अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1334, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit page in Markdown format:
५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ३ सू० १५ भाष्यप्रकाशः। 'षट्केन युगपद् योगात् परमाणोः षडंशता' इति विक्षुनागोक्तरीत्या षट्पार्श्ववत्त्वात् । किंच । परमाणोर्मध्ये यद्याकाशोऽस्ति तदा सच्छिद्रत्वेनैव सावयवत्वाद् अव्याप्यवृत्तिसंयोगाश्रयत्वाद् घटादिवदिति । किंच । यत् सत् तत् क्षणिकं यथा घन इति नानानुमानसाध्या परमाण्वनित्य- त्वसाधिका अनुमितिरविद्या भ्रमरूपा हेत्वाभासजन्यत्वात् । एतेषामाभासत्वं च क्वचिद् व्याप्य- त्वासिद्ध्या, क्वचित् स्वरूपासिद्धयेति समानतन्त्रेऽन्वेष्टव्यमिति । तन्न । मूर्तत्वस्य सत्त्वस्य च कथंचिद् व्याप्यत्वासिद्धत्वेऽपि षट्पार्श्ववत्त्वादीनां कथंचित् स्वरूपासिद्धत्वाभिमानेऽपि रश्मिः। षट्केनेति परमाण