अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1305, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २५ ब्रह्मवादप्रवेशो मतहानिश्च । प्रकृतेरङ्गित्वे त्वनिर्मोक्षः । अनेन परिहृतोऽपि मायावादो निर्लज्जानां हृदये भासते ॥ ८ ॥ भाष्यप्रकाशः । ब्रह्मवादप्रवेशः । यदि न श्रौतधर्मवत्त्वेत्युच्यते तदापि कालकर्मविपाकाशयैरपरामृष्टस्तु वक्तव्यः । तथा सतीतरपुरुषविलक्षणेश्वरसिद्ध्या ईश्वरासिद्धेः 'ईदृशेश्वरसिद्धिः सिद्धा'इति प्रवचन- सूत्रोक्तमतहानिः । यदि च तन्क्रिया प्रकृतेरङ्गत्वमाद्रियते तदा तस्याः स्वातन्त्र्यात् तथा पुरुषाय स्वदोषा न दर्शयितव्याः । ततश्च दुःखाभावेन वैराग्याभावात् कैवल्यार्थं प्रवृत्त्यभावेना- निर्मोक्ष इत्यर्थः । शंकराचार्याद्यस्तु सत्त्वरजस्तमसां साम्यावस्था हि प्रधानावस्था तस्यामवस्थायामन- पेक्षस्वरूपाणां परस्परं प्रत्यङ्गाङ्गिभावानुपपत्ते