अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1311, कुल 2600 में से
संदर्भ में पढ़ें[भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११]
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥ (२-२-३) इदानीं परमाणुकारणवादो निराक्रियते । तत्र स्थूलकार्यार्थं प्रथमं परमा- णुद्वयेन द्वयणुकमारभ्यते । परमाणुद्वयसंयोगे द्वयणुकं भवतीत्यर्थः । तत्रोपर्यधो-
[भाष्यप्रकाशः ।]
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥ अतः परं सप्तसूत्र्या नैयायिकादि- समयोत्र निराक्रियते । केचिदिदं सूत्रं ब्रह्मकारणवाददूषणपरिहारार्थत्वेन व्याकुर्वन्ति । तद- युक्तम् । ब्रह्मकारणवादे प्रसक्तानां विलक्षणत्वादीनां दोषाणां पूर्वस्मिन् पाद एव न वि- लक्षणत्वाद्यधिकरणैर्निवारितत्वेन प्रसङ्गाभावात् पुनरुक्त्यापादकत्वाचेत्यभिप्रेत्याहुः इदानी- मित्यादि । अत्रासमञ्जसमिति पूर्वसूत्रादनुवर्तत इति केचिदाहुः । वस्तुतस्त्वग्रिमसूत्रेणैतत्सा- [