भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1286, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1286

याव्यक्तकारणकतासाधकत्वम् । सदृशे मित्रादौ तस्य सत्त्वेन हेतोर्व्यभिचारात् । द्विविधपरि- माणेऽपि संख्यापरिमाणं न साधकम् । एकत्वसंख्यासंख्यातत्वस्य कारणेऽपि सत्त्वाज्जातिसंख्या- संख्यातत्वस्य व्यक्तौ सत्त्वेन व्यभिचाराच्च । अतः पूर्वव्याख्यातरीत्यैव प्रधानस्य कारणत्वानुमानम् । कारणं सुखदुःखमोहात्मकम्, न तु सत्त्वरजस्तमआत्मकमिति नार्थान्तरापत्तिः पक्षैकदेशस्य घटादे- र्निश्चितसाध्यवत्त्वात् । 'निश्चितसाध्यवत्त्वं दृष्टान्तत्वम्' इति दृष्टान्तलक्षणात् । प्रकृतमनुसरामः । यद् यद्रूपतः परिमाणयुक्तं तत्तत्कारणकम् । घटो हि मृद्रूपतस्तावत्परिमाणो भवति, मृदं विना घटा- योगादतो मृत्कारणकः । एवं प्रकृतिरूपा गुणास्तद्रूपतः परिमाणयुक्तं जगद्भवति । प्रकृतिं विना जगदद्योगादतो जगत् प्रकृतिकारणकम् । संख्यात इति । अयमर्थः । प्रकृतिर्हि सर्वगताऽतः परि- माणं तस्या महत् । एवं च परिमाणस्य