भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1310, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1310

Here is the complete and accurate transcription of the image into Devanagari text, with line markers:

२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० २ पा ० २ अ ० १ सू ० १० रश्मिः । वेद्यत्वस तल्लक्षणत्वात् । प्रकृतिनियामकत्वं सांख्याद्विशेषः । इदमपि तत्रैवाव्याप्तमिति चेन्न । 'आत्मैवेदमग्रे' इत्यत्र सादित्वस्य महदादिसमानाधिकरणस्य निषेधात् । तथा च सादित्वाभावोऽग्र- पदार्थः 'द्विधा समभवद् बृहत्' इति वाक्यात् । न चैवमपि न निस्तार एतादृशाऽनादित्वस्य ब्रह्मतवाऽ- वच्छेदकत्वादिति शङ्क्यम् । विश्वगतगुणदोषसंबंधाभावे सति सम्यग्गुणदोषसंसर्गवत्त्वमिति लक्ष- णात् । 'जगृहे पौरुषं रूपम्' इत्यत्र ब्रह्माण्डतनो Ruddere सृष्टिरिति बहिर्गुणदोषसंबन्धाभावेऽप्युदरे तथेति नासंभवः । स्पष्टं चेदमाकरे । एवमप्यतिव्याप्तौ ब्रह्मभिन्नत्वे सतीति विशेषणं देयम् । सोऽयं न नाना किं त्वे- क एव । 'कालबृत्त्या तु मायायां गुणमय्यामधोक्षजः । पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान्' इति वीर्याधानमात्रार्थं करणत्वेनैकपुरुषापेक्षणात् । सांख्ये त्वयमेवेश्वर उपाधिभेदभिन्नो जीव इत्युच्यत इति महान् भेदः । तदुक्तं तृतीयस्कन्धे 'अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयंज्योति- र्विश्वं येन समन्वितम्' प्रत्यक् अन्तर्मुखतया धाम स्फूर्तिर्यस्य । अहंविद्विवेध इत्यर्थः । प्रकृतिस्तु व्याख्याता । व्यक्तं महत्तत्त्वम् । तच्च 'तमो रजः सत्त्वमिति प्रकृतेरभवन्गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषाणुमतेन च । तेभ्यः समभवत्सूत्रं महान्सूत्रेण संयुतः' । सूचनात्सूत्रं क्रियाशक्तिमान्प्रथमो वि- कारस्ततो महान् ज्ञानशक्तिमान् । महान्नाम स्थूलमात्रं कार्यं वा । स च सूत्रेण संयुतः सम्यग्मिश्रः । किंत्वेकमेव तत्त्वं ज्ञानक्रियाशक्तिभ्यां द्विचोच्यत इति । तच्च हिरण्मयं 'महत्तत्त्वं हिरण्मयम्' इति वाक्यात् । आनन्दसत्तोरैक्ये हिरण्यरूपता । कूटस्थत्वे सति स्वस्वाधारविश्वव्यञ्जकत्वम् । प्रकृता- वतिव्याप्तिवारणाय विशेष्यम् । ब्रह्माण्डेऽतिव्याप्तिवारणाय सत्यन्तम् । जगदङ्कुरत्वम्, अतिसमर्थतमो- नाशकत्वमित्यपरं लक्षणद्वयम् । वासुदेवाविर्भावस्थानं शुद्धसत्त्वात्मकं चेतत्त् । चित्तत्वं तु सांख्य- समानं लक्षणमिति भेदः । अहंकारस्तु महतः कार्यं चिदचिन्मयश्च । अहं जानामीतिवदहं कुर्व इति- चिदाभासरूपत्वात् । तन्मात्रेन्द्रियमनोजनकत्वमन्नादिगुणकत्वं तन्मात्रजनकत्वं तामसत्वम् । इन्द्रियजनकत्वं राजसत्वम् । मनोजनकत्वं सात्त्विकत्वम् । संकर्षणाधिष्ठानत्वमाधिदैविकं लक्षणम् । संकर्षणो देवतेत्यर्थः । संकर्षणश्च पुरुषाच्चातिरिच्यते । कर्तृत्वं करणत्वं कार्यत्वं चेत्यपराणि लक्षणानि । कर्ताहमितिबुद्धिविषयकत्वं कर्तृत्वम् । एवमन्यदपि ज्ञेयम् । शान्तघोरविमूढत्वमित्यपरम् । निरहं- कारस्य नैते भावा उत्पद्यन्ते । शान्तत्वं सात्त्विकाहंकारस्य । घोरत्वं राजसस्य । विमूढत्वं तामस- स्येति । विशेषस्तु तृतीयस्य षड्विंशाध्याये सुबोधिन्यां द्रष्टव्यः । मनस्त्वनिलं क्षितौ निविशते । 'अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योनिष्ठ- स्तन्मनः' इति श्रुतेः । गुणानान्तर्भावस्तु समवायाभ्युपगमसूत्रे वक्तव्यः । अत्र शंकरभास्कराचा- र्याभ्यां वेदान्तेऽपि विप्रतिषेधादसमञ्जसमुक्तम् । तत्सद्गुणब्रह्माङ्गीकारे जीवब्रह्मवादापत्त्या संभवति । आदिलान्तःस्थस्य पुरुषान्तःस्थस्य च तैत्तिरीय ऐक्याङ्गीकारात् तप्यतापकभावाशङ्का । प्रकृते तु तप्यत्वस्य दुःखरूपप्ताविषयकतत्वम् । वाराहे चातुर्मासमाहात्म्ये यत उक्तम् 'मनसीर्ष्यासूयादीनां सुखे सामानाधिकरण्येन सत्त्वे सुखं दुःखायते' इति । रामानुजाचार्यास्तु स्वयुक्तिभिः सांख्योप- न्यासेन च विप्रतिषेधादसमञ्जसमित्याहुरन्यदप्याहुः । येऽपि कूटस्थनित्यनिर्विशेषस्वप्रकाश- चिन्मात्रं ब्रह्माविद्यासाक्षित्वेनापारमार्थिकबन्धमोक्षभागिति वदन्ति तेषामप्युक्तरीत्याविद्यासाक्षि- त्वाध्यासाद्यसंभवान्महदसामञ्जसमेव । इयांस्तु विशेषः । सांख्या जननमरणप्रतिनियमादिव्यवस्था- सिद्धयर्थं पुरुषबहुत्वमिच्छन्ति ते तु तदपि नेच्छन्तीति सुतरामसामञ्जसमिति । अत्राप्यस्माकं तज्जीवा- णुल्याद्युपपन्नम् । न च विशिष्टाद्वैते चिद्वैशिष्ट्यान्न विशिष्टे तप्यत्वं किंतु चित एव । प्रकृते त्वैक्यात्तप्य- 1202