भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1284, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1284

४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० १ सू० १ भाष्यप्रकाशः। महत्तस्तु विकृतिस्त्रिविधोऽपि । पञ्च ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्घाणहसनारव्यानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानि । मन उभयात्मकम् । पृथिव्यप्तेजोवाय्वाकाशाः पञ्च महाभूतानि । एत इन्द्रियादयः षोडश विकाराः । पुरुषस्तु परिणामशून्यत्वान्न कस्यापि प्रकृतिः । नित्यत्वेनाजन्यत्वान्न कस्यापि विकृतिः । अत एव निर्धर्मकश्चैतन्यमात्रस्वरूपो निष्क्रियः सर्वगतः प्रतिशरीरं भिन्नश्च । तत्र निर्विकारत्वाभिष्वङ्गित्वान्न पुरुषस्य कर्तृत्वम् । प्रकृतेस्तु तदुभयवत्त्वात् कर्तृत्वं परिणामित्वं चेति । तच्च प्रकृतेः कारणत्वमेवमनुमिमते, 'भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य । कारणमस्त्यव्यक्तम्' इति । अर्थस्तु विश्वं रूपं यस्मिन्निति विश्वरूपं जगत्, विश्वरूपमेव वैश्वरूप्यम्, स्वार्थे ष्यञ् तस्याऽव्यक्तं कारणमस्ति । तत्र पञ्च हेतवः । भेदानां परिमाणात् भेदा महदादि- भूतान्तास्तेषां परिमाणात्, अव्यापित्वाद्, व्याप्यत्वादिति यावत् । कारणे सत्कार्य- मिति स्थितम् । तथा च विवादाध्यासिता भेदाः स्वसजातीयाव्यक्तकारणकाः तद्व्याप्यत्वात् । ये सजातीयव्याप्यास्ते तज्जातीयाव्यक्तकारणकाः यथा घटादय इति । एवं समन्वयात् भिन्नानां सरूपता समन्वयः, अविनाभावो वा । तथा च विमता भेदास्तथा, तद्भिन्नत्वे सति तत्सरूपत्वात् तदविनाभूतत्वाद्वा, यदेवं तदेवं घटादिवदिति । किं च । शक्तितः प्रवृत्तेः । शक्तिः स्वान्तःस्थाविर्भावकत्वम् । तथा च यद् यच्छक्तितः प्रवृत्तं तत् तत्कारणकम् । रश्मिः। त्रिविधोपीति अहंकारः । षोडशकश्च विकार इत्येतं सूत्रांशं व्याकुर्वन्ति ज्ञानेन्द्रियाणीति । मन इति महत्तत्त्वानुवादः । विकार इति । तथा च 'सत्त्वरजः' इति सूत्रशेषः 'उभयमिन्द्रियं स्थूल- भूतानि' इति । 'कर्मेन्द्रियबुद्धीन्द्रियैरान्तरमेकादशकम्' इति द्वितीयाध्याये । आन्तरमन्तःकरणम् । न प्रकृतिरित्यादि व्याकुर्वन्ति स पुरुष इति । परिणामेति 'असङ्गोयं पुरुष इति' सूत्रात् । निर्धर्मक इति 'असङ्गोयं पुरुषः' 'निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः' इति प्रथमाध्यायसूत्रा- भ्याम् । तदुभयेति प्रधानं कर्तृ परिणामि च क्रियाविकारोभयवत्त्वात् । एतद् द्रढयितुं मतत्रये- प्यस्वरसानाहुः तच्च प्रकृतेरित्यादि, व्यभिचाराच्चेल्यन्तम् । 'परिणामात्' 'शक्तितश्च' इति सूत्रद्वयदर्शनादाह भेदानामिति लिङ्गद्वयम् । तृतीयं समन्वयात् इति । प्रवृत्तेश्चेति तु शक्तित इत्यस्यैव विशेष्यम् । तस्यापि निष्कृष्टार्थमाह कारण इति । स्थितं स्थितिः । स्वसजाती- येति दृष्टान्तप्रसिद्धौ स्वसजातीयेति । तद्व्याप्यत्वादिति अव्यक्ते स्थितत्वात् । घटादय इति मृत्सजातीयमृद्व्याप्या ये घटादयस्ते मृत्सजातीयमृद्रूपाव्यक्तकारणका इति प्रसिद्धम् । अस्य हेतो रामानुजमतास्वरसप्रदर्शने व्यभिचारस्य वक्ष्यमाणत्वाद्धेलन्तरमाहुः अविनेति । तथेति स्वसजातीयकारणकाः । स्वप्रकाराश्रये लक्षणा । तद्भिन्नत्व इति । तत्सरूपत्वं मूलप्रकृतौ साम्यावस्थायामपीति साधारण्यवारणाय विशेष्यम् । घटादिवदिति घटादयो मृदविनाभूताः, मृद्भिन्नत्वे सति मृद्रूपा इति, मृत्सजातीयमृद्रूपाव्यक्तकारणकाः प्रसिद्धाः । तृतीयं लिङ्गं विवृ- ण्वन्ति स्म किं चेति । स्वान्त इति स्वं कारणम् । यदिदं यत् पटादि तन्तुशक्तितः प्रवृत्तं तत् 1176