अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1325, कुल 2600 में से
संदर्भ में पढ़ेंनान्त्रानुरुध्यन्ते । अतः समवायाभ्युपगमादपि द्व्यणुकाभाव इत्यर्थः । ननु दूषिते समवाये अयुत- सिद्धयोः कः सम्बन्धोऽङ्गीकर्तव्य इति चेत्, तादात्म्यमेवेति वदामः । कथमिति चेत्, इत्थम् । प्रत्यक्षात् यद् द्रव्यं यद्द्रव्यसमवेतं तत् तदात्मकमिति व्याप्तेः 'यथा सुवर्णं सुकृतम्' इत्यादिभग- वद्वाक्याच्च कारणकार्यद्रव्ययोस्तादात्म्यं निर्विवादम् । गुणादिष्वपि विचारे शब्दादीनामाकाशा- दितन्मात्रत्वेन संख्यापरिमाणपृथक्त्वपरत्वापरत्वविभागानां सापेक्षावृत्तिकतया स्वरूपानतिरेकेणं तत्र द्रष्टव्यम् । सूत्रार्थमाहुः अत इति । साम्यादनवस्थितेः समवायाभ्युपगमाच्चेत्यपेरर्थः । तदभाव इति पूर्वसूत्रादनुवर्तत इत्याहुः द्व्यणुकेति । तादात्म्यमिति । एतच्च समन्वयाधिकरणे लक्षितम् । इति व्याप्तेरिति । यथा घटद्रव्यं कपालद्रव्यसमवेतं तद्घटद्रव्यं कपालद्रव्यात्मकमित्यत्र [L9