्यनादित्वं न समाधिरित्याहुः नन्वयमिति । विभागाभावेनेति । तथाच व्याससूत्रं 'स्वाप्ययात्' इति । अप्युपपद्यते चोपलभ्यते चेत्यन्वयं मत्वाहुः सूत्र इति । तथा च कथमित्यादि भाष्यमपिशब्दार्थः । युक्तिमिति पूर्वपक्षे विस्मृतां युक्तिम् । जीवोनादिरिति । जीवाणुत्ववादेऽणुत्वं वास्तविकं न त्वौपाधिकमित्युक्तेः । तेन व्याससूत्रविरोधः परिहृतः । प्रवाहस्य जीवमात्रपरिनिष्ठत्वेन न जैमिन्युक्तप्रवाहानादित्वम् । तस्य पूर्वमीमांसाविषयत्वात् । अवधारणार्थ इति । अन्यथा कस्येति 1169