भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1306, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1306

३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० १ सू० ९ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥ अन्यथा वयं सर्वमनुमिमीमहे । यथा सर्वे दोषाः परिहृता भवेयुरितिचेत् भाष्यप्रकाशः। भावोऽनुपपन्न इति स्वयमेव व्याख्यानात् साम्यावस्थामवस्थितगुणत्रयमुदासीनस्वरूपस्य परमात्मनः प्रवर्तकत्वमित्यसंगतम् । अथ शुद्धसत्त्वप्रधाना साङ्गीक्रियते, तदा तु तया ज्ञानमात्रमेवोत्पादयि- तव्यं, न प्रवर्तयितव्यम् । सत्त्वस्य तादृशस्वभावे मानाभावात् । अप्राधान्येन गुणान्तरेऽपि तथा- त्वस्य वक्तुमशक्यत्वात् । अतः क्षोक्तमप्यननुसंदधानानां निर्लज्जत्वात् तादृशमेव हृदये भासत इति तथासमर्थनमसंगतमित्यर्थः ॥ ८ ॥ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥ ‘प्रीत्यप्रीतिविषादात्मकाः प्रकाश- प्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः’ इति हि सांख्यानाम- परा प्रतिज्ञा । अर्थस्तु—प्रीतिः सुखम्, अप्रीतिर्दुःखं, विषादो मोहः, सत्त्वरजस्तमांसि गुणाः क्रमेणैतन्नयात्मका एतन्नयरूपाः । प्रकाशः प्रवृत्तिर्नियमे निग्रह इति तेषां क्रमेणा- साधारणं कार्यं, तेन तेऽनुमीयन्ते । वृत्तिः क्रिया, अन्योन्याभिभवोऽन्योन्याश्रयोऽन्यो- न्यजननमन्योन्यमिथुनीभावश्च तेषां साधारणीक्रियेति । एवं साधारणक्रियया गुणवृत्तं चल- मङ्गीकृत्य तमसा रजोनियमनेन प्रवृत्तावपोदितायां प्रलयसिद्धिः । तत्पूर्वकं सत्त्वजनने तेन प्रकाशादात्मविवेके निर्मोक्ष इत्येवं समर्थनमाशङ्क्य परिहरति । तद् व्याकुर्वन्ति अन्यथे- त्यादि । गुणा एवं विभागशः प्रवृत्तिमन्तश्चलस्वभावत्वात् चलदलदलवदित्येवमन्यथा- रश्मिः। रुक्त्यापत्त्याऽसंगतत्वात् । न च भास्करभाष्ये प्रलयकाले साम्येनावस्थितानां सत्त्वादीनामिति प्रलयकालोक्तेर्न पुनरुक्तिरिति वाच्यम् । पदार्थैक्येन दोषतादवस्थ्यात् । असंगतमिति साम्याव- स्थास्थितेति विशेषणस्य समासघटकत्वेपि हेतुगर्भत्वेनासङ्गतम् । नव्यमतेप्याहुः अथेति । एवेति 'सत्त्वात्संजायते ज्ञानम्' इति वाक्यात् । तादृशेति ज्ञानातिरिक्तपरिणामहेतुत्वे । तथात्वस्येति प्रवर्तकत्वस्य । यथा वातपित्तकफेषु प्रकुपितस्यैव कार्यं दरीदृश्यते तथा । तथासमर्थनमिति स्वरूपव्यपाश्रयमित्यादिशंकराचार्यभास्यानुवादेनोक्ताभासोक्तं समर्थनम् । तथा नाम परमात्मन उदासीनत्वेन मायाव्यपाश्रयप्रवर्तकत्वेन समर्थनम् । मध्वभाष्ये तु जडशरीरकत्वेज्ञित्वव्यव- हारापत्तिः तस्याज्ञित्वस्यानुपपत्तेरित्युकम् ॥ ८ ॥ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥ तृतीयकार्यस्य नियमस्य विवरणं निग्रह इति । अनुमीयन्त इति अनुमानान्यग्रे वक्तव्यानि, स्वयमेव । वृत्तिरिति कारिकोत्तरार्धे समासघटकः शब्दः । अन्योन्यानि अभिभवाश्रयजननमिथुनानि वृत्तयो येषां ते गुणा इत्याशयेनाडुः अन्योन्याभीति । एवमिति । प्रकृतेः साम्यावस्थोक्ता तस्या गुणवृत्तं गुणवर्तनं साधारणक्रियया चलमङ्गीकृत्य तमसा रजोनियमनेन रजोधर्मप्रवृत्तावपोदितायां नष्टायां सत्त्वभावस्य प्रतिबन्ध- काभावलेन कारणसोपस्थित्या तमसा प्रलयसिद्धिः । आत्यन्तिकप्रलयमाहुः तत्पूर्वकमिति रजस्तमो- भिभवपूर्वकं सत्त्वोद्रेके । निर्मोक्षः आत्यन्तिकप्रलयः । रजसा तमोभिभवे सृष्टिः, सत्त्वेन तमो- नियमने स्थितिरिति वृत्तिकृच्छ्रीकृष्णचन्द्राः । समर्थनमिति 'साम्यवैषम्याभ्यां कार्यद्वयम्' इति पाठसूत्रात् । परीति सूत्रकारः । विभागश इति विभागं ददतीति विभागशः । चलेति चलदले दलं 1198