भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1327, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1327

भाष्यप्रकाशः। संयोगगुरुत्वद्रवत्वस्नेहानां स्पर्शोन्तर्भावेन बुद्ध्यादिप्रवृत्त्यन्तानां मनोवृत्तितया वेनस्थितिसाधक- रश्मिः। नेत्युपपत्तावपि घटो न पट इत्यत्र पटशब्दादन्योन्याभावप्रतियोगिनः पञ्चमी तु स्यादेवेति चेन्न । अन्योन्याभावमात्रवाच्यार्थग्रहणात् । अन्यपदस्य तत्रैव शक्तेः । नञर्थस्तु संसर्गाभावोन्योन्या- भावश्चेत्यग्रहणमित्यपञ्चमी । न चान्यारादिति सूत्रेणैव पञ्चम्याः पृथग्भोगे प्राप्तावपि पृथक्सूत्रेण पञ्चमीविधानं पृथक्त्वमन्यात्पृथगिति बोधयिष्यतीति वाच्यम् । पृथक्सूत्रस्य तृतीयाद्वितीययोर- प्राप्तयोर्विधानार्थत्वात् । नव्यास्तु । अन्यारादिति सूत्रे निपातातिरिक्तान्योन्याभावार्थकपदप्रयोग- स्यैव पञ्चमीप्रयोजकत्वं कल्प्यते । घटो नेत्यत्र पञ्चम्यदर्शनात् । न चान्योन्याभावविशिष्टार्थकपदयोगे प