अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1292, कुल 2600 में से
संदर्भ में पढ़ें१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० १ सू० २ न किंचिद् दूषणम् । कृतिमात्रस्य प्रधानविषयत्वात् । तथापि वादिनं प्रति लोकन्यायेन वक्तव्यम् । तत्र लोके चेतनाचेतनव्यवहारोस्ति । चेतनाश्चतुर्विधा जीवाः सशरीरा अलौकिकाश्च । अन्ये अचेतनाः । तन्न्यायेन विचारोत्रेति न किंचिद् विचार- णीयम् ॥ २ ॥ भाष्यप्रकाशः। नोत्तरं खत एव कार्यान्निवृत्तिरित्येवं कृतिमात्रस्य प्रधानविषयत्वमङ्गीकृत्य फलपर्यन्तं प्रधानकारणवादेऽङ्गीक्रियमाणे स्वभाववादाश्रयणान्न किंचिद् दूषणं रचनाप्रवृत्त्योः काल- नियमस्य च स्वभावादेव संभवात् । तथापीदं शास्त्रं तर्कमाश्रित्य प्रवृत्तं न तु श्रुत्युपष्टब्धम् । तदीयव्याख्यानस्य श्रुत्यन्तरविरोधेन लक्षणाग्रासेन च व्याख्यानाभासत्वात्, अतस्तर्कलम्बने वादिनं प्रत्यपि लोकन्यायेन वक्तव्यम् । तत्र लोके चेतनाचेतनव्यवहारोऽस्ति । चेतना जरायुजाण्डजोद्भिज्जस्वेदजभेदेन चतुर्विधाः । सशरीरा जीवाः । अलौकिका मुक्ता अशरीराश्चे- तनास्तेभ्योऽन्ये घटादयो रथादयश्च ते अचेतना इति । तन्न्यायेनात्र सूत्रेषु विचारस्तथा सति रश्मिः। त्यर्थः । न तु कृत्स्नप्रसक्तिः ज्ञानकाशात्वात् । सर्वेति नृत्यादिकन्दुकलीलान्तं सर्वं दृष्टान्ते, सर्वं कार्यं दार्ष्टान्तिके । निवृत्तिरिति । तथा चैतदुत्तरं स्थितिः पश्चात्स्वभावादेव लयः स च गुण- त्रयसाम्यावस्था इत्यर्थः । तथा च पाठं सूत्रं 'साम्यवैषम्याभ्यां कार्यद्वयम्' इति । कार्यद्वयं च सर्जन- प्रळयरूपम् । कृतिमात्रस्येति । यद्यपि स्वभाववादेन कृतिमात्रस्य प्रधानविषयत्वादिति हेतुपर- तया भाष्यं सुखेन संभवति तथाप्याशयविशेषशोधनाय ल्यब्लोपे पञ्चमीमाश्रित्य व्याकुर्वन्ति प्रधानेति । तथा चाभिप्रायः सांख्यमतानुवादे न तु स्वीयकथन इति भावः । तेन तन्मते कृति- मात्रस्येत्यादिभाष्ये हेतुरिति तन्मत इत्यध्याहारो नेत्यपि भावः । ननु न किंचिद्दूषणं कुतः दृष्टान्तस्य चेतनत्वेन जड्या रचनाप्रवृत्तिकालनियमासंभवेन च दूषणसत्त्वादिति चेत्तत्राहुः रचनाप्रवृत्त्योरित्यादि । तथापीत्यादि भाष्यं विवृण्वन्ति स्म तथापीति । इदमिति सांख्यम् । तर्कमिति । 'अस्त्यात्मा नास्तित्वसाधनाभावात्' स्पष्टमिति । 'देहादिव्यतिरिक्तोऽसौ वैचित्र्यात्' इत्यत्रानुमानबोधनात्तथा। षष्ठाध्यायोपक्रम इत्यर्थनिर्णायकत्वम् । आत्मा अस्ति नास्तित्वसाधनाभावात् घटादिवत्, आत्मा देहादिव्यतिरिक्तः, वैचित्र्यात्, प्राणवत् । अत्र तर्कः कार्यकारणताग्राहकः व्याप्ति- शोधकः । ननु असंङ्गादिश्रुतिविरोधश्च इति 'श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबाधात्' 'नाद्वै- तश्रुतिविरोधो जातिपरत्वात्' इत्यादिसूत्रेषु श्रुत्युपष्टम्भद्योतनोक्तौ 'न तु श्रुत्युपष्टब्धम्' इति चेत्तत्राहुः तदीयव्याख्यानस्येति सांख्यव्याख्यानस्य । व्याख्यानेति । तच्चोक्तमानुमानिकाधिकरणे चतुर्थपादे। लोकन्यायेनेति यत्सालम्बनं तन्न्यायेन वक्तव्यम् । अन्यथा प्रतिज्ञात्यागादिरूपनिग्रहस्थानापत्तेः । लोकन्यायप्रतिपादकं तत्र लोके इत्यादि भाष्यं विवृण्वन्ति स्म, तत्र लोक इति । जरायुजेत्यादि । अश्वादयः कपोतादयः वृक्षादयो मत्कुणादयश्चेति चतुर्धा, जरायुर्तिसूक्ष्मवेष्टनचर्म । 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जम्' इति श्रुतौ तु त्रैविध्यं यत्तन्मत्कुणानामण्ड- जत्वात् । मुक्ताः अक्षरात्मकाः । तन्न्यायेनेति भाष्यं विवृण्वन्ति तन्न्यायेनेति । विचार इति १. निर्गुणादि इति पाठः । २. श्रुत्या सिद्धस्य' इति प्रवचनसूत्रपाठः । 1184