अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1282, कुल 2600 में से
संदर्भ में पढ़ें२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० १ सू० १ भाष्यप्रकाशः। 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः' इति । रश्मिः। अनुमीयते कारणत्वेन यत् प्रकृतिस्तदनुमानं कर्मप्रत्ययान्तम् । ननु कर्मप्रत्ययमङ्गीकृत्य प्रकृति- कारणवादाङ्गीकारापेक्षयानुमानं प्रसिद्धमेव कुतो न गृह्यत इति चेन्न । कर्मप्रत्ययस्तु व्याकरणसिद्ध इति न पर्यनुयोगार्ह इति । प्रसिद्धानुमानस्य शिष्टापरिग्रहेणाव्याख्यानात् । न च 'लोके शब्दार्थसम्बन्धो रूपं तेषां च यादृशम् । न विवादस्तत्र कार्यो लोकोच्छित्तिस्तथा भवेत्'इत्यनुमानं नैयायिकादिमत- सिद्धं ग्राह्यमिति वाच्यम् । तैर्दूषणार्थमेव क्वचिन्नैयायिकादिमतसिद्धपदार्थानुवादात् । योगादरस्य सूत्र आवश्यकत्वात् । नैयायिकादीनामनुमानशब्दस्य योगरूढत्वात् । ननु 'निर्गुणादिश्रुतिविरोधश्च' इति वदतः सांख्यस्य तु योग एवेति चेन्न । श्रुतिविरोधं ददतोपि 'प्रत्यक्षानुमानागमाः प्रमाणानि' इत्यनुमानशब्दघटितसूत्रणात् । अस्माभिस्तु योगमात्रादरं 'सर्वं सर्वमयम्' 'सर्वे सर्वार्थवाचकाः' इति वाक्यसहायकतर्कैः रूढिस्थाने सर्वत्र प्रायोयोगपरिहाराय शक्तिसङ्कोचलक्षणा रूढिः । अन्यथा सखण्ड- ब्रह्मज्ञानाय विचारो न स्यात् । ननु नानुमानमिति नैतदर्थकमपि तु प्रत्यक्षमात्रैकप्रमाणसाधनपरम् । यथावत्प्रत्यक्षानुमानयोः प्रामाण्यं तर्कसिद्धं तत्राह रचनानुपपत्तेरनुमानं न, अर्थात्प्रमाणं न । तदुक्तं 'वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं तच्चतुष्टयम्' इति । नन्वेतच्चतुष्टयमपि शब्दात्मकमिति न प्रमाणमिति चेन्न । आर्षादिना प्रत्यक्षमूलत्वेन प्रामाण्यस्य प्रत्यक्षपर्यवसितत्वात् । न चैवमाचार्यानभिमतमनभिप्रेतं कुतो ब्रूष इति शङ्क्यम् । अस्मन्मते संदेहा उपनिषद्विचारेण परिहरणीया इत्याज्ञायाः । उपनिषत्तु बृहदारण्यकं तत्र 'चक्षुर्हि वै सत्यम्' इत्यु- क्त्वा 'तस्माद्यदिदानी द्वौ विवदमानावेयातामहमद्राक्षमहमश्रौषमिति य एवं ब्रूयादहमद्राक्षमिति तस्मा एव श्रद्दध्यामः' इत्यत्र शब्दापेक्षया प्रत्यक्षप्रामाण्योररीकारात् । ननु तर्हि प्रकृतिपदं विहायानुमानपदं कुत इति चेन्न । सूचितार्थार्थाय तयोक्तेः । शंकराचार्यास्तु नैयायिकं प्रति अनुमानं मानमीश्वरे नेत्याहुः । भास्करास्तूक्तव्युत्पत्त्यास्मदुक्तम् । रामानुजास्तु तत्रेत्यध्याहृत्य प्रकृतावनुमानं नेत्याहुः । माध्वास्तु प्रकृतौ नानुमानमित्याहुः । मूलेति । तत्त्वसंग्रहोयम् । अतःपरं कारणताशोधकस्तर्कः, फलांशे स्वात- न्त्र्यस्य निराकरणम्, द्वयं वक्तव्यम् । तर्कस्तु प्राज्ञे नावतरति शङ्काभावात् । शङ्का तु आचार्यसं- दर्शितागमात् भूयो महत्सु तद्दर्शनादपि कारणताशङ्का सापि तर्कनिवृत्ता भवति । अतस्तर्कोऽपि तं प्रति न । मन्दमध्यमयोस्तु द्वयं वक्तव्यम् । तदुक्तं 'हेतुव्यभिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः' इति भाषापरिच्छेदे । किंच । 'अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते' इति युक्तिः तौ प्रत्यप्यसिद्धा । अतो मीमांसायुतस्तर्क आरभ्यते 'अन्यथाज्ञानं तर्कः' । नन्विदं तर्कलक्षणमत्र सूत्रेऽव्याप्तम् । रचनानु- पपत्तेरनुमानं नेत्यस्य प्रमात्वात् । तर्ह्यनुमानं कारणत्ववत् चेतनं विनेति तर्कः । नन्विदमपि न । कारणत्ववत्त्वाभाववदनुमानं रचनानुपपत्तेरिति सौत्रमितीति चेन्न । ज्ञानकाण्डोपपादकत्वेन मीमां- सायां अप्यन्यथाज्ञानरूपत्वानौचित्यात् सांख्यान्यथाज्ञानरूपतर्कवैशिष्ट्येन तर्कपादत्वव्यवहाराद् ब्रह्मजगतोः कार्यकारणभावः । ब्रह्म जगत्कारणं शास्त्रयोनित्वादित्यत्र शास्त्रयोनित्वं जगत्कारण- त्वव्यभिचारीत्याशङ्का सूत्रेण तर्कविशिष्टेन नाश्यत इति तर्कपादत्वम् । तदुक्तं 'तदुक्तयुक्ती- राभासीकर्तुम्'इति पूर्वं प्रकाशेचैव । अत एव न भाष्येषु पादसमाप्तौ तर्कसम्बन्धः किंतु द्वितीयः पाद इत्येव । अन्यख्यातिरपि परमार्थदशायामख्यातिरेवेति न कोपि दोषः । फलांशे स्वातन्त्र्यनिराकरणं तु 1174