अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1281, कुल 2600 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः। श्रीगोपीजनवल्लभाय नमः। श्रीमदाचार्यचरणकमलेभ्यो नमः। श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ द्वितीयोऽध्यायः । द्वितीयः पादः रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥ (२-२-१) स्वतन्त्रतया सर्वे वादा निराक्रियन्तेऽस्मिन् पादे । भाष्यप्रकाशः। रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥ प्रथमे पादे सांख्यं निराकृत्य तन्निराकरण- प्रसङ्गे, ‘एतेन शिष्टापरिग्रहा अपि व्याख्याताः' इति सूत्रेण शिष्टापरिग्रहरूपं दोषं प्रदर्श्य अन्ये च वादा निराकृताः । तथापि केषांचन मन्दमतीनां तदुक्तयुक्तिष्वाभासतामानाभावे भद्धो- त्पत्तौ स्वार्थविभ्रंशः स्यात् स मा भूदिति करुणया तदुक्तयुक्तीराभासीकर्तुं द्वितीयः पाद आरभ्यते इति पूर्व पादार्थनिरूपणे सूचितं तदत्र स्मारयन्ति स्वतन्त्रतयेत्यादि । तत्र प्रथमे पाद उपपादितः सत्कार्यवादः परिणामवादश्च सांख्यवादे सिद्धान्ते च तुल्य इति सांख्ये श्रद्धा शीघ्रमास्तिकस्योत्पद्येतेति तन्निरासाय प्रथमं तदेव निराक्रियते दशभिः सूत्रैः । तेषां चैवं मतम्- रश्मिः । रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥ शास्त्रस्यानुरोधेन प्राप्तं वेदाङ्गत्वं पूर्वपादे निराकृतं तत्प्रसङ्गसंगत्या स्मृतं स्वातन्त्र्यं तेन रूपेण शास्त्रनिराकरणमस्मिन् पाद इत्याहुः प्रथमे पाद इति । श्रद्धोत्पत्ताविति । तत्तच्छास्त्रस्य वेदानुपबृंहकत्वे सामान्यतः शिष्टापरिग्रहा उक्ताः, अधुना तु स्वतन्त्रत्वेन लोकफलाङ्गत्वरूपेण ये सर्वे वादास्ते निराक्रियन्ते । सूचितमिति पूर्वपादाद्यसूत्रे ‘ततो द्वितीये पादे' इत्यादिना 'वेदबाधकत्वाभावेपि' इतरमतैः पुरुषार्थः स्वतन्त्रः सिद्ध्येद्भ्रान्त्येत्यन्यमतं निराक- रोति द्वितीयपाद इत्युक्तम्, तत्र निराकरणकर्तु निराकरोतेर्व्याख्योर्थः, युक्त्याभासीकरणं तु व्यञ्जनया बोधितमिति सूचितम् । सांख्ये श्रद्धेति सहजकर्मणां सांख्यानामपरित्यागो भवति 'सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्' इति गीतावाक्यात् । तत्राप्येतन्मतीयपदार्थतौल्यमिति श्रद्धा शीघ्रं तन्मतास्तिकस्योत्पद्येत । तदेव सांख्यमेव । एवकारेण शास्त्रान्तरव्यवच्छेदः । सूत्रैरिति षडधि- करण्या । विषयादिकं तु षडधिकरण्य अन्ते वक्ष्यन्ति । विषयः 'यतो वा इमानि' इत्येवमादीनि सामान्य- कारणवाचकयच्छब्दघटितानि । अत्र यच्छब्दार्थों ब्रह्म जगदुपादानं सगुणं वेति संशयः । स्वमत- शंकरादिमतविरोधः संशयबीजम् । सगुणमुपादानं निष्कलादिश्रुतेरिति शुद्धं ब्रह्म नेति पूर्वपक्षे, ब्रह्मैवोपादानं सर्वसमयानामयुक्तत्वात् इति सिद्धान्तः । प्रसङ्गान्तर्गतसामान्यविशेषभावः संगतिः ।