अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1303, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २३ परिहरति । पुरुषः पङ्गुरन्धमारुह्यान्योन्योपकाराय गच्छति, यथा वा अयःकान्तः सन्निधिमात्रेण लोहे क्रियामुत्पादयति । एवमेव पुरुषाधिष्ठितं पुरुषसन्निहितं वा प्रधानं प्रवर्तिष्यत इति चेत्, तथापि दोषस्तदवस्थः । प्रधानप्रेरकत्वं पुरुषस्य स्वाभाविकं प्रधानकृतं वा । आद्ये प्रधानस्याप्रयोजकत्वम् । द्वितीये प्रधान- भाष्यप्रकाशः। यथा पङ्गुरन्धमारुह्याऽन्योन्योपकाराय गच्छत्येवं पुरुषः प्रधानमधिष्ठाय उक्तकार्यद्वयार्थं प्रवर्तयतीत्येकं मतम् । यथा वा अयःकान्त इति द्वितीयं मतम् । तदनूद्य दूषयन्ति तथापीत्यादि, एवमङ्गीकारेऽपि । दोषस्तदवस्थ इत्यतो नानुमानमित्यर्थः । तदुपपादयन्ति प्रधानेत्यादि । अप्रयोजकत्वमिति पुरुषोपकारजननासमर्थत्वम् । तथा च स्वाभाविकत्वपक्षे पुरुषस्य स्वत एव प्रवृत्तेः प्रधानकृतो न कश्चिदुपकारः । यथा स्वहस्तेन वीजने व्यजनस्य नोपकारकत्वेन प्रसिद्धिरतथेति । प्रधानकृतत्वपक्षे तु प्रेक्ष्यकारित्वस्य तत्र वक्तुमशक्यत्वादु- पकारकत्वासिद्धिर्व्यतिरेकानवस्थितेश्चानपायात् पुरुषार्थासिद्धिः प्रलयासिद्धिश्च तदवस्था । किंच । रश्मिः । अन्योन्योपेति । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' 'असमासवच्च बहुलम्' इति द्वित्वे समासव- द्भावेन सोर्लुकि चान्योन्य इति । 'असमासवद्भावे पूर्वपदस्य सुपः सुर्वक्तव्यः' इति वार्तिकादन्यो- न्यस्योपकारायेति षष्ठीतत्पुरुषः । न चात्रान्यान्योपकारायेति सोर्लोपः संभाव्यः 'अन्योन्यसंश्रयत्वं तदिति महाभाष्याद्बाहुलकेन च सोर्न लुक् । चलनांशक्तस्य पङ्गोः पादकार्यसंपादकोन्धः अन्धस्य चक्षुःकार्यसंपादकः पङ्गुरित्यन्योन्योपकारः । तदुक्तं पञ्चमेऽध्याये 'नेश्वराधिष्ठितेऽफलसंपत्तिः कर्मणा तत्सिद्धेः' 'स्वोपकारादधिष्ठानं लोकवत्' इति सूत्रे । ईश्वराधिष्ठिते प्रधानेऽफलसंपत्तिर्नेत्यर्थः । कर्मणा प्रेक्षापूर्वकप्रवृत्त्याख्येन फलं पुरुषार्थ उक्तस्तत्सिद्धेः । स्वस्येश्वरस्य प्रवर्तकत्वरूपप्रधानकृतोपकारा- ल्लोकः पङ्गुरन्धमित्यादिस्तद्वदित्यर्थः । उक्तेति असङ्गस्य पुरुषस्य प्रवर्तकत्वसंपादकं प्रधानं जडस्य प्रधानस्य प्रवृत्तिसंपादकः पुरुष इत्यन्योन्योपकारः । अयःकान्त इति 'तत्संनिधानादधिष्ठातृत्वं मणिवत्' इति सूत्रात् । अनीश्वरसांख्ये जीवसन्निधानात्प्रधानाधिष्ठातृत्वमयःकान्तमणिवदित्यर्थः । द्वितीयमिति निरीश्वरसांख्यम् । दोष इति । एतच्चाध्याह्रियते । नानुमानमिति पूर्वसूत्रादनुवर्तते पुरुषेति सूत्रीयं तथाप्येतस्य तात्पर्यवृत्तिलभ्यो वा भाष्ये तेन सूत्रान्तरादनिर्मोक्षप्रसङ्ग इत्यनुवर्त्य व्याख्यानं भाष्यान्तरे गुरु । अतएव रामानुजाचार्यभाष्ये तथापीत्यस्य व्याख्यानमेवमपि प्रधानस्य प्रवृत्त्यसंभवस्तदवस्थ एवेति । माध्वभाष्ये तु 'न ऋते त्वत्क्रियते किंचनारे' इति तत्रापि तथात्वे दृष्टान्ताभावादिति व्याख्यानम् । अत्र तात्पर्यं दृष्टान्ताभाव इति तथाप्येतयोरेकतरस्य तात्पर्यार्थस्य विवक्षितत्वे न दोषः । अन्यथा विवादास्पदं तात्पर्यार्थः स्यात् । नानुमानमिति पूर्वसूत्रादनुवर्तते । बीजन इति स्वहस्तव्यजनसंबन्धिवीजन इत्यर्थः, दार्ष्टान्तिकसाम्यार्थम् । द्वितीयेत्यादि भाष्यं विवृण्वन्ति प्रधानकृतत्वेति । अत्रेति असङ्गे निर्गुणे तद्विघटके प्रधाने तत्कृते प्रवर्तकत्वेऽत्र प्रधानेऽप्रेक्ष्यकारित्वापत्या प्रेक्ष्यकारित्वस्यवक्तुमशक्यत्वादनुपका- रित्वापत्त्योपकारकत्वासिद्धिः । व्यतिरेकेति कार्यव्यतिरेकानवस्थितेश्चानपायादनाशत्पुरुषार्थो व्याख्यातस्तस्मादसिद्धिः । अयं भाष्ये प्रधानदोष इत्युक्तः, तदवस्थेति सा अवसीयत इत्यवस्था भावे घञ् अवस्थितैर्यस्य दोषस्य स तदवस्थ इति भाष्ये । नित्येत्यादिभाष्यं विवृण्वन्ति स्म किंचेति अन्यदपि दूषणमारभ्यते । किंचेत्यारम्भसाकल्यार्थत्वं 'किंचारम्भे च साकल्ये' इति 1195