अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1324, कुल 2600 में से
संदर्भ में पढ़ें४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ३ सू० १३ संबन्धत्वात् तस्य । यथा संबन्धिनि संबन्धान्तरापेक्षा एवं समवायस्यापि । तथा सत्यनवस्थितिः ॥ १३ ॥ भाष्यप्रकाशः। समवायनित्यत्वहानिरित्युभयतःपाशा रज्जुः । अथ स नित्यत्वात् परमाणुष्वेव तिष्ठन् पश्चाद् व्यणुकेन संबद्धत इत्युच्यते तर्हि तस्य तदानीं सत्तायां प्रमाणं वक्तव्यम् । न तावलौकिकं प्रत्यक्षम् । परमाणूनामेवाप्रत्यक्षत्वेन तद्धर्मस्यास्य सुतरां तथात्वात् । नापि योगिनाम् । कणादादिव्यतिरिक्तैर्मुनिभिरनङ्गीकारात् । कणादप्रत्यक्षस्य वादकवलितत्वात् । नाप्यनुमानम् । तत्साधकस्य लिङ्गस्याभावात् । नापि शब्दः । सर्ववेदादिवेत्तॄणामपि मुनीनां तादृशश्रुति- पुराणवाक्यानुपलम्भात् । नाप्युपमानम् । तत्सदृशस्य संबन्धान्तरस्याभावात् । किंच । सदृशा- न्वेषणे संयोगस्तथा वक्तव्यः । तदापि समवायो नाङ्गीकर्तुं शक्यः तेन तुल्यत्वात् । संबन्ध- त्वेनापि तिष्ठतस्तस्य यथा संबन्धिनि स्थित्यर्थं संबन्धान्तरस्य समवायस्यापेक्षा, एवं सम- वायस्यापि स्यात् । संबन्धत्वेनात्यन्तभिन्नत्वेन च तत्तौल्यात् । ततस्तस्यापि तस्यापीत्यनव- स्थितिश्च । अन्यान्यपि दूषणानि श्रीहर्षमिश्राद्युक्तानि मया प्रस्थानरत्नाकरे व्युत्पादितानीति रश्मिः। पाशो बन्धनसाधनम्, प्रकृते दूषणकारणम् । अग्रिमभाष्यं विवरीतुं पीठिकामाहुः अथ स इति । स समवायः । पश्चादिति द्व्यणुकोत्पत्त्यनन्तरम् । तदानीमिति द्व्यणुकोत्पत्तिपूर्वकाले । प्रमाणमिति अयुतसिद्धेष्वभावाद्द्वक्तव्यम् । तत्साधकेति द्व्यणुकोत्पत्तेः पूर्वं परमाणौ समवाय- सत्तासाधकस्य । तादृशेति परमाणूनां समवायो दृश्यते यत्र तानि तादृशानि श्रुतिपुराणवाक्यानि तेषामनुपलम्भात् । तत्सदृशस्येति समवायसदृशस्य । सादृश्यमेकत्वनित्यत्वव्यापकत्वैः सादृश्यम् । किंचेति भाष्यं विवरीतुमवतारयन्ति स्म किंचेति । तथेति संबन्धत्वेन । संयोगेनेति भाष्यं विवृण्वन्ति स्म तेनेति । तथा च सूत्रे साम्यात्तुल्यत्वात्समवायानवस्थितेर्न समवायाङ्गीकारो युक्त इति सूत्रशेषार्थः । संबन्धत्वादित्यस्य तुल्यत्वादित्यर्थ इति भाष्ये उपचारं व्यावर्तयितुं संबन्धा- द्धेतोस्तुल्यत्वादित्यर्थ हृदिकृत्याहुः संबन्धत्वेनेति । तस्येति संयोगस्य । समवायस्या- पेक्षेति गुणगुणित्वाभ्याम् । संयोगातिरिक्तगुणगुणिनोः स इति कल्पने गौरवात् । अस्मन्मते स्पर्शस्य संयोगानतिरेकात्स्पर्शस्य संबन्धानङ्गीकारप्रसङ्गाच्च । 'न च संयोगाः स्पर्शजाश्च न मन्तव्याः' इत्यत्राचार्यैर्द्वयोर्भेदाङ्गीकाराच्चैवमिति वाच्यम् । लोकसिद्धपुरस्कारात् । तत्तौल्यात् संयोगतौल्यात् । तथा सतीति भाष्यं विवृण्वन्ति स्म तत इति । समवायस्यापि समवाया- पेक्षेत्येवं समवायसमवायस्यापि समवायापेक्षेत्यर्थः । चेति । तथा च सौत्रश्चकारोत्रान्वेतीत्यर्थः । प्रस्थानरत्नाकर इति शब्दखण्डे । व्युत्पादितमिति । यत्त्वयुतसिद्धलक्षणेऽपराश्रितत्वं तच्चापर- संबन्धित्वम् । तत्र कोऽसौ संबन्धः संयोगः समवायो वा, नाद्यः समवायश्लेषेपि तस्य संभवेन समवायापलापप्रसङ्गात् । प्रतियोग्यनुयोगिनोरविशेषात् । नापरः, अपराश्रितत्वस्य समवायघटित- त्वेन समवायिनिरूपणे आत्माश्रयप्रसङ्गेनानिर्वाच्यत्वात्समवायासिद्धेः । वस्तुगत्या तु कार्यमात्रस्य प्रलये नाशं वदद्भिर्वैशेषिकैस्तादृशगुणक्रियाप्रतियोगिकस्य तादृशव्यक्त्यनुपयोगिकस्य च समवायस्य प्रतियोग्यादिनाशात् प्रमातॄणां जीवानां बाह्यकरणनाशाच्च प्रतीत्यभावेन कालिकादिसंबन्धेन कालादौ सत्तामप्युपपादयितुमशक्नुवद्भिर्नित्यत्वप्रतिज्ञा भज्येतेति श्रीहर्षमिश्रः । आदिशब्देनान्यन्मतं तदपि 1216