भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1304, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1304

२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० २ सू० ८ दोषस्तदवस्थः । नित्यसंबन्धस्य विशिष्टकारणत्वे अनिर्मोक्षः । अशक्तस्य तु मोक्षाङ्गीकारः सर्वथानुपपन्नः ॥ ७ ॥ अङ्गित्वानुपपत्तेश्च ॥ ८ ॥ प्रकृतिपुरुषयोरङ्गाङ्गित्वे भवेदप्येवम् । तच्च नोपपद्यते । पुरुषस्याङ्गत्वे भाष्यप्रकाशः । प्रकृतिपुरुषयोः कश्चित् संबन्धो निर्वक्तव्यः स तयोर्नित्यत्त्वान्नित्य एव । सोऽप्युदासीन- त्वेनाभ्युपगतस्य पुरुषस्य वागादिव्यापारसंभवात् प्रकृतिप्रेरणयोग्यातारूपो वक्तव्यः । तस्यैव चेद् भोगादिके विशिष्टकारणत्वं तदा तस्य नित्यत्वात् पुरुषस्यानिर्मोक्ष एव प्रसज्येत । यदि चात्मनामानन्त्यात् तेषां मध्ये कस्यचन शक्तस्य अधिष्ठातृत्वं तदितरसाशक्तस्य मोक्ष इति न दोष इति विभाव्यते तदापि प्रधानस्य स्वातन्त्र्याद् बन्धकत्वाभ्याञ्चानिच्छतोऽपि तेनैव भोगसंभवादशक्तत्वेन तन्निवारणासंभवाच्चाशक्तस्य मोक्षाङ्गीकारः सर्वथाऽनुपपन्न इत्यर्थः । सूत्रयोजना तु पुरुषश्चाश्मा च पुरुषाश्मानौ ताभ्यां तुल्यः संबन्धस्तथा । द्वन्द्वान्ते श्रूयमाणो वतिः प्रत्येकमभिसंबध्यत इति ॥ ७ ॥ अङ्गित्वानुपपत्तेश्च ॥ ८ ॥ पुरुषविशिष्टप्रधानकारणवाद एव दूषणान्तरमाह अङ्गि- त्वेत्यादि । तद् व्याकुर्वन्ति प्रकृतीत्यादि । यत् तयोरन्योन्योपकारकत्वमङ्गीकृतं तत् तदा स्याद् यदि तयोर्गुणप्रधानभावेनाङ्गत्वमेकस्यान्सस्याङ्गित्वं च स्यात् तदेव तु न जाघटीति । कुतः । अङ्गित्वानुपपत्तेः । पुरुषस्याङ्गित्वे स पुरुष इतरविलक्षणो वक्तव्यः । अन्यथा प्रकृतिनियामकत्वं तस्य न स्यात् । तथा सति तत् तस्य वैलक्षण्यं श्रौतधर्मवत्त्वयैवेति रश्मिः । कोशात् । उदासीनेति । 'असङ्गोऽयं पुरुष इति' इति सूत्रात् । तस्यैवेति संबन्धस्य विशिष्ट- कारणत्वं क्व प्रधानस्यं भोक्तृत्वं यदा पुरुषे । तस्येति संबन्धस्य । पुरुषस्येति शुद्धबुद्धमुक्तस्वभाव- स्य 'द्वयोरेकतरस्य वा औदासीन्यमपवर्गः' इति सूत्राद्भोगादिके औदासीन्यादनिर्मोक्षः । निरी- श्वरसांख्यमतेपि दूषणारम्भ इत्याशयेनाशक्तस्येति विवरामासुः यदि चेति । स्वातन्त्र्यादिति प्रकृतिः कर्त्रीति प्रतिप्रयोगात् । 'अकार्यत्वेपि तद्भोगः पारवश्यात्' 'स हि सर्ववित्सर्वकर्ता' 'ईदृशेश्वरसिद्धिः सिद्धा' इति तृतीयाध्यायसूत्रेभ्यश्च स्वातन्त्र्यात् 'स्वतन्त्रः कर्त्ता' । पुरुषस्याकार्यत्वेपि तद्भोगः प्रकृति- योगः । तेन पुरुषस्य तद्भोगादेशेन तद्भोगाव्याप्तिः परिहृता । ईदृशेति सगुणेत्यर्थः । बन्धकेति प्रधानं रूपैरात्मानं बध्नातीति तथा । अनिच्छतः पुरुषस्य । तेनेति प्रधानेन । तन्निवारणेति भोगनिवारणेत्यर्थः । सूत्रयोजना च पुरुषश्चाश्मा च पुरुषाश्मानौ ताभ्यां तुल्यः संबन्धस्तथा । द्वन्द्वान्ते श्रूयमाणो वतिः प्रत्येकमभिसंबध्यत इति ॥ ७ ॥ अङ्गित्वानुपपत्तेश्च ॥ ८ ॥ तच्चेति भाष्यं विवृण्वन्ति स्म तदेवेति । जाघटीतीति । 'यङोचि च'इति सूत्रे चकारेण च्छन्दसीत्यनुकृष्य बहुलमितस्यानुकर्षणाद्भाषायामपि यङ्लुगिति मनोरमादौ स्पष्टम् । घटधातोः 'धातारेकाचो हलादेः क्रियासमभिहारे' यङि 'यङोऽचि च'इति तल्लुक् । ततः प्रत्ययलक्षणेन यङन्तत्वात्'सन्यङोः' इति द्वित्वे 'अभ्यासे चर्च' इति घस्य जत्वम् । 'दीर्घोऽकितः'इति दीर्घे धातुत्वाद्व ततस्तिपि 'यङो वा'इतीटि भवति । पुरुषस्येति भाष्यं विवृण्वन्ति स्म पुरुषस्या- ङ्गत्व इति । प्रधानसञ्चिहितः प्रधानाच्छिन्नश्च पुरुषः प्रवर्त्तते । इतरेति निरीश्वरसांख्य- विलक्षणः । अन्यथेति जीवत्वे । श्रौतधर्मेति सांख्ययोगावेकं शास्त्रं तल्लक्षणेन तच्छाखीय- 1196

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1304, कुल 2600 में से · BharatKosha