अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1310, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete and accurate transcription of the image into Devanagari text, with line markers:
२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० २ पा ० २ अ ० १ सू ० १० रश्मिः । वेद्यत्वस तल्लक्षणत्वात् । प्रकृतिनियामकत्वं सांख्याद्विशेषः । इदमपि तत्रैवाव्याप्तमिति चेन्न । 'आत्मैवेदमग्रे' इत्यत्र सादित्वस्य महदादिसमानाधिकरणस्य निषेधात् । तथा च सादित्वाभावोऽग्र- पदार्थः 'द्विधा समभवद् बृहत्' इति वाक्यात् । न चैवमपि न निस्तार एतादृशाऽनादित्वस्य ब्रह्मतवाऽ- वच्छेदकत्वादिति शङ्क्यम् । विश्वगतगुणदोषसंबंधाभावे सति सम्यग्गुणदोषसंसर्गवत्त्वमिति लक्ष- णात् । 'जगृहे पौरुषं रूपम्' इत्यत्र ब्रह्माण्डतनो Ruddere सृष्टिरिति बहिर्गुणदोषसंबन्धाभावेऽप्युदरे तथेति नासंभवः । स्पष्टं चेदमाकरे । एवमप्यतिव्याप्तौ ब्रह्मभिन्नत्वे सतीति विशेषणं देयम् । सोऽयं न नाना किं त्वे- क एव । 'कालबृत्त्या तु मायायां गुणमय्यामधोक्षजः । पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान्' इति वीर्याधानमात्रार्थं करणत्वेनैकपुरुषापेक्षणात् । सांख्ये त्वयमेवेश्वर उपाधिभेदभिन्नो जीव इत्युच्यत इति महान् भेदः । तदुक्तं तृतीयस्कन्धे 'अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयंज्योति- र्विश्वं येन समन्वितम्' प्रत्यक् अन्तर्मुखतया धाम स्फूर्तिर्यस्य । अहंविद्विवेध इत्यर्थः । प्रकृतिस्तु व्याख्याता । व्यक्तं महत्तत्त्वम् । तच्च 'तमो रजः सत्त्वमिति प्रकृतेरभवन्गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषाणुमतेन च । तेभ्यः समभवत्सूत्रं महान्सूत्रेण संयुतः' । सूचनात्सूत्रं क्रियाशक्तिमान्प्रथमो वि- कारस्ततो महान् ज्ञानशक्तिमान् । महान्नाम स्थूलमात्रं कार्यं वा । स च सूत्रेण संयुतः सम्यग्मिश्रः । किंत्वेकमेव तत्त्वं ज्ञानक्रियाशक्तिभ्यां द्विचोच्यत इति । तच्च हिरण्मयं 'महत्तत्त्वं हिरण्मयम्' इति वाक्यात् । आनन्दसत्तोरैक्ये हिरण्यरूपता । कूटस्थत्वे सति स्वस्वाधारविश्वव्यञ्जकत्वम् । प्रकृता- वतिव्याप्तिवारणाय विशेष्यम् । ब्रह्माण्डेऽतिव्याप्तिवारणाय सत्यन्तम् । जगदङ्कुरत्वम्, अतिसमर्थतमो- नाशकत्वमित्यपरं लक्षणद्वयम् । वासुदेवाविर्भावस्थानं शुद्धसत्त्वात्मकं चेतत्त् । चित्तत्वं तु सांख्य- समानं लक्षणमिति भेदः । अहंकारस्तु महतः कार्यं चिदचिन्मयश्च । अहं जानामीतिवदहं कुर्व इति- चिदाभासरूपत्वात् । तन्मात्रेन्द्रियमनोजनकत्वमन्नादिगुणकत्वं तन्मात्रजनकत्वं तामसत्वम् । इन्द्रियजनकत्वं राजसत्वम् । मनोजनकत्वं सात्त्विकत्वम् । संकर्षणाधिष्ठानत्वमाधिदैविकं लक्षणम् । संकर्षणो देवतेत्यर्थः । संकर्षणश्च पुरुषाच्चातिरिच्यते । कर्तृत्वं करणत्वं कार्यत्वं चेत्यपराणि लक्षणानि । कर्ताहमितिबुद्धिविषयकत्वं कर्तृत्वम् । एवमन्यदपि ज्ञेयम् । शान्तघोरविमूढत्वमित्यपरम् । निरहं- कारस्य नैते भावा उत्पद्यन्ते । शान्तत्वं सात्त्विकाहंकारस्य । घोरत्वं राजसस्य । विमूढत्वं तामस- स्येति । विशेषस्तु तृतीयस्य षड्विंशाध्याये सुबोधिन्यां द्रष्टव्यः । मनस्त्वनिलं क्षितौ निविशते । 'अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योनिष्ठ- स्तन्मनः' इति श्रुतेः । गुणानान्तर्भावस्तु समवायाभ्युपगमसूत्रे वक्तव्यः । अत्र शंकरभास्कराचा- र्याभ्यां वेदान्तेऽपि विप्रतिषेधादसमञ्जसमुक्तम् । तत्सद्गुणब्रह्माङ्गीकारे जीवब्रह्मवादापत्त्या संभवति । आदिलान्तःस्थस्य पुरुषान्तःस्थस्य च तैत्तिरीय ऐक्याङ्गीकारात् तप्यतापकभावाशङ्का । प्रकृते तु तप्यत्वस्य दुःखरूपप्ताविषयकतत्वम् । वाराहे चातुर्मासमाहात्म्ये यत उक्तम् 'मनसीर्ष्यासूयादीनां सुखे सामानाधिकरण्येन सत्त्वे सुखं दुःखायते' इति । रामानुजाचार्यास्तु स्वयुक्तिभिः सांख्योप- न्यासेन च विप्रतिषेधादसमञ्जसमित्याहुरन्यदप्याहुः । येऽपि कूटस्थनित्यनिर्विशेषस्वप्रकाश- चिन्मात्रं ब्रह्माविद्यासाक्षित्वेनापारमार्थिकबन्धमोक्षभागिति वदन्ति तेषामप्युक्तरीत्याविद्यासाक्षि- त्वाध्यासाद्यसंभवान्महदसामञ्जसमेव । इयांस्तु विशेषः । सांख्या जननमरणप्रतिनियमादिव्यवस्था- सिद्धयर्थं पुरुषबहुत्वमिच्छन्ति ते तु तदपि नेच्छन्तीति सुतरामसामञ्जसमिति । अत्राप्यस्माकं तज्जीवा- णुल्याद्युपपन्नम् । न च विशिष्टाद्वैते चिद्वैशिष्ट्यान्न विशिष्टे तप्यत्वं किंतु चित एव । प्रकृते त्वैक्यात्तप्य- 1202