अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1312, कुल 2600 में से
संदर्भ में पढ़ें३९ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ३ सू० ११ भाष्यप्रकाशः अयमर्थः । तेषां मते सर्वं जगद् उपादानभूतेभ्यो नित्येभ्यः परमाणुभ्यो द्व्यणुकादिक्रमेणो- त्पद्यते । तत्रैषा युक्तिः । सूक्ष्मादेव स्थूलस्योत्पत्तिर्लोके दृश्यते । तन्तुभ्यः पटस्य, अंशु- भ्यस्तन्तूनां चोत्पत्तिदर्शनात् । स चापकर्षः परमकारणद्रव्यमतिसूक्ष्ममवस्थापयति परमाणु- रूपम् । तस्य सावयवत्वाङ्गीकारे त्वनन्तावयवत्वेन मेरुसर्षपयोः समानपरिमाणत्वप्रसङ्गः । एवं सिद्धाः परमाणवः पार्थिवाप्यतैजसवायवीयभेदाच्चतुर्विधा नित्याः प्रलयकालेऽवतिष्ठन्ते । किंच । कार्यमात्रं लोके समवाय्यसमवायिनिमित्ताख्यकारणत्रयजन्यं दृश्यते । यथा पटे तन्तवः समवायिकारणम् । तेषां परस्परं संयोगोऽसमवायिकारणम् । तुरीवेमकुविन्दादयश्च निमित्तकारणम् । एवमाद्यकार्येऽपि परमाणवः समवायिनस्तत्संयोगोऽसमवायी । अदृष्टेश्वरे- च्छादिकं च निमित्तम् । तत्र जीवाद्दष्टसहकृतेश्वरेच्छावशाद् वा, ईश्वरेच्छावशगाद्दष्टवदात्म- संयोगाद् वा परमाणुषु कर्मोत्पद्यते । ततस्ते परमाणवः परमाण्वन्तरेण संयुज्यमानाः प्रत्येकं द्व्यणुकसारूपं कार्यमारभन्ते । बहवस्त परमाणवः संयुक्ता न सहसा स्थूलं कार्यमारभन्ते, रश्मिः । भाष्येण व्याकुर्वन्ति । स चेति कारणसौक्ष्म्यम् । परमेति परमाणुरूपमित्यस्य विशेष्यम् । अतः परमाणौ विश्राम इति भावः । स च नित्यः । अन्यथानवस्थितकारणककार्योत्पत्तिप्रसङ्गः । अत्रेति त्र्यणुकं सावयवं चाक्षुषद्रव्यत्वात् घटवदित्यनुमानेन तदवयवसिद्धौ त्रसरेणोरवयवाः साव- यवाः महदवयवत्वात् कपालवदित्यनुमानेनावस्थापयतीत्यर्थः । साध्यवदन्यस्मिन्नाकाशादौ साधा- रण्यंवारणाय चाक्षुषेति । अनन्तेति अवयवावयवधाराया अनन्तत्वात्तथा । अयं हेतुः । मेर्विति मध्यमपरिमाणौ । अयं पक्षः । समानेति । इदं साध्यम् । तथा च मेरुसर्षपौ समानपरिमाणौ अनन्तावयवत्वात्, घटवत् । पार्थिवाप्येति आप्येति पदच्छेदः । कार्यमात्रमिति द्रव्यं बोध्यम् । केषांचिदसमवायिकारणाभावात् । समवायीति 'यत्समवेतं कार्यमुत्पद्यते तत्समवायि- कारणम्' । असमवायीति कार्यैकार्थकारणैकार्थान्यतरप्रत्यासत्त्या ज्ञानादिभिन्नमसमवायिकारणम् । कार्यैकार्थप्रत्यासत्त्या ज्ञानमिच्छा कारणमित्यतिव्याप्तिवारणाय ज्ञानादिभिन्नमित्युपात्तम् । आदिपदेन यत्नं प्रति कारणीभूताया इच्छायाः संग्रहः । अत्रापि कार्यैकार्यप्रत्यासत्त्या तन्तुसंयोगोसमवायि- कारणम् । तुरीतन्तुसंयोगस्यापि पटं प्रति कार्यैकार्यप्रत्यासत्त्या कारणत्वादसमवायित्वं पटं प्रति युक्तं परत्वादिन तस्यापि संग्रहश्च भवति । तत्र इति अदृष्टेश्वरेच्छादिके विचार्यमाणे । ईश्वरेच्छा- मात्रस्य कारणत्वे देवदत्ताद्दष्टयोग्यव्यवस्थोत्पन्नेषु न स्यादतो विशेषणम् । अनीश्वरवादापत्या वि- शेष्यम् । कारणतावच्छेदकद्वयापत्तेश्वरस्य संसारमहीरुहस्य बीजत्वं न स्यादत आहुः ईश्वरेच्छेति । ईश्वरेच्छावशं गच्छन्ति ये ते ईश्वरेच्छावशगाः ईश्वरेच्छाकारणका अदृष्टवन्त आत्मानः तेषां संयोगात् । अन्यथा जीवानां परमाण्वादिभोगो न स्यात् । तूष्णीं जीवा न कारणाभोग्यसांकर्य- प्रसङ्गादतो यत्र यस्य संयोगः तत्तस्य भोग्यमिति न संयोगः कारणतावच्छेदकैक्यान्नानीश्वर- वादापत्तिः । नैयायिकव्याख्याने स्पष्टम् । ननु संहत्य परमाणवः कार्यमुत्पादयन्तु किं द्व्यणुकादि- क्रमेणेत्यत आहुः । बहवस्त्विति । पक्षसंख्याविस्मरणायेिदम् । न तु पक्षान्तर्गतम् । साध्या- प्रसिद्धिवारणाय संयुक्ता इति पक्षविशेषणम् । असमवायिकारणविधुरे समवायिनि साध्यप्रतियोग्य- प्रसिद्ध्या साध्याप्रसिद्धिः । बाधवारणाय सहसेति 'अतर्किते तु सहसा' इत्यमरात्, सहते । षह मर्षणे 1204