अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1308, कुल 2600 में से
संदर्भ में पढ़ें२८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० २ सू० १० भाष्यप्रकाशः। उक्तानि । 'केचित् पञ्चविंशतिं प्राहुरितरे पञ्चविंशतिम् । सप्तैके नव षट् केचिच्चत्वार्यैकादशापरे । केचित् सप्तदश प्राहुः षोडशैके त्रयोदश' इति । एतेषां स्वरूपं च तत्रैव भगवता प्रोक्तम् । तच्च सर्वं यौक्तिकत्वादनादरणीयम् । भगवता तथोक्तत्वात् । 'युक्तयः सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयामुद्गृह्य वदतां किन्नु दुर्घटम् । नैतदेवं यथाऽऽत्थ त्वं यदहं वच्मि तत् तथा । एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः । यासां व्यतिकरादासीद् विकल्पो वदतां पदम् । प्राप्ते शमदमेऽप्येति वादस्तमनुशाम्यति' इति । तर्हि, 'तमो वा इदमेकमेवाग्र आसीत्' इत्यादिश्रुत्यु- क्तस्य का गतिरित्यत आहुः वस्तुत इत्यादि । तद्रीत्या तदङ्गीकारे तु भगवत्परत्वान्न दोष इत्यर्थः । एवं दशभिः सूत्रैः सांख्यसमयो निराकृतः ॥ १० ॥ इति द्वितीयं पुरुषाश्मवदित्यधिकरणम् ॥ २ ॥ रश्मिः। द्वाविंशे 'कति तत्त्वानि विश्वेश संख्यातान्यृषिभिः प्रभो । नवैकादश पञ्चत्रीण्यात्थ त्वमिति शुश्रुम' इत्युपक्रम्योक्तानि । त्रयोदशेति । तथा च विप्रतिषेधात् मतवर्तिनां मध्ये परस्परं विशेषेण पञ्चविंशादिपक्षे तत्तन्मतप्रतिषेधेन रुद्धत्वाद्धेतोः पञ्चविंशादि(पक्षादि)पक्षाङ्गीकारादिति भाष्यार्थः । भगवतेति 'परस्परानुप्रवेशात्तत्त्वानां पुरुषर्षभ । पौर्वापर्यप्रसंख्यानं यथा वक्तुर्विवक्षितम् । एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च । पूर्वस्मिन्वा परस्मिन्वा तत्त्वे तत्त्वानि सर्वशः । पौर्वापर्य- मतोऽमीषां प्रसंख्यानमभीप्सताम् । यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसंभवात्' इति अन्योन्य- स्मिन्प्रवेशाद्वक्तुर्विवक्षामनतिक्रम्य संख्या भवति । तथापि विविक्तं निश्चितं यद्वक्त्रं वक्ति तद्गृह्णीम इत्यर्थः । सौत्रमसमञ्जसपदं हेतुपूर्वकं विवृण्वन्ति स्म तच्चेति । तथा चासमञ्जसत्वमनादरणीयत्वम् । उक्तमेवाहुः युक्तय इति । इदं प्रश्नोत्तरम् । यासामिति । व्यतिकरात्क्षोभात् । विकल्पो भेदः । पदं विषय आसीदित्यर्थः । अप्येति विकल्पोऽप्येति । तमो वा इदमिति । उक्तस्य का गतिरिति समाकर्षाधिकरणे समाहितस्यापि सांख्यमते 'माया च तमोरूपा'इति नृसिंहतापनीयोक्तस्य तमसः का गतिरिति प्रश्नः । तद्रीत्येति अलौकिकार्थे वेदस्य प्रामाण्याच्छ्रुत्युक्तरीत्या । तमसः सर्व- पूर्वत्वस्याङ्गीकारे तु । तुः तमोमायात्वपक्षं व्यावर्तयति । भगवदिति तमःपदस्य भगवद्वाचकत्वा- दित्यर्थः । एतच्च प्रथमस्य चतुर्थपादे समाधिकरणे स्फुटम् । 'माया च तमोरूपा' इति तु मायाया- स्तमःप्राधान्ये तमःप्राधान्यं बोधयति वा । दशभिरिति दशेन्द्रियाणि न शास्त्रान्तरपराणि कर्तव्यानीति संख्यातात्पर्यम् । वक्ष्यन्ति च भाष्यसमाप्तौ 'मुधा बुधा धावत नान्यवर्त्मसु' इति । निराकृत इति भाष्ये इतिशब्दः सांख्यनिराकरणसमाप्तौ । सिद्धान्ते त्वियान्विशेषः । द्वितीयस्कन्धनवमाध्यायोक्तमतेऽवस्थितिः तत्र धर्मी एकः एकाकी च ब्रह्मात्मशब्दवाच्यः । तस्य धर्मित्वेऽप्युभयरूपत्वेन वर्णनं तत्रैव । एवं च पुरुषः कारणवान् विरुद्धसर्वधर्माश्रयश्च । ब्रह्मत्वमात्मत्वं च विरुद्धम् । विशेष्यविशेषणसंबन्धानवगाहि ज्ञानं ब्रह्म । विशेष्यविशेषणसंबन्धा- वगाहि ज्ञानमात्मेति तयोर्भेदः । ननु 'आत्मैवेदमग्र आसीत्' 'ब्रह्मैवेदमग्र आसीत्' इति बृहदारण्यके नवमाध्याये च ब्रह्मण एकाक्येव रूपं प्रदर्शितं, गोपालतापनीये च 'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथा' इत्येकमेवाद्वितीयं ब्रह्मेति कथमिति चेच्छृणु । एकमेव शब्दस्य प्रयोगे द्वित्वप्रतीतं क्रियते शब्दार्थभेदेन । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति क्रियाप्रयोगेऽत्र तु विरुद्धधर्माश्रयो गृह्यते 1200