अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1307, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २७ तथापि पूर्वं ज्ञानशक्तिर्नास्तीति मन्तव्यम् । तथा सति बीजस्यैवाभावान्नित्यत्वा- न्नानिर्मोक्ष इति ॥ ९ ॥ विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥ परस्परविरुद्धत्वान्मंतवर्तिनां पञ्चविंशादिपक्षाङ्गीकारात् । वस्तुतस्त्व- लौकिकार्थे वेद एव प्रमाणं नान्यदिति ॥ १० ॥ इति द्वितीयाध्याये द्वितीयपादे द्वितीयं पुरुषाश्मवदित्यधिकरणम् ॥ २ ॥ भाष्यप्रकाशः। नुमाने रचनाऽनुपपत्त्यादयः सर्वे दोषाः परिहृता भवेयुरितिचेत्तत्र दूषणमाह ज्ञशक्ति- वियोगादिति । सौत्रोऽप्यर्थः । एवं प्रकारान्तरेणानुमितावपि तत्तत्काले तत्तत्कार्यं वाच्यं, न सर्वदा । क्रमानुपपत्त्यादिदूषणग्रासात् । तच्च तथा तदा भवति यदि तमसा कालो ज्ञायेत । सा तु ज्ञानशक्तिर्भवतां मते पुंप्रकृतिसंयोगात् पूर्वं नास्तीति स्वमतानु- रोधान्मन्तव्यम् । तथासति प्रवृत्तिबीजस्य ज्ञानशक्तिसंयोगस्याभावात् प्रवृत्त्यसिद्धिः । अथ 'दिकालावाकाशादिभ्यः' इति सूत्रात् सृष्टिदशायां कालोत्पन्नत्वात् पुंयोगेन ज्ञानशक्ति- सद्भावाच्च प्रवृत्तिः साध्यते, तथापि संयोगस्य नित्यत्वात् प्रलयदशायां कालस्यापि नाशाद् वियोजकान्तरस्य वक्तुमशक्यत्वात् पुरुषस्य गुणसाम्यादनिर्मोक्षस्तद्वस्थ इति नानुमानान्तरेणापि तथासिद्धिरित्यर्थः ॥ ९ ॥ विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥ सर्वपक्षसाधारणं दूषणान्तरं वदति तन्मतस्या- र्वाचीनत्वख्यापनायेत्याशयेनाहुः परस्परेत्यादि । तानि च मतान्येकादशस्कन्धे उद्धवप्रश्न रश्मिः। तद्वत् प्रथमान्ताद्वतिः । हेतुसूत्रार्थत्वेन तथापीति भाष्यमित्याशयेन तथापीति भाष्यमवतारयन्ति स्म सौत्रे इति । क्रमेति आदिना प्रत्यक्षविरोधः । तच्चेति प्रलयकाले प्रलयरूपं कार्यं न त्वन्यस्मिन्काले । तथेति क्रमप्रकारेण । तमसेति तमसा प्रवृत्तिनिरोधे प्रलय इत्युक्तेस्तमः प्रलयकर्तृ । ज्ञायेतेति अयं प्रलयकाल इति ज्ञायेत । पुमिति पुंप्रकृत्योः संबन्धात् । स्वमतेति 'स हि