अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1309, कुल 2600 में से
संदर्भ में पढ़ेंप्रयोगे ब्रह्मत्वमात्मत्वं चेति । 'औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति जैमिनिसूत्रे । अस्य पुरुषसा- म्निध्यनिमित्तोपादानत्वम्, प्रधानकारणानुमानदूषणात् । प्रधानं तु 'यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदा- त्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्' इति गुणत्रयात्मकं यद्यपि तथाप्युद्गतावस्थंतो गुणा अपि भवन्ति । 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुषः' इति प्रथमस्कन्धादिति सांख्या- द्विशेषः । नित्यं स्वरूपাত্মকत्वात् । 'प्रकृतिश्च' इत्यधिकरणे उक्तं प्रकृतेः स्वरूपাত্মকत्वं सद- सदात्मकत्वम् । समाकर्षादित्यधिकरणेन स्वरूपविशेषणात् । कार्यभावशून्यं कार्यवदित्यविशेषं वि- शेषवदिति । एते च गुणाः 'प्रजायेय'इतीच्छया जघन्यतां गताः सच्चिदानन्दानामाभासा अंशा भगवत उत्पन्नायां तस्यां शक्तौ प्रतिष्ठितास्तस्याः प्रधानत्वं बोधयन्ति । गुणलक्षणानि तु 'तत्र सत्त्वं निर्मलत्वा- त्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ' इति वाक्यात्सुखानावरकत्वे प्रकाशकत्वे सुखात्मकत्वे च सति सुखासक्त्या ज्ञानासक्त्या च देहिनो देहाध्यासासक्तिजनकं सत्त्वम् । प्रकाशो वस्तुयाथात्म्यावबोधः । पदकृत्यं तु स्पष्टं प्रस्थानरत्नाकरे । 'रजो रागात्मकं विद्धि तृष्णासङ्गसमु- द्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्' इति वाक्याद्रागात्मकं वा तृष्णासङ्गादिजनकं वा कर्मासक्त्या देहिनो नितरां देहाध्यासासक्तिजनकं वा रजः । प्रथमं स्वरूपलक्षणम् । 'पुंसोः परस्परं स्पृहा रागः' इति रामानुजाचार्याः । विषयेषु गर्द्ध इति परे । द्वयं तु कार्यलक्षणम् । गुणान्तरेऽतिव्याप्ति- व्युदासाय कर्मासक्त्येति । बन्धने सत्त्वादाधिक्यं नितरामिति पदं बोधयति । 'तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत' इति वाक्यात् । आवरणशक्तिजन्यं सर्वदेहिमोहकं प्रमादालस्यनिद्राभिर्देहिनो देहाध्यासासक्तिजनकं तमः । अत्रान्यथासूत्रे एतेषां स्वतोऽ- नुवर्तनादिकमुक्तं सांख्यैस्तन्न । जडत्वेन स्वभाववादोऽनीश्वरवादश्च स्यात्स चानिष्टः । 'कालः स्वभावो नियतिर्यदृच्छा' इति श्रुतौ चिन्त्यत्वोक्तेः । अन्योन्यजननमिथुनवृत्तित्वमप्यसंभवि । लक्षण- सांकर्यप्रसङ्गात् । रजसो दुःखात्मकत्वं च तथा । रागात्मकत्वादेतदुपादानीभवति । कदाचिद्व्य- च्छेद्येति सदसदात्मकमिति पदेनावसीयते । अत एवैकादशे 'प्रकृतिर्गुणसाम्यं हि प्रकृतेर्नात्मनो गुणाः । सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः । सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते । गुणव्यतिकरः कालः स्वभावः सूत्रमेव च' इति । इमानि गुणलक्षणानि शोभनानि । गुणव्यतिकरः गुणक्षोभकः । क्षोभश्च कार्योन्मुखत्वम् । तत्त्वानि तु नव 'पुरुषः प्रकृतिर्व्यक्तमहंकारो नभोऽनिलः । ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव' इत्येकादशे द्वाविंशाध्याये भगवद्वचनात् । तत्त्वं च तस्य भाव उच्यते । भगवतः कारणता नवधा लोके प्रकटेति यावत् । तथा च पदार्थस्त्वेक एव ब्रह्माख्यः । नैयायिकास्तु प्रकृत्यहंकारयोः स्थाने दिक्कालौ पठन्ति तन्न । प्रकृत्यहंकारयोः सार्वजनीन- त्वात् दिक्कालयोश्चेश्वरानतिरेकात् । तथा च पदार्थतत्त्वविवेचने दीधितिकृत् । दिक्कालावश्वरा- नातिरिच्येते प्रमाणाभावात् । न च पूर्वस्यां दिशि घटः इदानीं घट इति प्रतीत्यलापप्रसङ्ग इति वाच्यम् । तत्तन्निमित्तसमवधानवशादीश्वरादेव तादृशप्रतीत्युपपत्तेः । न चेश्वरे घट इति प्रतीत्यापत्तिः । 'यत्र येन यतो यस्य यस्मै यद्यथा यदा । स्यादिदं भगवान्साक्षात्प्रधानपुरुषेश्वरः' इति वाक्यादना- पत्तेः । कालदिक्शब्दवाच्ये त्वीश्वरे लोकप्रतीतिः । प्रकृतमनुसरामः । पुरुषस्त्वात्मा । स्वयंप्रकाशत्वं तत्त्वम्, तच्च ब्रह्मण्यतिव्यासामिति चेन्न । अनादित्वे निर्गुणत्वे प्रकृतिनियामकत्वे सति अहंवित्ति-