भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1302, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1302

१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० २ पा ० २ अ ० २ सू ० ७ पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥ (२-२-२) प्रधानस्य केवलस्य कारणवादो निराकृतः। पुरुषप्रेरितस्य कारणत्वमाशङ्क्य भाष्यप्रकाशः। पुरुषाश्मवदिति चेत्तथापि ॥ ७॥ एवं प्रधानकारणवादे निरस्ते पुनः प्रत्यवस्थाना- नवकाशात् किमस्य सूत्रस्य प्रयोजनमित्यत आहुः प्रधानेत्यादि । तथा च प्रतिज्ञान्तर- परिहारः प्रयोजनमित्यर्थः । पुरुषप्रेरितप्रधानकारणवादस्य स्वरूपमाहुः पुरुष इत्यादि । तथोक्तं सांख्यसप्तत्याम्- 'पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्गन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥' इति । उभयोः प्रधानपुरुषयोः संयोगः संश्लेषस्तत्कृतो महदादिसर्गः । तस्य प्रयोजन- द्वयम् । पुरुषस्य भोग्यतया प्रधानविषयकं दर्शनं, पुरुषस्य कैवल्यं चेति । तथा च रश्मिः। अर्थः प्रयोजनम् । अत्र सेश्वर सांख्यनिरासस्य पूर्वसूत्रे कृतत्वात् सांख्यप्रस्तावे लोकायतिकमतनिराकरणं प्रसङ्गेन भवति । स चाग्रे निराकरणाद्गुरुरीति न स्वमते विचारान्तरप्रयोजनम् । अधिकरणरचना तु जन्माद्यधिकरणेषु ब्रह्मकारणवाद उक्तस्तत्र समन्वयो हेतुरुक्तः स चानुमानेऽपि सुखदुःखमोहैर्घटादिषु समन्वयात्तुल्य इति संशयः । समवायि ब्रह्म वानुमानं वेति 'प्रधानाज्जगजायते' इति श्रुतेः प्रधानं समवायि निमित्तं च ब्रह्मकारणत्वबोधिकास्तु सांख्यीयनिमित्तत्वेनापि नेतुं शक्येति पूर्वपक्षे सिद्धा- न्तः रचनाद्यसंभवाद्ब्रह्मैवाभिन्ननिमित्तोपादानम् । प्रधानादिति श्रुतिस्तु स्वरूपपरा । प्रकृतेः स्वरू- पत्त्वं प्रकृतिश्चेत्यधिकरण उक्तमिति ॥ ६ ॥ इति प्रथमं रचनानुपपत्तेरित्यधिकरणम् ॥ १ ॥ पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥ लिङ्गं यत्किंचित् । अश्मा व्यापको जडश्चेति योगरूढिस्तद्वत् । 'व्यापको भगवान्रुद्रः' इत्यस्य रुद्रचरितत्वे तामसप्रकरणीया लीला नोचेद्भगवल्लीला 'आनन्दादयः प्रधानस्य' इत्यत्र व्याससूत्रे आनन्दव्यापकत्वादयः प्रधानस्य भगवतो धर्मा इत्युक्त- त्वात् । एवं च नन्वेत्तर्हि सतोऽश्मादेः प्रवृत्तिश्चेतनाधीना कापि न स्यात्तथा च प्रतिमायाः सच्चिदा- नन्दबोधकवाक्यानि विरुद्धानि भवेयुः, अप्रतीकालम्बनसूत्रे भाष्यं च विरुध्येत, तत्र प्रतिमायां भगवत्सांनिध्यमुक्तम् । पर्वतत्रयं च सरोनिष्ठं सच्चिदानन्दकं सत् स्वपूजां गृह्णत् प्लवते न प्रवर्तेत इत्यन्य- मुखश्रुतं तद्विरोधश्च । अतः सेश्वर सांख्ये दृष्टान्तसत्त्वात्तेन प्रत्यवस्थातारं सांख्यं प्रत्याहुरित्याशयेन भाष्यमवतारयांबभूवुः एवमिति । ननु द्वन्द्वेन व्याख्यानं पुरुषश्चाश्मा च पुरुषाश्मानौ ताविव पुरुषाश्म- वत् । आभासे तु कर्मधारय इति विरुद्धमिति चेन्न । माध्वभाष्ये पुरुषोश्मशरीरादिकं गृहीत्वा गच्छ- तीति कर्मधारय उक्तः । किमेतावता संपन्नमिति चेन्न । 'पूर्णा भगवदीयास्ते शेषव्यासाभिधाह्वयाः' इत्याचार्योक्तिस्तेषां भगवदीयत्वेन कर्मधारयग्रहणेप्याचार्योक्तिविरोधाभावरूपो गुणः संपन्न इति । तेन द्वन्द्वेन शंकराचार्यादिव्याख्यानम् 'अनाविष्कुर्वन्नन्वयात्' इति सूत्राद्भगवत्संबन्धानां कृष्णमूर्तिसंब- न्धानाविष्करणार्थमेवेति । अत एव पूर्णभगवदीयरामानुजाचार्यभाष्येऽपि शंकराचार्यादिव्याख्यानं युज्यते । आह च तथा लिखितपाठकोऽधमः इति । अतः पाठे उपयोगः । प्रतिज्ञा- न्तरेति यद्यपि प्रतिज्ञान्तरमपि निग्रहस्थानमिति न तत्परिहारो वक्तव्यः परमाचार्यप्रवृत्तिर्ज्ञापयति मतान्तरेण जनता मा नश्यत्विति परिहारः । इत्यर्थ इति तथा च पूर्वाधिकरणेनास्य प्रसङ्गः संगतिरिति भावः । संश्लेष इति । पङ्गन्धवदित्यत्र दृष्टान्तः । कैवल्यमित्यौदासीन्यम् । 1194