भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1291, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1291

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११ प्रधानस्य वा प्रथमप्रवृत्तिः । यद्यपि प्रधानकारणवादे फलपर्यन्तमङ्गीक्रियमाणे भाष्यप्रकाशः । प्रवृत्तेरपि नैमित्तिकाचेतनधर्मत्वान्नन्वयादिषु प्रतिपक्षादिदोषः, किंतु रचनात्वादिष्वेव दोष इत्यत आहुः प्रधानस्येत्यादि । निमित्तसंसर्ग एव नैमित्तिकधर्मसंभवान्निमित्तभूतचेतन- संसर्गस्य सार्वदिकत्वे सृष्टिस्थितिमलयादिकालविभागानुपपत्तेः कादाचित्कत्वे च हेतोर्वक्तु- मशक्यत्वात् प्रधानस्य या प्राथमिकी प्रवृत्तिः सृष्ट्यर्था सैव नोपपद्यते । तथा च तव मते चेतनाधिष्ठानस्यापि वक्तुमशक्यत्वेन हेतोः सविशेषणस्याप्युपादाने त्वन्मतासिद्धिरित्यर्थः । ननु तस्याः स्वभाव एव तादृशोऽतो न किंचिद् दूषणमित्याकाङ्क्षायां तदनूद्य दूषयन्ति यद्यपीत्यादि । धेनुवद्वत्साय पुरुषार्थं स्वभावत एव तस्याः प्रवृत्तिः । नर्तकीवत् सर्वप्रदर्श- रश्मिः । नैमित्तिकेति निमित्तं चेतनं तेन संसृज्यत इति शैषिकः ठक् नैमित्तिकम्, नैमित्तिकं च तदचेतनं नैमित्तिकाचेतनं प्रधानं तस्य धर्मत्वात् । प्रतिपक्षादीति प्रतिपक्षोऽत्र सत्प्रतिपक्षत्वम् । आदि- शब्देनानुमितिप्रतिबन्धः । किंत्विति । दोषस्तु विशेषणदानेपि जडप्रवृत्तिसंपादनेनाविशेषिततुल्यत्वा- द्रचनात्वादिहेतूनां पूर्वतुल्यत्वेन साधारण्यम् । तथाहि । साध्यवदन्यस्मिंश्छत्राके प्रवृत्तिपूर्वकत्वरचनात्व- सत्त्वात्पुनः साधारण्यम् । तथा प्रवृत्तिपूर्वकचेतनस्पर्शनक्रियात्मकरचनाविषयत्वस्यापि छत्राकवृत्त्या साधारण्यम् । छत्राकस्याचेतनकर्तृकत्ववत्त्वेन नाचेतनकर्तृका इति साध्यवदन्यत्वात् । एवं प्रवृत्ति- मदचेतनत्वस्य स्वतः कर्तृत्वाभाववज्जीवच्छरीरान्यास्मिञ्श्चञ्चलजलतरङ्गादौ सत्त्वात्साधारण्यं प्रवृत्ते- र्नैमित्तिकाचेतनधर्मत्वात् । अपि च । अर्थान्तरपादकैः सविशेषणे रचनात्वादिहेतुभिर्नान्वयादिषु सत्प्रतिपक्षता संपाद्यते । प्रधानेन चित्संसर्गेण प्रवृत्त्या कर्तृत्वसंभवादर्थान्तरं दोषः । पूर्वमर्थान्तरं निरस्यन्ति निमित्तेति । सृष्टीत्यादि । कालविभागानुपपत्तिस्तु कालो ह्युपाधिमेयः । उपाधि- भूतप्रवृत्तिस्त्वेकविधा । यदि चाधेयादिसृष्ट्यादिभेद्योभ्युपेयते तदा तु भविष्यत्त्वादाधेयानां भेदकता न संभवतीति विभागानुपपत्तेः । कादाचित्कत्व इति तादृशसंसर्गस्य । हेतोरिति भगवदि- च्छारूपहेतोरप्यसूत्रणे वक्तुमशक्यत्वात् । प्राथमिकीति साम्यावस्थातः प्रच्युतिरूपा, सत्त्वरज- स्तमसां साम्यावस्थातः प्रच्युतिरूपा, सत्त्वरजस्तमसामङ्गाङ्गिभावापत्तिरूपा विशिष्टकार्याभिमुखप्रवृत्ति- रित्यर्थः । नोपपद्यत इति । जायमाना च प्रवृत्तिः स्थितिप्रलयौ प्रतिबध्नीयादिति नोपपद्यते । ननु जायतां प्राथमिकी प्रवृत्तिर्हेतोर्विद्यमानत्वात् । प्रवृत्तौ तु स्थितिप्रलययोर्दर्शनादुपाधिपरिकल्पनया भविष्यत इति चेन्न । चितः कारणतायां बाधकाभावात् । तथा चेति प्रवृत्त्यविशिष्टत्वे प्रकारे सति । सविशेषणस्येति प्रवृत्तिरूपविशेषणसहितस्य । त्वयाप्युपादाने त्वन्मतस्य प्रथमप्रवृ- त्तिरूपस्यासिद्धिरित्यर्थः । रचनादिष्वर्थान्तरापादकत्वेपि प्रधाने तदसंभवात् त्वन्मतासिद्धिः । किंच रचनादिषु दोषसंपादकत्वान्निर्दोषैः प्रवृत्तिघटितैस्तैरन्वयादयः प्रतिपक्षीक्रियन्त इति त्वन्मता- सिद्धिः । तस्या इति प्रकृतेः । तादृश इति स्वयं विभक्तप्रवृत्तिरूपः । न किंचिदिति प्रवृत्त्यनुपपत्तिरूपम् । तथा च प्रवृत्तिपूर्वरचनात्वादिहेतुकेष्वर्थान्तरापत्तिरिति भावः । धेनु- वदिति 'धेनुवद्वत्साय' इति द्वितीयाध्यायसूत्रे षष्ठ्यन्ताद्धेतुरित्याहुः तस्याः प्रवृत्तिरिति । पुरुषार्थमिति पुरुषादिरचनाय निर्लेपपुरुषार्थं वा । नर्तकीवदिति 'नर्तकीवत्प्रवृत्तस्यापि निवृत्तिश्चारितार्थ्यात्' इति तृतीयाध्यायसूत्रादाहुः नर्तकीति । प्रदर्शितकार्येण स्वस्याश्चारितार्थ्यादि- 1183