अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1301, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २१ अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥ प्रधानकारणवादाङ्गीकारेऽपि प्रेक्षावत्कारित्वाभावान्न पुरुषार्थः सिद्ध्यति ॥ ६ ॥ इति द्वितीयाध्याये द्वितीयपादे प्रथमं रचनानुपपत्तेरित्यधिकरणम् ॥ १ ॥ भाष्यप्रकाशः। अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥ अन्यानपेक्षस्य प्रधानस्य स्वभावत एव महदा- दिरूपः परिणामो न युक्तिसह इत्युक्तम् । इदानीं तदुपगम्य यथा धेनुर्वत्सार्थं स्वत एव प्रवर्तते तथा प्रधानमपि पुरुषभोगाद्यर्थं स्वत एव प्रवर्तत इति यत्तेऽङ्गीकुर्वन्ति तद् दूषयतीत्याहुः प्रधान- कारणेत्यादि । अभ्युपगमे प्रधानकारणवादाङ्गीकारे प्रधानस्य पुरुषार्थं स्वतः प्रवृत्ति- र्नोपपद्यते । कुतः । अर्थाभावात् अर्थः प्रयोजनं तदभावात् । तद्धि प्रेक्षावतां भासते । यतः प्रेक्षापूर्वकारित्वं चेतनधर्मः सोऽचेतने प्रधाने वक्तुं न शक्यते । लोके तथाऽदर्शनात् । तदभावे च पुरुषार्थो न सिद्ध्यति । घुणाक्षरवत्तु कादाचित्कः स्यात् । तथापि तादर्थ्यप्रवृत्तिप्रतिज्ञा तु भज्येतेवेत्यसंगतस्त्वाभ्युपगम इत्यर्थः ॥६॥ इति प्रथमं रचनानुपपत्तेरित्यधिकरणम् ॥१॥ रश्मिः। अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥ भाष्यं सांख्यस्य निर्हेतुकत्वं स्फोरयतीति भ्रमा- त्स्यात्तन्निवारणायाहुः इदानीमिति । तद्दूषयतीति । यद्यपि 'प्रवृत्तेश्च' इत्यत्रेदं दूषितं परं तु स्वभाववादमभ्युपगम्य यदुक्तं तद्दूषितमत्र तु यो वादविरोधी ह्यभ्युपगमस्तमङ्गीकृत्य यत्तद्दूषयतीत्याहुरि- त्यर्थः । तदभावादिति प्रयोजनाभावस्याप्रवृत्तिहेतुत्वम् 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति वाक्यात् । अनुमानं तु प्रधानं न प्रवर्तते, प्रयोजनाभावात्, अस्मदादिवदिति फलितम् । कथं प्रधाने प्रेक्ष्यकारित्वाभाव इत्यतस्तं विवृण्वन्ति स्म तद्धीति प्रयोजनम् । प्रतिभावतां भासते । तथेति अचेतनस्य प्रकृष्टज्ञानरूपप्रेक्षावत्त्वेन प्रकारेण । मा प्रधाने प्रेक्षा भूत्, प्रवृत्तिस्त्वभ्युपेयत इत्यत आहुः तदभाव इति । पुरुषार्थ इति पुरुषाणामर्थः प्रयोजनं तच्चानेकविधम् । पुरुषाः सृष्टास्त- द्भोग्यमसृष्टम्, अनेनायमुपजीविष्यतीति प्रेक्षाभावादिति विचित्रा जगतः कृतिः हरेरेव । ननु प्रधानं प्रवर्तते, अर्थाभावात् घुणवदित्यनुमानाद्विरुद्धो हेतुरित्यत आहुः घुणाक्षरवदिति । घुणः कीटस्त- च्चरणेन यदृच्छया कदाचिद्भूमौ रजश्छन्नायामक्षराणि निपतन्ति तद्वत्प्रधानमपि पुरुषोत्पत्स्यति तद्भोग्यं चेति प्रेक्षाभावेऽपि पुरुषार्थः सेत्स्यति परं कादाचित्को भविष्यति । दृष्टान्ते तथा दर्शनादि- त्यर्थः । इदमनुमानं विरुद्धत्वापादकं तु पूर्वानुमानस्येति तु न च वाच्यं प्रधानं न प्रवर्तते जडत्वात् घटवदित्यनेन सत्प्रतिपक्षत्वाद्घुणदृष्टान्तेन प्रवृत्तिसाधकस्यानुमानस्येति । तथापीति प्रेक्षाभावे पुरुषार्थसिद्धेरङ्गीकारेऽपि 'प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वादुष्ट्रकुङ्कुमवत्' इति सूत्रे परार्थं पुरुषार्थमित्यर्थात् । तादर्थ्यं स्वार्थं त्यजन् पुरुषार्थम् । पुरुषार्थे प्रवृत्तिप्रतिज्ञेत्यर्थः । भज्येतेति एतत्प्रवृत्तिरेतद्भोग्यमित्यादिप्रेक्षां विना न भवतीति भज्येतेत्यर्थः । शंकराचार्यभाष्ये न विशेषः । रामानुजाचार्यभाष्येऽपि । भास्कराचार्यभाष्येऽपि न विशेषः । माध्वाचार्यभाष्ये तु 'अन्यत्र' इति सूत्रे सेश्वरसांख्यमतनिराकरणं यथा पृथिव्या एव पर्जन्यानुगृहीतं तृणादिकमुत्पद्यते एवं प्रधानादीश्वरानुगृहीतं जगदित्यतो ब्रवीति अन्यत्रेति । 'यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' इत्यन्यत्र ब्रह्मणो जगतोऽभावात्तृणादीनां पर्जन्य- वन्नानुग्राहकत्वमात्रमीश्वरस्य । चकारेण प्रकृतिसत्तादिप्रदत्वं चाङ्गीकृतम् । अभ्युपगमसूत्रे लोकायतिक- पक्षनिराकरणम् । य