अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1333, कुल 2600 में से
संदर्भ में पढ़ेंतिरिक्तस्य प्रागभावस्य निरूपयितुमशक्यत्वेनाभ्युपगमैकशरणतया तद्व्यावृत्त्यर्थस्य तस्य व्यर्थ- त्वात् । किंच । सत्त्वमपि न सत्तायोगित्वम् । सामान्यादित्रयस्यासत्त्वप्रसङ्गात् । न च तेषां सत्तासामानाधिकरण्यमेव सत्त्वमिति युक्तम् । सत्तायां तदुभयाभावेन तस्या असत्त्वे पूर्वोक्तानां सर्वेषामेवासत्त्वप्रसङ्गात् । न च सदिति व्यवहारविषयत्वं सत्त्वमिति न कोऽपि दोष इत्यपि युक्तम् । घटाभावोऽस्तीत्यभिलापस्याभावेऽपि दर्शनेन प्रागभावव्यावर्तकस्य सत्पदस्यानर्थक्य- प्रसङ्गात् । यत् पुनर्नित्यत्वसाधकं सूत्रान्तरम्, 'अनित्य इति विशेषतः प्रतिषेधभावः' इति । अर्थस्तु-विशेषस्य नित्यस्य प्रतिषेधस्तदा स्याद् यद्यनित्य इति प्रत्ययः शब्दप्रयोगश्च न स्यात् । नञ उत्तरपदार्थनिषेधकत्वात् । अतः प्रतिषेधसत्त्वात् कस्यचिन्नित्यस्यास्ति सिद्धिरिति । तदपि नित्यस्य कस्यापि साधनेनैव चरितार्थत्वान्न परमाणुनित्यतां साधयितुमलम् । यदपि 'अविद्या' इति सूत्रान्तरं, तदर्थस्त्वेवं तैर्व्याख्यायते । परमाणुरनित्यो मूर्तत्वाद्, रूपादिमत्त्वाद्, एवं नास्तीत्यार्थिकस्याभावबोधकस्य नामावबोधकत्वमनङ्गीकारात् । तद्व्यावृत्त्यर्थस्येति । 'सत्कारण- वन्नित्यम्' इत्यत्राकारणत्वेन प्रागभावस्य नित्यत्वापत्त्या सदित्यनेन तद्व्यावृत्तिः । प्रागभावे सत्त्वा- भावात् । व्याख्यानं दूषयन्ति स्म किं च सत्त्वमिति । सत्तायोगित्वं सत्तासंबन्धित्वम् । सामान्यादीति सामान्यसमवायाभावरूपस्य त्रयस्य । असत्त्वेति 'सत्तावन्तस्त्रयस्त्वाद्याः' इति भाषापरिच्छेदाद्द्रव्यगुणकर्मणां सत्तावत्त्वसाधर्म्यात् । समवायसंबन्धातिरिक्तसंबन्धेन संबन्धि- त्वमाशङ्क्य पराकुर्वन्ति स्म न चेति । तेषां त्रयाणाम् । घटीयघटत्वसामान्यस्य तन्निष्ठसत्ता- सामान्यस्य तन्निष्ठसत्तासामानाधिकरण्यवत्सत्तासामानाधिकरण्यमर्थः । तदुभयेति सत्तायोगित्व- सत्तासामानाधिकरण्यरूपस्योभयस्याभावेन । पूर्वोक्तानामिति चतुर्विधपरमाणूनां सामान्यपूर्वोक्तानां द्रव्यगुणकर्मणां वा सत्त्वविशिष्टसत्तासङ्गेन सताम् । आनर्थक्येति । तथा सति सत्त्वे सत्यकारण- वत्त्वस्य प्रागभावे सत्त्वेन नित्यत्वापत्तिरिति भावः । यत्तु पदार्थतत्त्वविवेचने सत्ता न जातिः किंतु भावत्वम् तच्चाभावान्यत्वम् । भावत्वं चाखण्डोपाधिः तच्च ज्ञेयत्वादेर्ज्ञेयत्वाज्ज्ञेयत्वादिवत् । घटाभावेऽपि घटाभावाद्घटाभावादिवच्च स्ववृत्त्यपीति सामान्यादौ सव्यवहारोपपत्तिरिति शिरो- मणिः । तथा चाभावत्वे सत्यकारणवत्त्वस्य प्रागभावेऽभावेऽभावान्न नित्यत्वापत्तिरिति ब्रूयात्क- श्चित् तदात्यन्ताभावे व्यभिचारादसाधारणो हेतुः । साध्यसामानाधिकरणत्वस्यासाधारण- लक्षणत्वात् । विशेषत इति सार्वविभक्तिकस्तसिरित्यभिप्रायमाहुः विशेषस्येति । प्रतिषेध इति परमाणुषु । यद्वा । विशेषस्येश्वरानिमित्तात्समवायिरूपस्य नित्यस्य परमाणोः प्रतिषेध इत्यर्थः । शेषं पूरयन्ति स्म प्रत्यय इति । प्रपञ्चोऽनित्य इति शब्दप्रयोगश्चायम् । न स्यादिति । तथा चानित्यस्य नेश्वरः समवायी किंतु परमाणव इति भावः । ननु नित्य इति प्रत्यये नञो विरोधार्थकत्वेनेश्वरविरुद्धनित्यत्वादिसंभवे कुतो न बीजमीश्वर इत्यत आहुः नञ इति । नञ्वादे चतुर्भ्योऽर्थेभ्य इतरेषां निषेधादिति भावः । स्वोत्तरपदार्थः नित्यपदार्थः । कस्य- चिदिति परमाणोरीश्वरातिरिक्तस्य । सिद्धिरिति । प्रतियोगिज्ञानाभावे प्रतिषेधानुपपत्तेः । तदपीति । अनित्यः प्रपञ्च इति प्रत्ययः शब्दश्च । कस्यापीति अनिर्वचनीयस्य ब्रह्मणः । तथा च ब्रह्मणि प्रसिद्धस्य नित्यस्य प्रतियोगिनः प्रपञ्चे तव मते निषेधः सुपपन्नः किं परमाणुनित्य- त्वेनेति भावः । मूर्तत्वादिति मूर्तत्वमपकृष्टपरिमाणवत्त्वम् । एवमिति हेतुद्वयप्रकारवत् ।